श्री शारीरकमीमांसाभाष्ये वाक्यान्वयाधिकरणम्॥६॥
(अधिकरणार्थः – वाक्यविशेषैः उपास्यतया विहितं ब्रह्मैव, न पुरुषः)
(मैत्रेयीविद्या बृ.उ. 6-5)
१२८. वाक्यान्वयात् ॥ १–४–१९ ॥
(सङ्गतिप्रतिपादनम्)
अत्रापि कापिलतन्त्रसिद्धपुरुषतत्त्वावेदनपरं वाक्यं क्वचिद्दृश्यत इति तदतिरिक्त ईश्वरो नाम न कश्चित्सम्भवतीत्याशङ्क्य निराकरोति।
(विषयप्रदर्शनम्)
बृहदारण्यके मैत्रेयीब्राह्मणे श्रूयते – न वा अरे पत्यु: कामाय पति: प्रियो भवति (बृ.६.५.६) इत्यारभ्य – न वा अरे सर्वस्य कामाय सर्वं प्रियं भवति आत्मनस्तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्य: मैत्रेय्यात्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम् (बृ.६.५.६) इति।
(संशयप्रदर्शनम्)
तत्र संशय: – किमस्मिन्वाक्ये द्रष्टव्यतयोपदिश्यमानस्तन्त्रसिद्ध: पुरुष: एव? अथवा सर्वज्ञस्सत्यसङ्कल्पस्सर्वेश्वर😕 इति।
(सयुक्तिकः पूर्वः पक्षः)
किं युक्तम्? पुरुष इति। कुत😕 आदिमध्यावसानेषु पुरुषस्यैव प्रतीते:। उपक्रमे तावत्पतिजायापुत्रवित्तपश्वादिप्रियत्वयोगात् जीवात्मैव प्रतीयते, मध्येऽपि विज्ञानघन एवैतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञाऽस्ति (बृ.४.४.१२) इत्युत्पत्तिविनाशयोगात्स एवावगम्यते; तथाऽन्ते च विज्ञातारमरे केन विजानीयात् (बृ–६–५–१५) इति स एव ज्ञाता क्षेत्रज्ञ एव प्रतीयते, नेश्वर:। अतस्तन्त्रसिद्धपुरुषप्रतिपादनपरमिदं वाक्यमिति निश्चीयते।
(पुरुषप्रतिपादनपरत्वाक्षेप-परिहारौ)
ननु अमृतत्वस्य तु नाशाऽस्ति वित्तेन (बृ.६.५.६) इत्युपक्रमामृतत्वप्राप्त्युपायोपदेशपरमिदं वाक्यमित्यवगम्यते। तत्कथं पुरुषप्रतिपादनपरत्वमस्य वाक्यस्य; तदुच्यते – अत एव ह्यत्र पुरुषप्रतिपादनम्। तन्त्रे ह्यचिद्धर्माध्यासवियुक्तपुरुषस्वरूपयाथात्म्यविज्ञानमेवामृतत्वहेतुत्वेनोच्यते। अतो जीवात्मन: प्रकृतिवियुक्तं स्वरूपमिहामृतत्वाय आत्मा वा अरे द्रष्टव्य: (बृ.६.५.६) इत्यादिनोपदिश्यते।
(जीवात्मविज्ञानेन सर्वविज्ञानसिद्ध्युपपादनम्)
सर्वेषामात्मनां प्रकृतिवियुक्तं स्वरूपमेकरूपं एकमिति स्वात्मयाथात्म्यविज्ञानेन सर्व एवात्मानो विदिता भवन्तीत्यात्मविज्ञानेन सर्वविज्ञानमुपपन्नम्;
(ऐक्योपदेशाशयः)
देवादिस्थावरान्तेषु सर्वेषु भूतेष्वात्मस्वरूपस्य ज्ञानैकप्रकारत्वात्। इदं सर्वं यदयमात्मा (बृ.६.५.७) इत्यैकात्म्योपदेश:; देवाद्याकाराणामनात्माकारत्वात् सर्वं तं परादात् (बृ.६–५–७) इत्यादिनाऽन्यत्वनिषेधश्च यत्र हि द्वैतमिव भवति (बृ.६.५.१५) इति च नानात्वनिषेधेनैकस्वरूपे ह्यात्मनि देवादिप्रकृतिपरिणामभेदेन नानात्वं मिथ्येत्युच्यते;
