श्रीशारीरकमीमांसाभाष्ये प्रथमाध्ये
(अन्योन्यव्यवच्छेदपादः)
चतुर्थपादः
आनुमानिकाधिकरणम्॥१॥
(अधिकरणार्थः – अव्यक्तशब्दार्थः, न सांख्योक्तं प्रधानं, किन्तु शरीरमेव)
(अधिकरणद्वयार्थनिगमनम्)
११०. आनुमानिकमप्येकेषामिति चेन्न
शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॥ १–४–१ ॥
(द्वितीय-तृतीयपादार्थसङ्ग्रहः)
उक्तं परमपुरुषार्थलक्षणमोक्षसाधनतया जिज्ञास्यं जगज्जमन्मादिकारणं ब्रह्माचिद्वस्तुन: प्रधानादेश्चेतनाच्च बद्धमुक्तोभयावस्थाद्विलक्षणं, निरस्तसमस्तहेयगन्धं, सर्वज्ञं, सर्वशक्ति, सत्यसङ्कल्पं, समस्तकल्याणगुणात्मकं, सर्वान्तरात्मभूतं, निरङ्कुशैश्वर्यमिति।
(प्रकृतचतुर्थपादार्थसङ्ग्रहः)
इदानीं कापिलतन्त्रसिद्धाब्रह्मात्मकप्रधानपुरुषादिप्रतिपादनमुखेन प्रधानकारणत्व-प्रतिपादनच्छायानुसारीणि अपि कानिचिद्वाक्यानि कासुचिच्छाखासु सन्तीत्याशङ्क्य ब्रह्मैककारणत्वस्थेम्ने तन्निराक्रियते।
(विषयप्रदर्शनम्)
कठवल्लीष्वाम्नायते – इन्द्रियेभ्य: परा ह्यर्था अर्थेभ्यश्च परं मन:। मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्पर:। महत: परमव्यक्तमव्यक्तात्पुरुष: पर:। पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गति: (कठ.१.३.१०) इति ।
(अधिकरणाङ्गभूतः संशयः)
तत्र सन्देह: – किं कापिलतन्त्रसिद्धमब्रह्मात्मकं प्रधानमिहाव्यक्तशब्देनोच्यते उत न – इति;
(पूर्वः पक्षः)
किं युक्तम्? प्रधानमिति। कुत😕 महत: परमव्यक्तमव्यक्तात्पुरुष: पर: (कठ.१.३.११) इति तन्त्रसिद्धतत्त्वप्रक्रियाप्रत्यभिज्ञानेन तस्यैव प्रतीते:; पुरुषान्नपरं किञ्चित्सा काष्ठा सा परा गति: (कठ.१.३.१२) इति पञ्चविंशकपुरुषातिरिक्ततत्त्वनिषेधाच्च। अतोऽव्यक्तं कारणमिति प्राप्तम्। तदिदमुक्तम्– आनुमानिकमप्येकेषामिति चेत् – इति। एकेषां शाखिनां शाखास्वानुमानिकं प्रधानमपि कारणमाम्नायत इति चेत्
(सिद्धान्तारम्भः)
अत्रोत्तरं – नेति। नाव्यक्तशब्देनाब्रह्मात्मकं प्रधानमिहाभिधीयते। कुत😕
शरीररूपकविन्यस्तगृहीते: – शरीराख्यरूपकविन्यस्तस्य अव्यक्तशब्देन गृहीते:। आत्मशरीरबुद्धिमनइन्द्रियविषयेषु रथरथादिभावेन रूपितेषु रथरूपणेन विन्यस्तस्य शरीरस्यात्राव्यक्तशब्देन ग्रहणादित्यर्थ:।
एतदुक्तं भवति – पूर्वत्र हि आत्मानं रथिनं विद्धि शरीरं रथमेव च। बुद्धिं तु सारथिं विद्धि मन: प्रग्रहमेव च। इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् (कठ.१.३.३) इत्यादिना, सोऽध्वन: पारमाप्नोति तद्विष्णो: परमं पदम् (कठ.१.३.९) इत्यन्तेन संसाराध्वन: पारं वैष्णवं पदं प्रेप्सन्तमुपासकं रथित्वेन तच्छरीरादीनि च रथरथाङ्गत्वेन रूपयित्वा, यस्यैते रथादयो वशे तिष्ठन्ति, स एवाध्वन: पारं वैष्णवं पदमाप्नोतीत्युक्त्वा, तेषु रथादिरूपितशरीरादिषु यानि येभ्यो वशीकार्यतायां प्रधानानि, तान्युच्यन्ते इन्द्रियेभ्य: परा: (कठ.१.३.१०) इत्यादिना।
