[highlight_content]

श्रीभाष्यम् 01-04-28 आनुमानिकाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये प्रथमाध्ये

(अन्योन्यव्यवच्छेदपादः)

चतुर्थपादः

आनुमानिकाधिकरणम्॥१॥

(अधिकरणार्थः – अव्यक्तशब्दार्थः, न सांख्योक्तं प्रधानं, किन्तु शरीरमेव)

(अधिकरणद्वयार्थनिगमनम्)

११०. आनुमानिकमप्येकेषामिति चेन्न

शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॥ ११ ॥

(द्वितीय-तृतीयपादार्थसङ्ग्रहः)

उक्तं परमपुरुषार्थलक्षणमोक्षसाधनतया जिज्ञास्यं जगज्जमन्मादिकारणं ब्रह्माचिद्वस्तुन: प्रधानादेश्चेतनाच्च बद्धमुक्तोभयावस्थाद्विलक्षणं, निरस्तसमस्तहेयगन्धं, सर्वज्ञं, सर्वशक्ति, सत्यसङ्कल्पं, समस्तकल्याणगुणात्मकं, सर्वान्तरात्मभूतं, निरङ्कुशैश्वर्यमिति।

(प्रकृतचतुर्थपादार्थसङ्ग्रहः)

इदानीं कापिलतन्त्रसिद्धाब्रह्मात्मकप्रधानपुरुषादिप्रतिपादनमुखेन प्रधानकारणत्व-प्रतिपादनच्छायानुसारीणि अपि कानिचिद्वाक्यानि कासुचिच्छाखासु सन्तीत्याशङ्क्य ब्रह्मैककारणत्वस्थेम्ने तन्निराक्रियते।

(विषयप्रदर्शनम्)

कठवल्लीष्वाम्नायते इन्द्रियेभ्य: परा ह्यर्था अर्थेभ्यश्च परं मन:। मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्पर:। महत: परमव्यक्तमव्यक्तात्पुरुष: पर:। पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गति: (कठ...१०) इति ।

(अधिकरणाङ्गभूतः संशयः)

तत्र सन्देह: – किं कापिलतन्त्रसिद्धमब्रह्मात्मकं प्रधानमिहाव्यक्तशब्देनोच्यते उत न इति;

(पूर्वः पक्षः)

किं युक्तम्? प्रधानमिति। कुत😕 महत: परमव्यक्तमव्यक्तात्पुरुष: पर: (कठ...११) इति तन्त्रसिद्धतत्त्वप्रक्रियाप्रत्यभिज्ञानेन तस्यैव प्रतीते:; पुरुषान्नपरं किञ्चित्सा काष्ठा सा परा गति: (कठ...१२) इति पञ्चविंशकपुरुषातिरिक्ततत्त्वनिषेधाच्च। अतोऽव्यक्तं कारणमिति प्राप्तम्। तदिदमुक्तम् आनुमानिकमप्येकेषामिति चेत् इति। एकेषां शाखिनां शाखास्वानुमानिकं प्रधानमपि कारणमाम्नायत इति चेत्

(सिद्धान्तारम्भः)

अत्रोत्तरं नेति। नाव्यक्तशब्देनाब्रह्मात्मकं प्रधानमिहाभिधीयते। कुत😕

शरीररूपकविन्यस्तगृहीते: शरीराख्यरूपकविन्यस्तस्य अव्यक्तशब्देन गृहीते:। आत्मशरीरबुद्धिमनइन्द्रियविषयेषु रथरथादिभावेन रूपितेषु रथरूपणेन विन्यस्तस्य शरीरस्यात्राव्यक्तशब्देन ग्रहणादित्यर्थ:

एतदुक्तं भवति पूर्वत्र हि आत्मानं रथिनं विद्धि शरीरं रथमेव च। बुद्धिं तु सारथिं विद्धि मन: प्रग्रहमेव च। इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्  (कठ...) इत्यादिना, सोऽध्वन: पारमाप्नोति  तद्विष्णो: परमं पदम् (कठ...) इत्यन्तेन संसाराध्वन: पारं वैष्णवं पदं प्रेप्सन्तमुपासकं रथित्वेन तच्छरीरादीनि च रथरथाङ्गत्वेन रूपयित्वा, यस्यैते रथादयो वशे तिष्ठन्ति, स एवाध्वन: पारं वैष्णवं पदमाप्नोतीत्युक्त्वा, तेषु रथादिरूपितशरीरादिषु यानि येभ्यो वशीकार्यतायां प्रधानानि, तान्युच्यन्ते इन्द्रियेभ्य: परा: (कठ...१०) इत्यादिना।

