[highlight_content]

श्रीभाष्यम् 01-04-31 कारणत्वाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये कारणत्वाधिकरणम्॥४॥

(अधिकरणार्थः – सद्रूपस्य ब्रह्मण एव जगत्कारणता, न कापिलस्य प्रधानस्य)

(अव्याकृतब्रह्मविद्या बृ.उ. 3-4-7)

१२३. कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्ते: ॥ ११४ ॥

पुन:प्रधानकारणवादी प्रत्यवतिष्ठते न वेदान्तेष्वेकस्मात्सृष्टिराम्नायत इति जगतो ब्रह्मैककारणत्वं न युज्यते वक्तुम्।  तथा हि सदेव सोम्येदमग्र आसीत् (छा...) इति सत्पूर्विका सृष्टिराम्नायते; असद्वा इदमग्र आसीत् (तै..) इत्यसत्पूर्विका च; अन्यत्र असदेवेमग्र आसीत् । तत्सदासीत्। । तत्समभवत् (छा..१९.) इति च। अतो वेदान्तेषु स्रष्टुरव्यवस्थितेर्जगतो ब्रह्मैककारणत्वं न निश्चेतुं शक्यम्; प्रत्युत प्रधानकारणत्वमेव निश्चेतुं शक्यते तद्धेदं तर्ह्यव्याकृतमासीत्  (बृ...) इत्यव्याकृते प्रधाने जगत: प्रलयमभिधाय तन्नामरूपाभ्यां व्याक्रियत (बृ...) इत्यव्याकृतादेव जगतस्सृष्टिश्चाभिधीयते। अव्याकृतं ह्यव्यक्तम्, नामरूपाभ्यां न व्याक्रियते न व्यज्यत इत्यर्थ:। अव्यक्तं प्रधानमेव। अस्य च स्वरूपनित्यत्वेन परिणामाश्रयत्वेन च जगत्कारणवादिवाक्यगतौ सदसच्छब्दौ ब्रह्मणीवास्मिन्न विरोत्स्येते ।

(सृष्टिवाक्यश्रुतेक्षणादीनां गौणतामाश्रित्य पूर्वपक्षः)

एवमव्याकृतकारणत्वे निश्चिते सतीक्षणादय: कारणगतास्सृष्ट्यौन्मुख्याभिप्रायेण योजयितव्या:। ब्रह्मात्मशब्दावपि बृहत्त्वव्यापित्वाभ्यां प्रधान एव वर्तेते। अत: स्मृतिन्यायप्रसिद्धं प्रधानमेव जगत्कारणं वेदान्तवाक्यै: प्रतिपाद्यते॥

(सिद्धान्तः, परस्माद्ब्रह्मण एव जगत्सृष्टिः इति वेदान्ततात्पर्यदार्ढ्यम्)

इति प्राप्ते प्रचक्ष्महे कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्ते: चशब्दस्तुशब्दार्थे; सर्वज्ञात्सर्वेश्वरात्सत्यसङ्कल्पान्निरस्तनिखिलदोषगन्धात् परस्माद्ब्रह्मण एव जगदुत्पद्यत इति निश्चेतुं शक्यते। कुत😕 आकाशादिषु कारणत्वेन यथाव्यपदिष्टस्योक्ते: सर्वज्ञत्वादिविशिष्टत्वेन; जन्माद्यस्य यत: (ब्र.सू...) इत्येवमादिषु प्रतिपादितं ब्रह्म यथाव्यपदिष्टमित्युच्यते, तस्यैकस्यैवाकाशादिषु कारणत्वेनोक्ते:। तस्माद्वा एतस्मादात्मन आकाशस्सम्भूत: (तै..) तत्तेजोऽसृजत (छा...) इत्यादिषु सर्वज्ञं ब्रह्मैव कारणत्वेनोच्यते। तथाहि सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.) सोऽश्नुते सर्वान्कामान् सह ब्रह्मणा विपश्चिता (तै.आन.) इति प्रकृतं विपश्चिदेव ब्रह्म तस्माद्वा एतस्मात् (तै.आन.) इति परामृश्यते। तथा तदैक्षत बहु स्याम् (छा.) इति निर्दिष्टं सर्वज्ञं ब्रह्मैव तत्तेऽजोऽसृजत (छा...) इति परामृश्यते। एवं सर्वत्र सृष्टिवाक्येषु द्रष्टव्यम्। अतो ब्रह्मैककारणं जगदिति निश्चीयते ॥ १४ ॥

