श्रीशारीरकमीमांसाभाष्ये जगद्वाचित्वाधिकरणम् ॥ ५ ॥
(अधिकरणार्थः – जगत् परब्रह्मकारणकमेव, न पुरुषपदवाच्यजीवकारणकम्)
(बालाकिविद्या कौ.उ. 4)
१२५. जगद्वाचित्वात् ॥ १–४–१६ ॥
(सङ्गतिप्रदर्शनम्)
(वेदान्तवाक्येषु चेतनकारणत्वबोधेऽपि जीवपरत्वेन निर्वाह्यत्वशङ्का)
पुनरपि साङ्ख्य: प्रत्यवतिष्ठते यद्यपि वेदान्तवाक्यानि चेतनं जगत्कारणत्वेन प्रतिपादयन्ति, तथापि तन्त्रसिद्धप्रधानपुरुषातिरिक्तं वस्तु जगत्कारणं वेद्यतया न तेभ्य: प्रतीयते। तथाहि भोक्तारमेव पुरुषं कारणं वेद्यतयाऽधीयते कौषीतकिनो बालाक्यजातशत्रुसंवादे ब्रह्म ते ब्रवाणि (कौषी.४.१८) इत्युपक्रम्य यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदितव्य: (कौषी.४.१८) इति ।
(पूर्वपक्षः)
(तत्र क्षेत्रज्ञस्यैव वेदितव्यतोक्तिः)
उपक्रमे वक्तव्यतया बालाकिनोपक्षिप्तं ब्रह्माजानते तस्मा एवाजातशत्रुणा स वै वेदितव्य: (कौषी.४.१८) इति ब्रह्मोपदिश्यते। यस्य वैतत्कर्म (कौषी.४.१८) इति कर्मसम्बन्धात्प्रकृत्यध्यक्षो भोक्ता पुरुषो वेदितव्यतयोपदिष्टं ब्रह्मेति निश्चीयते, नार्थान्तरम्, तस्य कर्मसम्बन्धानभ्युपगमात्। कर्म च पुण्यापुण्यलक्षणं क्षेत्रज्ञस्यैव सम्भवति।
(क्षेत्रज्ञेतरस्य वेदितव्यत्वोक्तिशङका)
न च वाच्यम् – क्रियत इति कर्मेति व्युत्पत्त्या प्रत्त्यक्षादिप्रमाणोपस्थापितं जगदेतत्कर्मेति निर्दिश्यते, यस्यैतत्कृत्स्नं जगत्कर्म, स वेदितव्य इति क्षेत्रज्ञादर्थान्तरमेव प्रतीयते – इति;
(क्षेत्रज्ञेतरस्य वेदितव्यत्वोक्तिशङ्का)
यो वै बालाके एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म (कौषी.४.१८) इति पृथङ्निर्देशवैयर्थ्यात्, कर्मशब्दस्य च लोकवेदयो: पुण्यपापरूप एव कर्मणि प्रसिद्धे:।
(जीवे सर्वकर्तृत्वोपपत्तिः)
तत्तद्भोक्तृकर्मनिमित्तत्वाज्जगदुत्पत्तेरेतेषां पुरुषाणां कर्तेति च भोक्तुरेवोपपद्यते। तदयमर्थ: – एतेषामादित्यमण्डलाद्यधिकरणानां क्षेत्रज्ञभोग्यभोगोपकरणभूतानां पुरुषाणां य: कारणभूत:, एतत्कारणभावहेतुभूतं पुण्यापुण्यलक्षणं च कर्म यस्य, स वेदितव्य: – तत्स्वरूपं प्रकृतेर्विविक्तं वेदितव्यम् इति ।
(जीवत्वस्य प्रकारान्तरेणोपपत्तिः)
तथोत्तरत्र तौ ह सुप्तं पुरुषमीयतु: तं यष्टिना चिक्षेप (कौषी.४.१८) इति सुप्तपुरुषगमन-यष्टिघातोत्थापनादीनि च भोक्तृप्रतिपादन एव लिङ्गानि। तथोपरिष्टादपि भोक्तैव प्रतिपाद्यते तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाश्श्रेष्ठिनं भुञ्जन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मान एनं भुञ्जन्ति (कौषी.४.२०) इति। तथा क्वैष एतद्बालके पुरुषोऽशयिष्ट क्व वा एतदभूत्कुत एतदायात् (कौषी.