(वशीकार्येषु प्राधान्यविशदीकरणम्)

तत्र हयत्वेन रूपितेभ्य इन्द्रियेभ्यो गोचरत्वेन रूपिता: विषया: वशीकार्यत्वे परा:, वश्येन्द्रियस्यापि विषयसन्निधाविन्द्रियाणां दुर्निग्रहत्वात्। तेभ्योऽपि परं प्रग्रहरूपितं मन:, मनसि विषयप्रवणे विषयासन्निधानस्याप्यकिञ्चित्करत्वात्। तस्मादपि सारथित्वरूपिता बुद्धि: परा, अध्यवसायाभावे मनसोऽप्यकिञ्चत्करत्वात्। तस्या  अपि रथित्वरूपित आत्मा कर्तृत्वेन प्राधान्यात्पर:; सर्वस्य चास्यात्मेच्छायत्तत्वादात्मैव महानिति च विशेष्यते। तस्मादपि रथरूपितं शरीरं परम्, तदायत्तत्वाज्जीवात्मनस्सकलपुरुषार्थसाधनप्रवृत्तीनाम्। तस्मादपि परस्सर्वान्तरात्मभूतोऽन्तर्याम्यध्वन: पारभूत: परमपुरुष:, यथोक्तस्यात्मपर्यन्तस्य समस्तस्य तत्सङ्कल्पायत्तप्रवृत्तित्वात्। स खल्वन्तर्यामितयोपासनस्यापि निर्वर्तक:। परात्तु तच्छ्रुते: (ब्र.सू...४०) इति हि जीवात्मन: कर्तृत्वं परमपुरुषायत्तमिति वक्ष्यते। वशीकार्योपासननिर्वृत्त्युपायकाष्ठाभूत: परमप्राप्यश्च स एव। तदिदमुच्यते पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गति: (कठ...११) इति। तथा चान्तार्यामिब्राह्मणे, य आत्मनि तिष्ठन् (बृ...१२) इत्यादिभिस्सर्वं साक्षार्त्कुवन्सर्वं नियमयतीत्युक्त्वा नान्योऽतोऽस्ति द्रष्टा (बृ...२३) इति नियन्त्रन्तरं निषिध्यते। भगवद्गीतासु च अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्। विविधा च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् (.गी.१८.१४) इति। दैवमत्र पुरुषोत्तम एव सर्वस्य चाहं हृदि सन्निविष्टो मत्तस्स्मृतिर्ज्ञानमपोहनं च (.गी.१५.१५) इति वचनात्। तस्य च वशीकरणं तच्छरणागतिरेव। यथाह ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रानयन् सर्वभूतानि यन्त्रारूढानि मायया। तमेव शरणं गच्छ (.गी.१८.६१.६२) इति।

(शरीरस्यैवाव्यक्तपदबोध्यता)

तदेवम् आत्मानं रथिनं विद्धि (कठ...) इत्यादिना रथ्यादिरूपकविन्यस्ता इन्द्रियादय: इन्द्रियेभ्य: परा ह्यर्था: (कठ...१०) इत्यत्र स्वशब्दैरेव प्रत्यभिज्ञायन्ते, न रथरूपितं शरीरमिति परिशेषात्तदव्यक्तशब्देनोच्यत इति निश्चीयते। अत: कापिलतन्त्रसिद्धस्य प्रधानस्य प्रसङ्ग एव नास्ति।

(अस्य मन्त्रस्य तन्त्रप्रक्रियापरत्वासाङ्गत्यम्)