(वशीकार्येषु प्राधान्यविशदीकरणम्)
तत्र हयत्वेन रूपितेभ्य इन्द्रियेभ्यो गोचरत्वेन रूपिता: विषया: वशीकार्यत्वे परा:, वश्येन्द्रियस्यापि विषयसन्निधाविन्द्रियाणां दुर्निग्रहत्वात्। तेभ्योऽपि परं प्रग्रहरूपितं मन:, मनसि विषयप्रवणे विषयासन्निधानस्याप्यकिञ्चित्करत्वात्। तस्मादपि सारथित्वरूपिता बुद्धि: परा, अध्यवसायाभावे मनसोऽप्यकिञ्चत्करत्वात्। तस्या अपि रथित्वरूपित आत्मा कर्तृत्वेन प्राधान्यात्पर:; सर्वस्य चास्यात्मेच्छायत्तत्वादात्मैव महानिति च विशेष्यते। तस्मादपि रथरूपितं शरीरं परम्, तदायत्तत्वाज्जीवात्मनस्सकलपुरुषार्थसाधनप्रवृत्तीनाम्। तस्मादपि परस्सर्वान्तरात्मभूतोऽन्तर्याम्यध्वन: पारभूत: परमपुरुष:, यथोक्तस्यात्मपर्यन्तस्य समस्तस्य तत्सङ्कल्पायत्तप्रवृत्तित्वात्। स खल्वन्तर्यामितयोपासनस्यापि निर्वर्तक:। परात्तु तच्छ्रुते: (ब्र.सू.२.३.४०) इति हि जीवात्मन: कर्तृत्वं परमपुरुषायत्तमिति वक्ष्यते। वशीकार्योपासननिर्वृत्त्युपायकाष्ठाभूत: परमप्राप्यश्च स एव। तदिदमुच्यते पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गति: (कठ.१.३.११) इति। तथा चान्तार्यामिब्राह्मणे, य आत्मनि तिष्ठन् (बृ.५.७.१२) इत्यादिभिस्सर्वं साक्षार्त्कुवन्सर्वं नियमयतीत्युक्त्वा नान्योऽतोऽस्ति द्रष्टा (बृ.५.७.२३) इति नियन्त्रन्तरं निषिध्यते। भगवद्गीतासु च अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्। विविधा च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् (भ.गी.१८.१४) इति। दैवमत्र पुरुषोत्तम एव सर्वस्य चाहं हृदि सन्निविष्टो मत्तस्स्मृतिर्ज्ञानमपोहनं च (भ.गी.१५.१५) इति वचनात्। तस्य च वशीकरणं तच्छरणागतिरेव। यथाह – ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रानयन् सर्वभूतानि यन्त्रारूढानि मायया। तमेव शरणं गच्छ (भ.गी.१८.६१.६२) इति।
(शरीरस्यैवाव्यक्तपदबोध्यता)
तदेवम् आत्मानं रथिनं विद्धि (कठ.१.३.३) इत्यादिना रथ्यादिरूपकविन्यस्ता इन्द्रियादय: इन्द्रियेभ्य: परा ह्यर्था: (कठ.१.३.१०) इत्यत्र स्वशब्दैरेव प्रत्यभिज्ञायन्ते, न रथरूपितं शरीरमिति परिशेषात्तदव्यक्तशब्देनोच्यत इति निश्चीयते। अत: कापिलतन्त्रसिद्धस्य प्रधानस्य प्रसङ्ग एव नास्ति।
(अस्य मन्त्रस्य तन्त्रप्रक्रियापरत्वासाङ्गत्यम्)
न चात्र तत्तन्त्रसिद्धप्रक्रियाप्रत्यभिज्ञा इन्द्रियेभ्य: परा ह्यर्था: (कठ.१.३.१०) इतीन्द्रियेभ्योऽर्थानां शब्दादीनां परत्वकीर्तनात्। न हि शब्दादय इन्द्रियाणां कारणभूतास्तद्दर्शने। अर्थेभ्यश्च परं मन: (कठ.१.३.१०) इत्यपि न तत्तन्त्रसङ्गतम्, अकारणत्वादेव; तथा बुद्धेरात्मा महान्पर: (कठ.१.३.