(असत्पदघटितकारणवाक्यस्य दार्ढ्यविघटकत्वशङ्का – समाधाने)

ननु असद्वा इदमग्र आसीत् (तै.आन..) इत्यसदेव कारणत्वेन व्यपदिश्यते; तत्कथमिव सर्वज्ञस्य सत्यसङ्कल्पस्य ब्रह्मण एव कारणत्वं निश्चीयत इत्यत आह

१२४. समाकर्षात् ॥ ११५ ॥

असद्वा इदमग्र आसीत् (तै.आन.) इत्यत्रापि विपश्चिदानन्दमयं सत्यसङ्कल्पं ब्रह्मैव समाकृष्यते। कथम्? तस्माद्वा एतस्माद्विज्ञानमयात्। अन्योऽन्तर आत्माऽनन्दमय: (तै.आन.) सोऽकामयत। बहु स्यां प्रजायेयेति (तै.आन.) इदं सर्वमसृजत। यदिदं किञ्च। तत्सृष्ट्वा। तदेवानुप्राविशत्। तदनुप्रविश्य सच्चत्यच्चाभवत् (तै.आन.) इत्यादिना ब्राह्मणेनाऽनन्दमयं ब्रह्म सत्यसङ्कल्पं सर्वस्य स्रष्टृ सर्वानुप्रवेशेन सर्वात्मभूतमभिधाय तदप्येषश्लोको भवति (तै.आन.) इत्युक्तस्यार्थस्य सर्वस्य साक्षित्वेनोदाहृतोऽयं श्लोक: असद्वा इदमग्र आसीत् (तै.आन.) इति। तथोत्तरत्र भीषाऽस्माद्वात:पवते (तै.आन.) इत्यादिना तदेव ब्रह्म समाकृष्य सर्वस्य प्रशासितृत्वनिरतिशयानन्दत्वादयोऽभिधीयन्ते। अतोऽयं मन्त्रस्तद्विषय एव। तदानीं नामरूपविभागाभावेन तत्सबन्धितयाऽस्तित्वाभावाद् ब्रह्मैवासच्छब्देनोच्यते। असदेवेदमग्र आसीत् (छा..१९.) इत्यत्राप्ययमेव निर्वाह:

(अव्याकृतपदस्य तच्छरीरकब्रह्मपरतामाश्रित्य प्रधानकारणतानिरासः)

यदुक्तं तद्धेदं तर्ह्यव्याकृतमासीत् (बृ...) इति प्रधानमेव जगत्कारणत्वेनाभिधीयत इति; नेत्युच्यते, तत्राप्यव्याकृतशब्देनाव्याकृतशरीरं ब्रह्मैवाभिधीयते स एष इह प्रविष्ट आनखाग्रेभ्य: पश्यंश्चक्षु: शृण्वञ्श्रोत्रं मन्वानो मन आत्मेत्येवोपासीत (बृ...) इत्यत्र स एष: (बृह...) इति तच्छब्देनाव्याकृतशब्दनिर्दष्टस्यान्त:प्रविश्य प्रशासितृत्वेनानुत्कर्षात्, तत्सृष्ट्वा तदेवानुप्राविशत् अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि (छा...) इति स्रष्टुस्सर्वज्ञस्य परस्य ब्रह्मण: कार्यानुप्रवेशनामरूपव्याकरणप्रसिद्धेश्च। अन्त: प्रविष्टश्शास्ता जनानां सर्वात्मा (तै....११.१०) इति नियमनार्थत्वादनुप्रवेशस्य प्रधानस्याचेतनस्यैवंरूपोऽनुप्रवेशो न सम्भवति। अत: अव्याकृतम् अव्याकृतशरीरं  ब्रह्म तन्नामरूपाभ्यां व्याक्रियत (बृह.) इति तदेवाविभक्तनामरूपं ब्रह्म सर्वज्ञं सत्यसङ्कल्पं स्वेनैव विभक्तनामरूपं स्वयमेव व्याक्रियतेत्युच्यते। एवं च सति ईक्षणादयो मुख्या एव  भवन्ति। ब्रह्मात्मशब्दावपि निरतिशयबृहत्त्वनियमनार्थव्यापित्वाभावेन प्रधाने न कथंचिदुपपद्येते। अतो ब्रह्मैककारणं जगदिति स्थितम् ॥ १५ ॥

इति श्रीशारीरकमीमांसाभाष्ये कारणत्वाधिकरणम्

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.