[highlight_content]

श्रीभाष्यम् 01-03-27 अर्थान्तरत्वादिव्यपदेशाधिकरणम्

अर्थान्तरत्वादिव्यपदेशाधिकरणम्

(अधिकरणार्थः – नाम-रूपनिर्वोढा आकाशः, परमात्मा)

(दहरविद्याशेषभूतम्  छा.उ. 8-14)

१०७. आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ १४२ ॥

(विषयवाक्यप्रदर्शनम्)

छान्दोग्ये श्रूयते आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा (छां..१४.) इति ।

(संशयाकारः)

तत्र संशय: – किमयमाकाशशब्दनिर्दिष्टो मुक्तात्मा, उत परमात्मा इति।

(पूर्वपक्षः)

किं युक्तं? मुक्तात्मेति। कुत😕 अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य। धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामि ॥ (छां..१३.) इति मुक्तस्यानन्तरप्रकृतत्वात्, ते यदन्तरा (छां..१४.)  इति च नामरूपविनिर्मुक्तस्य तस्याभिधानात्, नामरूपयोर्निर्वहिता (छां..१४.) इति च स एव पूर्वावस्थयोपलिलक्षयिषित:;  स एव हि देवादिरूपाणि नामानि च पूर्वमबिभृत; तस्यैव नामरूपविनिर्मुक्ता साम्प्रतिक्यवस्था तद्ब्रह्म तदमृतम् (छां..१४.) इत्युच्यते। आकाशशब्दश्च तस्मिन्नप्यसङ्कुचितप्रकाशयोगात् उपपद्यते।

(परमात्मप्रतिपादनवाक्यशेषत्वकृतपरमात्मपरत्वशङ्का – तद्दूषणे)

ननु दहरवाक्यशेषत्वादस्य स एव दहराकाशोऽयमिति प्रतीयते। तस्य च परमात्मत्वं निर्णीतम् । मैवं, प्रजापतिवाक्यव्यवधानात्। प्रजापतिवाक्ये च प्रत्यगात्मनो मुक्त्यवस्थान्तं रूपमभिहितम्; अनन्तरं च विधूय पापम् (छां..१३.) इति स एव मुक्तावस्थ: प्रस्तुत:। अतोऽत्राकाशो मुक्तात्मा॥

(सिद्धान्तारम्भः)

इति प्राप्ते उच्यते आकाशोऽर्थान्तरत्वादिव्यपदेशात् इति। आकाश: परं ब्रह्म; कुत: अर्थान्तरत्वादिव्यपदेशात्। अर्थान्तरत्वव्यपदेशस्तावत् आकाशो ह वै नामरूपयोर्निर्वहिता (छा..१४.) इति नामरूपयोर्निर्वोढृत्वं बद्धमुक्तोभयावस्थात्प्रत्यगात्मनोऽर्थान्तरत्वं आकाशस्योपपादयति। बद्धावस्थ: स्वयं  कर्मवशान्नामरूपे भजमानो न नामरूपे निर्वोढुं शक्नुयात्; मुक्तावस्थस्य जगद्व्यापारासम्भवात् न नितरां नामरूपनिर्वोढृत्वम्; ईश्वरस्य तु सकलजगन्निर्माणधुरन्धरस्य नामरूपयोर्निर्वोढृत्वं श्रुत्यैव प्रतिपन्नम्  अनेन जीवेनाऽत्मना अनुप्रविश्य नामरूपे व्याकरवाणि (छा...), यस्सर्वज्ञस्सर्वविद्यस्य ज्ञानमयं तप:  तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते (मु...), सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन्यदास्ते इत्यादिषु। अतो निर्वाह्यनामरूपात्प्रत्यगात्मनो नामरूपयो: निर्वोढाऽयमाकाशोऽर्थान्तरभूत: परमेव ब्रह्म। तदेवोपपादयति ते यदन्तरा (छां..१४.) इति। यस्मादयमाकाशो नामरूपे अन्तरा ताभ्यामस्पृष्टोऽर्थान्तरभूत:, तस्मात्तयोर्निर्वोढा अपहतपाप्मत्वात् सत्यसङ्कल्पत्वाच्च निर्वहितेत्यर्थ:। आदिशब्देन ब्रह्मत्वात्मत्वामृतत्वानि गृह्यन्ते। निरुपाधिकबृहत्त्वादयो हि परमात्मन एव सम्भवन्ति; तेनात्राकाश: परमेव ब्रह्म ।

(अधिकरणद्वयार्थनिगमनम्)

यत्पुनरुक्तं धूत्वा शरीरम् (छा..१४.) इति मुक्तोऽनन्तरप्रकृत इति तन्न, ब्रह्मलोकमभिसम्भवामि (छां..१४.) इति परस्यैव ब्रह्मणोऽनन्तरप्रकृतत्वात्। यद्यप्यभिसम्भवितुर्मुक्तस्याभिसम्भाव्यतया परं ब्रह्म निर्दिष्टम्, तथाप्यभिसम्भवितुर्मुक्तस्य नामरूपनिर्वोढुत्वाद्यसम्भवादभिसम्भाव्यं परमेव ब्रह्म तत्र प्रत्येतव्यम्।