१०) इत्यप्यसङ्गतम्; बुद्धिशब्देन महत्तत्त्वस्याभिधानाभ्युपगमात्। न हि महतो महान्परस्सम्भवति। महत आत्मशब्देन विशेषणं च न सङ्गच्छते। अतो रूपकविन्यस्तानामेव ग्रहणम्। दर्शयति च तदेव एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभि:, यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेत् ज्ञान आत्मनि ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि (कठ.१.३.१३) इति अजितबाह्याभ्यन्तरकरणैरस्य परमपुरुषस्य दुर्दर्शत्वमभिधाय हयादिरूपितानामिन्द्रियादीनां वशीकारप्रकारोऽयमुच्यते। यच्छेद्वाङ्मनसी (कठ.१.३.१३) वाचं मनसि नियच्छेत् – वाक्पूर्वकाणि कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि च मनसि नियच्छेदित्यर्थ:। वाक्शब्दे द्वितीयाया: सुपां सुलुक् (अष्टा ७.१.३९) इति लुक् । मनसी इति सप्तम्याश्छान्दसो दीर्घ:। तद्यच्छेत् ज्ञान आत्मनि (कठ.१.३.१३) तन्मनो बुद्धौ नियच्छेत्। ज्ञानशब्देनात्र पूर्वोक्ता बुद्धिरभिधीयते। ज्ञान आत्मनि (कठ.१.३.१३) इति व्यधिकरणे सप्तम्यौ। आत्मनि वर्तमाने ज्ञाने नियच्छेदित्यर्थ:। ज्ञानमात्मनि महति नियच्छेत् (कठ.१.३.१३) बुद्धिं कर्तरि महत्यात्मनि नियच्छेत्। तद्यच्छेच्छान्त आत्मनि (कठ.१.३.१३) तं कर्तारं परस्मिन्ब्रह्मणि सर्वान्तर्यामिणि नियच्छेत्। व्यत्ययेन तदिति नपुंसकलिङ्गता। एवम्भूतेन रथिना वैष्णवं पदं गन्तव्यमित्यर्थ:॥१॥
अव्यक्तशब्देन कथं व्यक्तस्य शरीरस्याभिधानम्? तत्राह
१११. सूक्ष्मं तु तदर्हात्वात् ॥ १–४–२ ॥
(सूत्रार्थः)
भूतसूक्ष्ममव्याकृतं ह्यवस्थाविशेषमापन्नं शरीरं भवति; तदव्याकृतमिह शरीरावस्थमव्यक्तशब्देनोच्यते। तदर्हात्वात् – तस्याव्याकृतस्याचिद्वस्तुन एव विकारापन्नस्य रथवत्पुरुषार्थसाधनप्रवृत्त्यर्हात्वात्॥ २॥
(उत्तरसूत्रावतारिका)
यदि भूतसूक्ष्ममव्याकृतमभ्युपगम्यते, कापिलतन्त्रसिद्धोपादाने क: प्रद्वेष😕 तत्रापि हि भूतकारणमेवाव्यक्तमित्युच्यते; तत्राह –
११२. तदधीनत्वादर्थवत् ॥ १–४–३ ॥
परमकारणभूतपरमपुरुषाधीनत्वात्प्रयोजनवद्भूतसूक्ष्मम्। एतदुक्तं भवति – न वयमव्यक्तं तत्परिमाणमविशेषांश्च स्वरूपेण नाभ्युपगच्छाम:; अपितु परमपुरुषशरीरतया तदात्मकत्वविरहेण। तदात्मकत्वेनैव हि प्रकृत्यादयस्स्वप्रयोजनं साधयन्ति, अन्यथा स्वरूपस्थितिप्रवृत्तिभेदास्तेषां न स्यु: । तथाऽनभ्युपगमादेव तन्त्रसिद्धप्रक्रियानिरसनम् – इति। श्रुतिस्मृत्योर्हि जगदुत्पत्तिप्रलयवादेषु परमपुरुषमहिमवादेषु च प्रकृतिविकृतिपुरुषास्तदात्मकास्सङ्कीर्त्यन्ते यथा पृथिव्यप्सु लीयते (सुबाल.२) इत्यारभ्य तन्मात्राणि भूतादौ लीयन्ते॥ भूतादिर्महति लीयते। महानव्यक्ते लीयते। अव्यक्तमक्षरे लीयते। अक्षरं तमसि लीयते। तम: परे देव एकीभवति (सुबा.२) तथा यस्य पृथिवी शरीरं यस्यापश्शरीरं यस्य तेजश्शरीरं यस्य वायुश्शरीरं यस्याकाश्शरीरं यस्याहङ्कारश्शरीरं यस्य बुद्धिश्शरीरं यस्याव्यक्तं शरीरं यस्याक्षरं शरीरं यस्य मृत्युश्शरीरम् एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण:, (सुबा.