४–१८) इति पृष्टमर्थमजानते तस्मै स्वयमेवाजातशत्रुरुवाच हिता नाम नाड्यस्तासु तदा भवति यदा सुप्तस्स्वप्नं न कथंचन पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिस्सहाप्येति मनस्सर्वैर्ध्यानैस्सहाप्येति स यदा प्रतिबुध्यते यथाग्नेर्ज्वलतस्सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मन: प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोका: (कौषी.४.१९) इति सुषुप्त्याधारतया स्वप्नसुषुप्तिजागरितावस्थासु वर्तमानं वागादिकरणाप्ययोद्गमस्थानमेव जीवात्मानं अथास्मिन् प्राण एवैकधा भवति (कौषी.४.१९) इत्युक्तवान्। अस्मिन् जीवात्मनि प्राणभृत्त्वनिबन्धनोऽयं प्राणशब्द: स यदा प्रतिबुध्यते (कौषी.४.१९) इति प्राणशब्दनिर्दिष्टस्य प्रबोधश्रवणात् मुख्यप्राणस्येश्वरस्य च सुषुप्तिप्रबोधयोरसम्भवात्। अथवा अस्मिन्प्राणे (कौषी.४.१९) इति व्यधिकरणे सप्तम्यौ, अस्मिन्नात्मनि वर्तमाने प्राण एवैकधा भवति वागादिकरणग्राम इति। प्राणशब्दस्य मुख्यप्राणपरत्वेऽपि जीव एवास्मिन्प्रकरणे प्रतिपाद्यते, स्वत: प्राणस्य जीवोपकरणत्वात्।
(पूर्वपक्षोपसंहारः)
अतो वक्तव्यतयोपक्रान्तं ब्रह्म पुरुष एवेति तद्व्यतिरिक्तेश्वरासिद्धि:। कारणगताश्चेक्षणादयश्चेतनधर्मा अस्मिन्नेवोपपद्यन्त इत्येतदधिष्ठितं प्रधानमेव जगत्कारणम्॥
(सिद्धान्तारम्भः)
(एतत्संवादप्रतिपाद्यता पुरुषोत्तमस्यैव, न जीवस्य)
इति प्राप्ते प्रचक्ष्महे – जगद्वाचित्वात् – अत्र पुण्यापुण्यपरवश: क्षुद्र: क्षेत्रज्ञस्स्वस्मिन्, प्रकृतिधर्माध्यासेन तत्परिणामहेतुभूत: पुरुषो नाभिधीयते; अपितु निरस्तसमस्ताविद्यादि–दोषगन्ध: अनवधिकातिशयासङ्ख्येयकल्याणगुणनिधिर्निखिलजगदेककारणभूत: पुरुषोत्तमोऽभिधीयते।
(सौत्रहेतुवाचकशब्दार्थविवरणम्)
कुत😕 यस्य वैतत्कर्म (कौषी.४.१८) इत्यत्रैतच्छब्दान्वितस्य कर्मशब्दस्य परमपुरुषकार्यभूतजगद्वाचित्वात्। एतच्छब्दो ह्यर्थप्रकरणादिभिरसङ्कुचित– वृत्तिरविशेषेण प्रत्यक्षादिप्रमाणोपस्थापितनिखिलचिदचिन्मिश्रजगद्विषय:।
(पुण्यापुण्ययोः क्रियासामान्यस्य वा कर्मपदावाच्यत्वम्)
न च पुण्यापुण्यलक्षणं कर्मात्र कर्मशब्दाभिधेयं ब्रह्म ते ब्रवाणि (कौषी.४.१८) इत्युपक्रम्य ब्रह्मत्वेन बालाकिना निर्दिष्टानामादित्यमण्डलाद्यधिकरणानां पुरुषाणामब्रह्मत्वेन मृषा वै खलु मा संवादयिष्ठा: (कौषी.४.१८) इति तमब्रह्मवादिनमपोद्य तेनाविदितब्रह्मज्ञानायाजातशत्रुणेदं वाक्यमवतारितं यो वै बालाके (कौषी.४.१७) इत्यादि। पुण्यापुण्यलक्षणकर्मसम्बन्धिन आदित्याद्यधिकरणास्तत्सजातीयाश्च पुरुषास्तेनैव विदिता इति तदविदितपुरुषविशेषज्ञापनपरोऽयं कर्मशब्दो न पुण्यापुण्यमात्रवाची; कर्ममात्रवाची वा; अपि तु कृत्स्नस्य जगत: कार्यत्ववाची। एवमेव खल्वविदितोऽर्थ उपदिष्टो भवति।
(पुरुषस्य चेतनाख्यस्य वेदितव्यत्वोपदेशानौचित्यम्)