(प्रजापतिवाक्यस्य अव्यवधायकत्वम्)

किञ्च आकाशशब्देन प्रकृतस्य दहराकाशस्यात्र प्रत्यभिज्ञानात्, प्रजापतिवाक्यस्यापि उपासकस्वरूपकथनार्थत्वादुपास्य एव दहराकाश: प्राप्यतयेहोपसंह्रियत इति युक्तम्। आकाशशब्दश्च प्रत्यगात्मनि न क्वचिद्दृष्टचर:। अतोऽत्राकाश: परं ब्रह्म॥ ४२॥

अथ स्यात् प्रत्यगात्मनोऽर्थान्तरभूतमात्मान्तरमेव नास्ति, ऐक्योपदेशात्, द्वैतप्रतिषेधाच्च। शुद्धावस्थ एव हि प्रत्यगात्मा परमात्मा परं ब्रह्म परमेश्वर इति च व्यपदिश्यते; अत:प्रकृतान्मुक्तात्मनोऽभिसम्भिवतुर्नार्थान्तरमभिसम्भाव्यो ब्रह्मलोक:; अतो नामरूपयोर्निर्वहिता आकाशोऽपि स एव  भवितुमर्हातीति अत उत्तरं पठति

१०८. सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ १४३ ॥

(सूत्रार्थविवरणम्)

व्यपदेशादिति वर्तते, सुषुप्त्युक्रान्त्यो: प्रत्यगात्मनोऽर्थान्तरत्वेन परमात्मनो व्यपदेशात् प्रत्यगात्मनोऽर्थान्तरभूत: परमात्माऽस्त्येव। तथाहि वाजसनेयके कतम आत्मा योऽयं विज्ञानमय: प्राणेषु (बृ...) इति प्रकृतस्य प्रत्यगात्मनस्सुषुप्त्यवस्थायामकिञ्चिज्ज्ञस्य सर्वज्ञेन परमात्मना परिष्वङ्ग आम्नायते प्राज्ञेनाऽत्मना सम्परिष्वक्तो न बाह्यं (बृ...२१) इति; तथोत्क्रान्तावपि प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जन्याति (बृ.३५) इति। न च स्वरूपत उत्क्रामतो  वा अस्य  अकिञ्चिज्ज्ञस्य तदानीमेव स्वेनैव सर्वज्ञेन सता परिष्वङ्गान्वारोहौ सम्भवत: न च क्षेत्रज्ञान्तरेण, तस्यापि सर्वज्ञत्वासम्भवात्॥४३॥

(उक्तार्थे हेत्वन्तरवर्णनपरसूत्रावतरणम्)

इतश्च प्रत्यगात्मनोऽर्थान्तरभूत: परमात्मेत्याह

१०९. पत्यादिशब्देभ्य: ॥ १४४ ॥

(सूत्रार्थविवरणम्)

अयं परिष्वञ्जक: परमात्मा उत्तरत्र पत्यादिशब्दैर्व्यपदिश्यते सर्वस्याधिपतिस्सर्वस्य वशी सर्वस्येशान: स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान्।  एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय। तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति….एतमेव विदित्वा मुनिर्भवति। एतमेव प्रव्राजिनो लोकमिच्छन्त: प्रव्रजन्ति (बृ...२२), स वा एष महानज आत्माऽन्नादो वसुदान: (बृ...२४), अजरोऽमृतोऽभयो ब्रह्म (बृ.२५) इति।

(पतित्वादेः परमात्मासाधारणत्वम् ऐक्योपदेशतात्पर्यं च)

एते च पतित्वजगद्विधरणत्वसर्वेश्वरत्वादय: प्रत्यगात्मनि मुक्तावस्थेऽपि न कथञ्चित्सम्भवन्ति। अतो मुक्तात्मनोऽर्थान्तरभूतो नामरूपयोर्निर्वहिताऽऽकाश:। ऐक्योपदेशस्तु सर्वस्य  चिदचिदात्मकस्य ब्रह्मकार्यत्वेन तदात्मकत्वायत्त इति सर्वं खल्विदं ब्रह्म तज्जलान् (छा..१४.) इत्यादिभिर्वाक्यै: प्रतिपाद्यत इति पूर्वमेव समर्थितम्। द्वैतप्रतिषेधश्च तत एवेत्यनवद्यम्॥४३॥

इति श्रीशारीरकमीमांसाभाष्ये अर्थान्तरत्वादिव्यपदेशाधिकरणम्॥

———–

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये प्रथमस्याध्यायस्य

तृतीय: पाद:

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.