७) तथा भूमिरापोऽनलो वायु: खं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा॥ अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्। जीवभूतां महाबाहो ययेदं धार्यते जगत्॥ एतद्योनीनि भूतानि सर्वाणीत्युपधारय। अहं कृत्स्नस्य जगत: प्रभव: प्रलयस्तथा॥ मत्त: परतरं नान्यत्किञ्चिदस्ति धनञ्जय। मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव (भ.गी.७.४,५,६,७) इति, व्यक्तं विष्णुस्तथाऽव्यक्तं पुरुष: काल एव च (वि.पु.१.२.१८) इति, प्रकृतिर्या मयाऽऽख्याता व्यक्ताव्यक्तस्वरूपिणी। पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि। परमात्मा च सर्वेषामाधार: परमेश्वर:, विष्णुनामा स वेदेषु वेदान्तेषु च गीयते (वि.पु.६.४.३९,४०) इति च ॥ ३॥
११३. ज्ञेयत्वावचनाच्च ॥ १–४–४ ॥
यदि तन्त्रसिद्धमिहाव्यक्तमविवक्षिष्यत्, ज्ञेयत्वमवक्ष्यत्; व्यक्ताव्यक्तज्ञविज्ञानात् (सां.कारिका) मोक्षं वदद्भिस्तान्त्रिकैस्तेषां सर्वेषां ज्ञेयत्वाभ्युपगमात्, न चास्य ज्ञेयत्वमुच्यते; अतो न तन्त्रसिद्धस्येह ग्रहणम् ॥ ४॥
११४. वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ १–४–५ ॥
अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्। अनाद्यनन्तं महत: परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते (कठ.१.३.१५) इत्यव्यक्तस्य ज्ञेयत्वमनन्तरमेव वदतीयं श्रुतिरिति चेत् – तन्न, प्राज्ञ: – परमपुरुष एव ह्यत्र श्लोके निचाय्यत्वेन प्रतिपाद्यते विज्ञानसारथिर्यस्तु मन: प्रग्रहवान्नर:। सोऽध्वन: पारमाप्नोति तद्विष्णो: परमं पदम्, एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभि: ॥ (कठ.१.३.१२) इति प्राज्ञस्यैव प्रकृतत्वात्। अत एव पुरुषान्न परं किञ्चित् (कठ.१.३.११) इति न पञ्चविंशकपुरुषातिरिक्ततत्त्वनिषेध:। तस्य च परमपुरुषस्याशब्दत्वादयो धर्मा: यत्तदद्रेश्यमग्राह्यम् (मु.१.६) इत्यादिश्रुतिप्रसिद्धा:। महत: परम् (मु.१.६) इत्यपि बुद्धेरात्मा महान्पर: (कठ.१.३.१०) इति पूर्वप्रकृताज्जीवात्मन: परत्वमेवोच्यते॥५॥
११५. त्रयाणामेव चैवमुपन्यास: प्रश्नश्च ॥ १–४–६ ॥
अस्मिन्प्रकरणे ह्युपायोपेयोपेतॄणां त्रयाणामेव चैवमुपन्यास: – ज्ञेयत्वेनोपन्यास:, तद्विषयश्च प्रश्नो दृश्यते, नान्यस्याव्यक्तादे:। तथा हि नचिकेता मुमुक्षुस्सन्मृत्युप्रदत्ते वरत्रये प्रथमेन वरेणात्मन: पुरुषार्थयोग्यतापादिनीमात्मनि पितुस्सुमनस्कतां प्रतिलभ्य, द्वितीयेन वरेण मोक्षोपायभूतां नाचिकेताग्निविद्यां वव्रे – सत्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम्। स्वर्गलोका अमृतत्वं भजन्त एतद्द्वितीयेन वृणे वरेण (कठ.१.१.१३) इति। स्वर्गशब्देनात्र परमपुरुषार्थलक्षणो मोक्षोऽभिधीयते, अमृतत्वं भजन्ते (कठ.१.१.