पुरुषस्य कर्मसम्बन्धोपलक्षितस्वाभाविकस्वरूपस्याज्ञातस्य वेदितव्यत्वोपदेशे च लक्षणा, कर्मसम्बन्धमात्रस्यैव वेदितव्यस्वरूपलक्षणत्वाद्यस्य कर्म च वेदितव्य इत्येतावतैव तत्सिद्धे;, यस्य वैतत्कर्म (कौषी.४.१८) इत्येतच्छब्दवैयर्थ्यं च।
(मिथः कर्तृत्व-कर्मत्वयोः पृथङ्निर्देशाशयः)
य एतेषां कर्त्ता यस्य वैतत्कर्म (कौषी.४.१८) इति पृथङ्निर्देशस्य चायमभिप्राय: – ये त्वया ब्रह्मत्वेन निर्दिष्टा: पुरुषा: तेषां य: कर्त्ता, ते यत्कार्यभूता:, किं विशिष्याभिधीयते, कृत्स्नं जगद्यस्य कार्यम्, उत्कृष्टा अपकृष्टाश्चेतना अचेतनाश्च सर्वे पदार्था यत्कार्यत्वे तुल्या:, स परमकारणभूत: पुरुषोत्तमो वेदितव्य: – इति।
(जीवीयकर्मणां जगत्स्रष्टौ हेतुत्वेऽपि न वेदितव्यता जीवस्य)
जगदुत्पत्तेर्जीवकर्मनिबन्धनत्वेऽपि न जीवस्स्वभोग्यभोगोपकरणादे: स्वयमुत्पादक:, अपि तु स्वकर्मानुगुण्येनेश्वरसृष्टं सर्वं भुङ्क्ते; अतो न तस्य पुरुषान्प्रति कृर्तृत्वमुपपद्यते। अतस्सर्ववेदान्तेषु परमकारणतया प्रसिद्धं परं ब्रह्मैवात्र वेदितव्यतयोपदिश्यते ॥ १६॥
१२६. जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् ॥ १–४–१७ ॥
(उपरितनवाक्यगतहेतोः जीवादिसाधकत्वशङ्कापरिहारौ)
अथ यदुक्तम् – जीवलिङ्गान्मुख्यप्राणसंङ्कीर्तनाच्च – लिङ्गात् भोक्तैवास्मिन्प्रकरणे प्रतिपाद्यते, न परमात्मा – इति; तद्व्याख्यातम् – तस्य निर्वाह: प्रतर्दनविद्यायामभिहित:।
(प्रतर्दनविद्यास्थपरिहारस्य अतिदेष्टव्यांशस्य च विवरणम्)
एतदुक्तं भवति – यत्रोपक्रमोपसंहारपर्यालोचनया ब्रह्मपरं वाक्यमिति निश्चितम्, तत्रान्यलिङ्गानि तदनुरोधेन वर्णनीयानीति तत्र प्रतिपादितम्। अत्राप्युपक्रमे ब्रह्म ते ब्रवाणि (कौषी.४.१८) इति ब्रह्मोपक्षिप्तम्, मध्ये च यस्य चैतत्कर्म (कौषी.४.१८) इति निर्दिष्टं न पुरुषमात्रम्, अपि तु निखिलजगदेककारणं ब्रह्मैवेत्युक्तम्। उपसंहारे च सर्वान्पाप्मनोऽपहत्य सर्वेषां च भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति य एवं वेद (कौषी.४–२०) इति ब्रह्मोपासनैकान्तं सर्वपापोपहतिपूर्वकं स्वाराज्यं च फलं श्रुतम्; अतोऽस्य वाक्यस्य ब्रह्मपरत्वनिश्चयेन जीवमुख्यप्राणलिङ्गान्यपि तत्परतया वर्णनीयानि – इति।
(सविशेषं प्रातर्दनो निर्वाहप्रकारः)
प्रातर्दने ह्युपासात्रैविध्येन जीवमुख्यप्राणलिङ्गानां ब्रह्मपरत्वमुक्तम्; अत्रापि अथास्मिन्प्राण एवैकधा भवति (कौषी.४.१९) इति सामानाधिकरण्यसम्भवे वैयधिकरण्यसमाश्रयणायोगाद्ब्रह्मण्येव प्राणशब्दप्रयोगनिश्चयेन च प्राणशरीरकब्रह्मोपासनार्थं प्राणसङ्कीर्तनं लिङ्गं युज्यते ॥१७॥
जीवलिङ्गानां पुन: कथं ब्रह्मपरत्वमित्यत्राह –
(जैमिनिमतेन उक्तानुपपत्तिपरिहारः)
१२७. अन्यार्थं तु जैमिनि: प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥ १–४–१८ ॥
तु शब्दः, जीवसङ्कीर्तनेन वाक्यस्य तत्परत्वसम्भावनाव्यावृत्त्यर्थ:। अन्यार्थं जीवसङ्कीर्तनं जीवातिरिक्तब्रह्मस्वरूपप्रतिबोधनार्थमिति जैमिनिराचार्यो मन्यते। कुत😕