न चात्र तत्तन्त्रसिद्धप्रक्रियाप्रत्यभिज्ञा इन्द्रियेभ्य: परा ह्यर्था: (कठ...१०) इतीन्द्रियेभ्योऽर्थानां शब्दादीनां परत्वकीर्तनात्। न हि शब्दादय इन्द्रियाणां कारणभूतास्तद्दर्शने। अर्थेभ्यश्च परं मन: (कठ...१०) इत्यपि न तत्तन्त्रसङ्गतम्, अकारणत्वादेव; तथा बुद्धेरात्मा महान्पर: (कठ...१०) इत्यप्यसङ्गतम्; बुद्धिशब्देन महत्तत्त्वस्याभिधानाभ्युपगमात्। न हि महतो महान्परस्सम्भवति। महत आत्मशब्देन विशेषणं च न सङ्गच्छते। अतो रूपकविन्यस्तानामेव ग्रहणम्। दर्शयति च तदेव एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभि:, यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेत् ज्ञान आत्मनि  ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि (कठ...१३) इति  अजितबाह्याभ्यन्तरकरणैरस्य परमपुरुषस्य दुर्दर्शत्वमभिधाय हयादिरूपितानामिन्द्रियादीनां वशीकारप्रकारोऽयमुच्यते। यच्छेद्वाङ्मनसी (कठ...१३) वाचं मनसि नियच्छेत् वाक्पूर्वकाणि कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि च मनसि नियच्छेदित्यर्थ:। वाक्शब्दे द्वितीयाया: सुपां सुलुक्  (अष्टा ७..३९) इति लुक् । मनसी इति सप्तम्याश्छान्दसो दीर्घ:। तद्यच्छेत् ज्ञान आत्मनि (कठ...१३) तन्मनो बुद्धौ नियच्छेत्। ज्ञानशब्देनात्र पूर्वोक्ता बुद्धिरभिधीयते। ज्ञान आत्मनि (कठ...१३) इति व्यधिकरणे सप्तम्यौ। आत्मनि वर्तमाने ज्ञाने नियच्छेदित्यर्थ:। ज्ञानमात्मनि महति नियच्छेत् (कठ...१३) बुद्धिं कर्तरि महत्यात्मनि नियच्छेत्। तद्यच्छेच्छान्त आत्मनि (कठ...१३) तं कर्तारं परस्मिन्ब्रह्मणि सर्वान्तर्यामिणि नियच्छेत्। व्यत्ययेन तदिति नपुंसकलिङ्गता। एवम्भूतेन रथिना वैष्णवं पदं गन्तव्यमित्यर्थ:॥१॥

अव्यक्तशब्देन कथं व्यक्तस्य शरीरस्याभिधानम्? तत्राह

१११. सूक्ष्मं तु तदर्हात्वात् ॥ १२ ॥

(सूत्रार्थः)

भूतसूक्ष्ममव्याकृतं ह्यवस्थाविशेषमापन्नं शरीरं भवति; तदव्याकृतमिह शरीरावस्थमव्यक्तशब्देनोच्यते। तदर्हात्वात् तस्याव्याकृतस्याचिद्वस्तुन एव विकारापन्नस्य रथवत्पुरुषार्थसाधनप्रवृत्त्यर्हात्वात्॥ २॥

(उत्तरसूत्रावतारिका)

यदि भूतसूक्ष्ममव्याकृतमभ्युपगम्यते, कापिलतन्त्रसिद्धोपादाने क: प्रद्वेष😕 तत्रापि हि भूतकारणमेवाव्यक्तमित्युच्यते; तत्राह