(प्रकृतवाक्यानां जीवपरत्वेऽपि वेदाविर्भावाक्योपपत्तिः)
तस्य ह वा एतस्य महतो भूतस्य निश्श्वसिमेतद्यदृग्वेद: (बृ.६.५.११) इत्याद्यपि प्रकृतेरधिष्ठातृत्वेन पुरुषनिमित्तत्वाज्जगदुत्पत्तेरुपपद्यते।
(पूर्वपक्षनिगमनम्)
एवमस्मिन्वाक्ये पुरुषपरे निश्चिते सति तदैकार्थ्यात्सर्वे वेदान्तास्तन्त्रसिद्धं पुरुषमेवाभिदधतीति तदधिष्ठाता प्रकृतिरेव जगदुपादानम्, नेश्वर:- इति।
(सिद्धान्तारम्भः)
एवं प्राप्ते प्रचक्ष्महे – वाक्यान्वयात् – इति। सर्वेश्वर एवास्मिन्वाक्ये प्रतीयते; कुत😕 एवमेव हि वाक्यावयवानामन्योन्यान्वयस्समञ्जसो भवति।
(सामञ्जस्योपपादनम्)
अमृतत्वस्य तु नाशाऽस्ति वित्तेन (बृ.६.५.३) इति याज्ञवल्यक्येनाभिहिते येनाहं नामृता स्यां किमहं तेन कुर्यां तदेव भगवान्वेद तदेव मे ब्रूहि (बृ.६.५.४) इत्यमृतत्वानुपायतया वित्ताद्यनादरेणामृतत्वप्राप्त्युपायमेव प्रार्थयमानायै मैत्रेय्यै तदुपायतया द्रष्टव्यत्वेनोपदिष्टोऽयमात्मा परमात्मैव तमेव विदित्वाऽतिमृत्युमेति (श्वे.३.८) तमेवं विद्वानमृत इह भवति नान्य: पन्था: (पु.सू.) इत्यादिभिरमृतत्वस्य परमपुरुषवेदनैकोपायतया प्रतिपादनात्।
(प्राप्तृस्वरूपावगमोपयोगः, परमात्मन एव ज्ञातव्यता च)
परमपुरुषविभूतिभूतस्य प्राप्तुरात्मनस्स्वरूपयाथात्म्यं अपवर्गसाधनपरमपुरुषवेदनोपयोगितया अवगन्तव्यम्; न स्वत एवोपायत्वेन। अतोऽत्र परमात्मैवामृतत्वोपायतया द्रष्टव्य: (बृ.६.५.६) इत्यादिनोपदिश्यते। तथा तस्य ह वा एतस्य महतो भूतस्य निश्श्वसिमेतद्यदृग्वेद: (बृ.६.५.११) इत्यादिना कृत्स्नस्य जगत: कारणत्वमुच्यमानं परमपुरुषादन्यस्य कर्मपरवशस्य मुक्तस्य निर्व्यापारस्य च पुरुषमात्रस्य न सम्भवति। तथा आत्मनो वा अरे दर्शनेन (बृ.४.४.५) इत्यादिना एकविज्ञानेन सर्वविज्ञानमभिधीयमानं सर्वात्मभूते परमात्मन्येवावकल्पते।
(परोक्तस्य सर्वविज्ञानप्रतिज्ञानिर्वाहप्रकारस्य अनौचित्यम्)
यत्त्वेतदेकरूपत्वादात्मनामेकात्मविज्ञानेन सर्वात्मविज्ञानमुच्यत इति; तदयुक्तम्; अचेतनप्रपञ्चज्ञानाभावेन सर्वविज्ञानाभावात्। प्रतिज्ञोपपादनाय च इदं ब्रह्मेदं क्षत्रम् (बृ.६.५.७) इत्युपक्रम्य इदं सर्वं यदयमात्मा (बृ.६.५.७) इति प्रत्यक्षादिसिद्धं चिदिचिन्मिश्रं प्रपञ्चं इदम् इति निर्दिश्य एतदयमात्मा इत्यैकात्म्योपदेशश्च परमात्मन एवोपपद्यते। न हि इदंशब्दवाच्यं चिदचिन्मिश्रं जगत्पुरुषेणाचित्संसृष्टेन तद्वियुक्तेन स्वरूपेण वाऽवस्थितेन चैक्यमुपगच्छति।
(आत्मेतरत्वज्ञाननिषेधतात्पर्यम्)
अत एव सर्वं तं परादाद्योऽन्यत्राऽत्मनस्सर्वं वेद (बृ.६.५.७) इति व्यतिरिक्तत्वेन सर्ववेदननिन्दा च; तथा प्रथमे च मैत्रेयीब्राह्मणे महद्भूतमनन्तमपारम् (बृ.४.४.१२) इति श्रुता महत्त्वादयो गुणा: परमात्मन एव सम्भवन्ति। अतस्स एवात्र प्रतिपाद्यते।