(परमात्मज्ञापकप्रश्नोत्तरविधानम्)
प्रश्नव्याख्यानाभ्याम्। प्रश्नस्तावत् तौ ह सुप्तं पुरुषमाजग्मतु: (कौषी.४.१८) इत्यादिना सुप्तस्य प्रबुद्धप्राणस्यैव प्राणनामभिरामन्त्रणाश्रवणयष्टिघातोत्थापनाभ्यां प्राणादिव्यतिरिक्तं जीवं प्रतिबोध्य पुनर्जीवव्यतिरिक्तब्रह्मप्रतिबोधनपरो दृश्यते क्वैष एतद्बालाके! पुरुषोऽशयिष्ट क्व वा एतदभूत्कुत एतदागात् (कौषी.४.१८) इति। व्याख्यानमपि यदा सुप्तस्स्वप्नं न कथञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति एतस्मादात्मन: प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोका: (कौषी.४.१९) इति जीवादर्थान्तरभूतपरमात्मपरमेव।
(उक्तस्य परमात्मपरत्वस्योपपादनम्)
सुषुप्तस्य हि जीवस्य यत्रोषितस्य जागरितस्वप्नदशासम्बन्धि विचित्रसुखदु:खानुभव-कालुष्यविरहेण संप्रसन्नस्य स्वस्थतापत्ति:, पुनरप्यस्य यस्माद्भोगाय निष्क्रमणम्, सोऽयं परमात्मा। तथाहि
(प्रश्न-व्याख्यानयोः जीवपरतापूर्वपक्ष-तन्निरासौ)
सता सोम्य तदा सम्पन्नो भवति (छा.६.८.१) प्राज्ञेनाऽत्मना सम्पिरष्वक्तो न बाह्यं किञ्चन वेद नान्तरम् (बृ.६.३.२१) इति सुषुप्त्याधारतया प्रसिद्धो जीवादर्थान्तरभूत: प्राज्ञ: परमात्मा। अत: प्रश्नप्रतिवचनाभ्यां जीवसङ्कीर्तनं जीवादर्थान्तरभूतपरमात्मप्रतिपादनार्थमिति निश्चीयते।
(उक्तार्थस्थापकशास्त्रान्तरपाठप्रदर्शनम्)
यदुक्तं प्रश्नव्याख्याने जीवपरे सुषुप्तिस्थानं च नाड्य एव, करणग्रामश्च प्राणशब्दनिर्दिष्टे जीव एवैकधा भवति – इति;
तदयुक्तम्, नाडीनां स्वप्नस्थानत्वात्, उक्तरीत्या ब्रह्मण एव सुषुप्तिस्थानत्वाच्च। प्राणशब्दनिर्दिष्टे ब्रह्मण्येव जीवस्य तदुपकरणभूतवागादिकरणग्रामस्य चैकतापत्तिविभागवचनाच्च।
(उक्तार्थस्थापकशास्त्रान्तरपाठप्रदर्शनम्)
अपिचैवमेके – वाजसनेयिनोऽस्मिन्नेव बालाक्यजातशत्रुसंवादे सुषुप्ताद्विज्ञानमयाद्भेदेन तदाश्रयभूतं परमात्मानमामनन्ति – य एष विज्ञानमय: पुरुष: क्वैष तदाऽभूत्कुत एतदागात् (बृ.४–१–१६), यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमय: पुरुषस्तदैतेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हादय आकाशस्तस्मिञ्च्छेते (बृ.४.१.१७) इति। आकाशशब्दश्च परमात्मनि प्रसिद्ध: दहरोऽस्मिन्नन्तर आकाश: (छा.८–१–१) इति। अतोऽत्र जीवसङ्कीर्तनं तस्मादर्थान्तरभूतस्य प्राज्ञस्य परस्य ब्रह्मण: प्रतिबोधनार्थमित्यवगम्यते।
(अधिकरणार्थोपसंहारः)
तस्मादस्मिन्वाक्ये पुरुषादर्थान्तरभूतस्य निखिलजगत्कारणस्य परस्यैव ब्रह्मणो वेदितव्यतयाऽभिधानान्न तन्त्रसिद्धस्य पुरुषस्य तदधिष्ठितस्य वा प्रधानस्य कारणत्वं क्वचिदपि वेदान्ते प्रतीयत इति स्थितम्॥ १८॥
इति श्रीशारीरकमीमांसाभाष्ये जगद्वाचित्वाधिकरणम्॥ ५॥