११२. तदधीनत्वादर्थवत् ॥ १३ ॥

परमकारणभूतपरमपुरुषाधीनत्वात्प्रयोजनवद्भूतसूक्ष्मम्। एतदुक्तं भवति न वयमव्यक्तं तत्परिमाणमविशेषांश्च स्वरूपेण नाभ्युपगच्छाम:;  अपितु परमपुरुषशरीरतया तदात्मकत्वविरहेण। तदात्मकत्वेनैव हि प्रकृत्यादयस्स्वप्रयोजनं साधयन्ति, अन्यथा स्वरूपस्थितिप्रवृत्तिभेदास्तेषां न स्यु: । तथाऽनभ्युपगमादेव तन्त्रसिद्धप्रक्रियानिरसनम् इति। श्रुतिस्मृत्योर्हि जगदुत्पत्तिप्रलयवादेषु परमपुरुषमहिमवादेषु च प्रकृतिविकृतिपुरुषास्तदात्मकास्सङ्कीर्त्यन्ते यथा पृथिव्यप्सु लीयते (सुबाल.) इत्यारभ्य तन्मात्राणि भूतादौ लीयन्ते॥ भूतादिर्महति लीयते। महानव्यक्ते लीयते। अव्यक्तमक्षरे लीयते। अक्षरं तमसि लीयते। तम: परे देव एकीभवति (सुबा.) तथा यस्य पृथिवी शरीरं यस्यापश्शरीरं यस्य तेजश्शरीरं यस्य वायुश्शरीरं यस्याकाश्शरीरं यस्याहङ्कारश्शरीरं यस्य बुद्धिश्शरीरं यस्याव्यक्तं शरीरं यस्याक्षरं शरीरं यस्य मृत्युश्शरीरम् एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण:, (सुबा.) तथा भूमिरापोऽनलो वायु: खं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा॥ अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्। जीवभूतां महाबाहो ययेदं धार्यते जगत्॥ एतद्योनीनि भूतानि सर्वाणीत्युपधारय।  अहं कृत्स्नस्य जगत: प्रभव: प्रलयस्तथा॥ मत्त: परतरं नान्यत्किञ्चिदस्ति धनञ्जय। मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव (.गी..,,,) इति, व्यक्तं विष्णुस्तथाऽव्यक्तं पुरुष: काल एव च (वि.पु...१८) इति, प्रकृतिर्या मयाऽऽख्याता व्यक्ताव्यक्तस्वरूपिणी। पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि। परमात्मा च सर्वेषामाधार: परमेश्वर:, विष्णुनामा स वेदेषु वेदान्तेषु च गीयते (वि.पु...३९,४०) इति च ॥ ३॥

११३. ज्ञेयत्वावचनाच्च ॥ १४ ॥

यदि तन्त्रसिद्धमिहाव्यक्तमविवक्षिष्यत्, ज्ञेयत्वमवक्ष्यत्; व्यक्ताव्यक्तज्ञविज्ञानात् (सां.कारिका) मोक्षं वदद्भिस्तान्त्रिकैस्तेषां सर्वेषां ज्ञेयत्वाभ्युपगमात्, न चास्य ज्ञेयत्वमुच्यते; अतो न तन्त्रसिद्धस्येह ग्रहणम् ॥ ४॥

११४. वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ १५ ॥

अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्।  अनाद्यनन्तं महत: परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते (कठ...१५) इत्यव्यक्तस्य ज्ञेयत्वमनन्तरमेव वदतीयं श्रुतिरिति चेत् तन्न, प्राज्ञ: परमपुरुष एव ह्यत्र श्लोके निचाय्यत्वेन प्रतिपाद्यते विज्ञानसारथिर्यस्तु मन: प्रग्रहवान्नर:। सोऽध्वन: पारमाप्नोति तद्विष्णो:  परमं पदम्, एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभि:(कठ...१२) इति प्राज्ञस्यैव प्रकृतत्वात्। अत एव पुरुषान्न परं किञ्चित् (कठ...११) इति न पञ्चविंशकपुरुषातिरिक्ततत्त्वनिषेध:। तस्य च परमपुरुषस्याशब्दत्वादयो धर्मा: यत्तदद्रेश्यमग्राह्यम् (मु..) इत्यादिश्रुतिप्रसिद्धा:। महत: परम् (मु..) इत्यपि बुद्धेरात्मा महान्पर: (कठ...१०) इति पूर्वप्रकृताज्जीवात्मन: परत्वमेवोच्यते॥५॥