(परोक्तार्थस्य अनूद्य दूषणम्)
यत्तूक्तं पतिजायापुत्रवित्तपश्वादिप्रियान्वयिनो जीवात्मन उपक्रमे त्वन्वेष्टव्यतया प्रतिपादनात्तद्विषयमेवेदं वाक्यमिति; तदयुक्तम्, आत्मनस्तु कामाय (बृ.६.५.६) इत्यात्मशब्देन जीवात्मसंशब्दने तस्य आत्मा वा अरे द्रष्टव्य: (बृ.६.५.६) इत्यनेनानन्वयप्रसङ्गात्। आत्मा वा अरे द्रष्टव्य: (बृ. ६.५.६) इत्यात्मनो द्रष्टव्यत्वोपयोगितया आत्मनस्तु कामाय (बृ.६.५.६) इत्युपदिष्टमिति प्रतीयते। आत्मनस्तु कामाय – आत्मन: कामसम्पत्तये; काम्यन्त इति कामा:; आत्मन इष्टसम्पत्तय इति यावत्।
(जीवात्मस्वरूपस्य अन्वेष्टव्यतापरत्वानुपपत्तिः)
न च – जीवात्मन: इष्टसम्पत्तये पत्यादय: प्रिया भवन्ति – इत्युक्ते सति तस्य जीवस्य स्वरूपमन्वेष्टव्यं भवति। प्रियमेव ह्यन्वेष्टव्यम्; नतु प्रियं प्रति शेषिण: प्रियवियुक्तं स्वरूपम्। यस्मादात्मन इष्टसम्पत्तये पत्यादय: प्रिया भवन्ति, तस्मात्पत्यादिप्रियं परित्यज्य तद्वियुक्तमात्मस्वरूपमन्वेष्टव्यमित्यसङ्गतं भवति। प्रत्युत न पत्यादिशेषतया पत्यादीनां प्रियत्वम्; अपित्वात्मनश्शेषतया पत्यादीनां प्रियत्वमित्युक्ते स्वशेषतया त एवोपादेयास्स्यु:।
(परोक्तानुरोधस्य वाक्यभेदापादकत्वम्)
आत्मनस्तु कामाय सर्वं प्रियं भवति (बृ.६.५.६) इत्यस्य परेणानन्वये वाक्यभेद: प्रसज्यते। अभ्युपगम्यमानेऽपि वाक्यभेदे पूर्ववाक्यस्य न किञ्चित्प्रयोजनं दृश्यते।
(स्वाभिमतोऽर्थः)
अत: पत्यादि सर्वं प्रियं परित्यज्यात्मन एवान्वेष्ठव्यत्वं यथा प्रतीयते, तथा वाक्यार्थो वर्णनीय:; सोऽयमुच्यते – अमृतत्वस्य तु नाशाऽस्ति वित्तेन (बृ.६.५.३) इति वित्तादीनां नित्यनिर्दोषनिरतिशयानन्दरूपामृतत्वप्राप्त्यनुपायतामुक्त्वा वित्तपुत्रपतिजायादीनां सातिशयदु:खमिश्र-कादाचित्कप्रियत्वमनुभूयमानं न पत्यादिस्वरूपप्रयुक्तम्, अपितु निरतिशयानन्द- स्वभावपरमात्मप्रयुक्तम्। अतो य एव स्वयं निरतिशयानन्दस्सन्नन्येषामपि प्रियत्वलेशास्पदत्वं आपादयति, स परमात्मैव द्रष्टव्य इत्युपदिश्यते।
(उक्तस्यार्थस्य शब्दतो लाभः)
तदयमर्थ: – न वा अरे पत्यु: कामाय पति: प्रियो भवति (बृ.६.५.६) न हि पतिजायापुत्रवित्तादयो मत्प्रयोजनायाहमस्य प्रियस्स्यामिति स्वसङ्कल्पात्प्रिया भवन्ति; अपि त्वात्मन: कामाय परमात्मन: स्वाराधकप्रियप्रतिलम्भनरूपेष्टनिर्वृत्तय इत्यर्थ:। परमात्मा हि कर्मभिराराधितस्तत्तत्कर्मानुगुणं प्रतिनियतदेशकालस्वरूपपरिमाणमाराधकानां तत्तद्वस्तुगतं प्रियत्वमापादयति एष ह्येवानन्दयाति (तै.आ.७) इति श्रुते:। न तु तत्तद्वस्तु स्वरूपेण प्रियमिप्रयं वा। यथोक्तं – तदेव प्रीतये भूत्वा पुनर्दु:खाय जायते। तदेव कोपाय यत: प्रसादाय च जायते॥ तस्माद्दु:खात्मकं नास्ति न च किञ्चित्सुखात्मकम् इति।