१३) इति तत्रस्थस्य जननमरणाभावश्रवणादुत्तरत्र क्षयिफलकर्मनिन्दादर्शनाच्च; त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत्तरति जन्ममृत्यू (कठ.१.१.१७) इति च प्रतिवचनात्। तृतीयेन वरेण मोक्षस्वरूपप्रश्नद्वारेणोपेयस्वरूपमुपेतृस्वरूपमुपायभूतकर्मानुगृहीतोपासनस्वरूपं च पृष्टम् – येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके। एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीय: (कठ.१.१.२०) इति। एवं मोक्षे पृष्टे तदुपदेशयोग्यतां परीक्ष्योपदिदेश – तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्॥ अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति (कठ.१.२.१२) इति। तदेवं सामान्येनोपिदष्टे नचिकेता: प्रीतस्सन् देवं मत्वा (कठ.१.२.१२) इत्युपास्यतया निर्दिष्टस्य प्राप्यभूतस्य देवस्य अध्यात्मयोगाधिगमेन (कठ.१.२.१२) इति वेदितव्यतया निर्दिष्टस्य प्राप्तु: प्रत्यगात्मनश्च मत्वा धीरो हर्षशोकौ जहाति (कठ.१.२.१२) इति निर्दिष्टस्य ब्रह्मोपासनस्य च स्वरूपविशोधनाय पुन: पप्रच्छ – अन्यत्रधर्मादन्यत्राधर्मात् अन्यत्रास्मात्कृताकृतात्। अन्यत्र भूताद्भव्याच्च यत्तत्पश्यसि तद्वद (कठ.१.२.१४) इति। एवं सकलेतरातीतानागत–वर्तमानसाध्यसाधनसाधकविलक्षणे त्रये पृष्टे प्रथमं प्रणवं प्रशस्य तद्वाच्यं प्राप्यस्वरूपं, तदन्तर्गतं च प्राप्तृस्वरूपं वाचकरूपं चोपायं पुनरपि सामान्येन ख्यापयन्प्रणवं तावदुपदिदेश – सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति। यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीम्योमित्येतत् (कठ.१.२.१५) इति। एवमुपदिश्य पुनरपि प्रणवं प्रशस्य प्रथमं तावत्प्राप्तु: प्रत्यगात्मनस्स्वरूपमाह – न जायते म्रियते वा विपश्चित् (कठ.१.२.१८) इत्यादिना। प्राप्यस्य परस्य ब्रह्मणो विष्णोस्स्वरूपम् अणोरणीयान् (कठ.१.२.२०) इत्यादिना क इत्था वेद यत्र स: (कठ.१.२.२५) इत्यन्तेनोपदिशन्मध्ये नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन (कठ.१.२.२३) इत्यादिनोपायभूतस्योपासनस्य भक्तिरूपतामप्याह। ऋतं पिबन्तौ (कठ.१.३.१) इति चोपास्यस्योपासकेन सहावस्थानात्सूपासतामुक्त्वा आत्मानं रथिनं विद्धि (कठ.१.३.३) इत्यादिना दुर्गं पथस्तत्कवयो वदन्ति (कठ.१.३.१४) इत्यन्तेनोपासनप्रकारमुपासीनस्य च वैष्णवपरमपदप्राप्तिमभिधाय अशब्दमस्पर्शम् (कठ.१.३.१५) इत्यादिनोपसंहृतम्। अतस्त्रयाणामेवात्र ज्ञेयत्वेनोपन्यास: प्रश्नश्च; तस्मान्नेह तान्त्रिकस्याव्यक्तस्य ग्रहणम्॥
११६. महद्वच्च ॥ १–४–७ ॥
यथा बुद्धेरात्मा महान्पर: (कठ.१.३.१०) इत्यत्रात्मशब्दसामानाधिकरण्यान्न तन्त्रसिद्धं महत्तत्त्वं गृह्यते; एवमव्यक्तमप्यात्मन: परत्वेनाभिधानान्न कापिलतन्त्रसिद्धं गृह्यत इति स्थितम्॥७॥
इति श्रीशारीरकमीमांसाभाष्ये आनुमानिकाधिकरणम्॥१॥