११५. त्रयाणामेव चैवमुपन्यास: प्रश्नश्च ॥ १६ ॥

अस्मिन्प्रकरणे ह्युपायोपेयोपेतॄणां त्रयाणामेव चैवमुपन्यास: ज्ञेयत्वेनोपन्यास:,  तद्विषयश्च प्रश्नो दृश्यते, नान्यस्याव्यक्तादे:। तथा हि नचिकेता मुमुक्षुस्सन्मृत्युप्रदत्ते वरत्रये प्रथमेन वरेणात्मन: पुरुषार्थयोग्यतापादिनीमात्मनि पितुस्सुमनस्कतां प्रतिलभ्य, द्वितीयेन वरेण मोक्षोपायभूतां नाचिकेताग्निविद्यां वव्रे सत्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम्। स्वर्गलोका अमृतत्वं भजन्त एतद्द्वितीयेन वृणे वरेण (कठ...१३) इति। स्वर्गशब्देनात्र परमपुरुषार्थलक्षणो मोक्षोऽभिधीयते, अमृतत्वं भजन्ते (कठ...१३) इति तत्रस्थस्य जननमरणाभावश्रवणादुत्तरत्र क्षयिफलकर्मनिन्दादर्शनाच्च; त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत्तरति जन्ममृत्यू (कठ...१७) इति च प्रतिवचनात्। तृतीयेन वरेण मोक्षस्वरूपप्रश्नद्वारेणोपेयस्वरूपमुपेतृस्वरूपमुपायभूतकर्मानुगृहीतोपासनस्वरूपं च पृष्टम् येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके। एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीय: (कठ...२०) इति। एवं मोक्षे पृष्टे तदुपदेशयोग्यतां परीक्ष्योपदिदेश तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्॥ अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति (कठ...१२) इति। तदेवं सामान्येनोपिदष्टे  नचिकेता: प्रीतस्सन् देवं मत्वा (कठ...१२) इत्युपास्यतया निर्दिष्टस्य प्राप्यभूतस्य देवस्य अध्यात्मयोगाधिगमेन (कठ...१२) इति वेदितव्यतया निर्दिष्टस्य प्राप्तु: प्रत्यगात्मनश्च मत्वा धीरो हर्षशोकौ जहाति (कठ...१२) इति निर्दिष्टस्य ब्रह्मोपासनस्य च स्वरूपविशोधनाय पुन: पप्रच्छ अन्यत्रधर्मादन्यत्राधर्मात् अन्यत्रास्मात्कृताकृतात्। अन्यत्र भूताद्भव्याच्च यत्तत्पश्यसि तद्वद (कठ...१४) इति। एवं सकलेतरातीतानागतवर्तमानसाध्यसाधनसाधकविलक्षणे त्रये पृष्टे प्रथमं प्रणवं प्रशस्य तद्वाच्यं प्राप्यस्वरूपं, तदन्तर्गतं च प्राप्तृस्वरूपं वाचकरूपं चोपायं पुनरपि सामान्येन ख्यापयन्प्रणवं तावदुपदिदेश सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति। यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीम्योमित्येतत् (कठ...१५) इति। एवमुपदिश्य पुनरपि प्रणवं प्रशस्य प्रथमं तावत्प्राप्तु: प्रत्यगात्मनस्स्वरूपमाह न जायते म्रियते वा विपश्चित् (कठ...१८) इत्यादिना। प्राप्यस्य परस्य ब्रह्मणो विष्णोस्स्वरूपम् अणोरणीयान् (कठ...२०) इत्यादिना क इत्था वेद यत्र स: (कठ...२५) इत्यन्तेनोपदिशन्मध्ये नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन (कठ...२३) इत्यादिनोपायभूतस्योपासनस्य भक्तिरूपतामप्याह। ऋतं पिबन्तौ (कठ...) इति चोपास्यस्योपासकेन सहावस्थानात्सूपासतामुक्त्वा आत्मानं रथिनं विद्धि (कठ...) इत्यादिना दुर्गं पथस्तत्कवयो वदन्ति (कठ...१४) इत्यन्तेनोपासनप्रकारमुपासीनस्य च वैष्णवपरमपदप्राप्तिमभिधाय अशब्दमस्पर्शम् (कठ...१५) इत्यादिनोपसंहृतम्। अतस्त्रयाणामेवात्र ज्ञेयत्वेनोपन्यास: प्रश्नश्च; तस्मान्नेह तान्त्रिकस्याव्यक्तस्य ग्रहणम्॥

११६. महद्वच्च ॥ १७ ॥

यथा बुद्धेरात्मा महान्पर: (कठ...१०) इत्यत्रात्मशब्दसामानाधिकरण्यान्न तन्त्रसिद्धं महत्तत्त्वं गृह्यते; एवमव्यक्तमप्यात्मन: परत्वेनाभिधानान्न कापिलतन्त्रसिद्धं गृह्यत इति स्थितम्॥७॥

इति श्रीशारीरकमीमांसाभाष्ये आनुमानिकाधिकरणम्॥१॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.