(द्वितीयवाक्यस्थात्मशब्दस्य परमात्मपरतायामेव स्वारस्यम्)
आत्मनस्तु कामाय (बृ.६.५.६) इत्यस्य जीवात्मपरत्वेऽपि आत्मा वा अरे द्रष्टव्य: (बृ.६–५–६) इति तु परमात्मविषयमेव। तत्रायमर्थ: – यस्मात्पत्यादीनामिष्टसम्पत्तये तत्परवशेन पत्यादय: प्रियत्वेन नोपादीयन्ते, अपित्वात्मेष्टसम्पत्तये स्वतन्त्रेण स्वप्रियत्वेनोपादीयन्ते; तस्माद्य एवाऽत्मनो निरुपाधिकनिर्दोषनिरवधिकप्रिय: परमात्मा; स एव हि द्रष्टव्य:; न दु:खमिश्राल्प-सुखदु:खोदर्का: परायत्ततत्तत्स्वभावा: पतिजायापुत्रवितादयो विषया: इति ।
(आत्मशब्दयोर्द्वयोरपि एकविषतौचित्यम्)
अस्मिंस्तु प्रकरणे जीवात्मवाचिशब्देनापि परमात्मन एवाभिधानात् आत्मनस्तु कामाय (बृ.६.५.६) आत्मा वा अरे द्रष्टव्य: (बृ.६.५.६) इति पूर्वोक्तप्रक्रिययोभयत्रात्मशब्दावेकविषयौ॥१९॥
(उत्तरसूत्रावतरणम्)
मतान्तरेणापि जीवशब्देन परमात्माभिधानोपपादनायाह –
१२९. प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्य: ॥ १–४–२० ॥
(यादवप्रकाशमतनिदानसूत्रार्थविवरणम्)
एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा सिद्धेरिदं लिङ्गम्, यज्जीवात्मवाचिशब्दै: परमात्मनोऽभिधानम् – इत्याश्मरथ्य आचार्यो मन्यते स्म। यद्ययं जीव: परमात्मकार्यतया परमात्मैव न भवेत् तदा तद्व्यतिरिक्ततया परमात्मविज्ञानादेतद्विज्ञानं न सेत्स्यति। आत्मा वा इदमेक एवाग्र आसीत् (ऐत.१.१.१) इति प्राक्सृष्टेरेकत्वावधारणात्
(परमात्मनो जीवोत्पत्त्यादेः औपनिषदत्वात् जीवब्रह्मैक्यम्)
यथा सुदीप्तात्पावकाद्विस्फुलिङ्गास्सहस्रश: प्रभवन्ते सरूपा:। तथाऽक्षराद्विविधा: सोम्य भावा: प्रजायन्ते तत्र चैवापियन्ति (मु.२.१.१) इत्यादिभिर्ब्रह्मणो जीवानामुत्पत्तिश्रवणात्तस्मिन्नेव लयश्रवणाच्च जीवानां ब्रह्मकार्यत्वेन ब्रह्मणैक्यमवगम्यते। अतो जीवशब्देन परमात्माभिधानमिति॥२०॥
१३०. उत्क्रमिष्यत एवम्भावादित्यौडुलोमि:॥ १–४–२१॥
(आश्मर्थ्यमतानुवादपूर्वकं दूषणम्)
यदुक्तं जीवस्य ब्रह्मकार्यतया ब्रह्मणैक्येनैकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादनार्थं ब्रह्मणो जीवशब्देन प्रतिपादनमिति, तदयुक्तं न जायते म्रियते वा विपश्चित् (कठ.२.२.१८) इत्यादिनाऽजत्वश्रुतेर्जीवात्मनां प्राचीनकर्मफलभोगाय जगत्सृष्ट्यभ्युपगमाच्च, अन्यथा विषमसृष्ट्यनुपपत्तेश्च, ब्रह्मकार्यस्य जीवस्य ब्रह्मतापत्तिलक्षणो मोक्ष आकाशादिवदवर्जनीय इति तदुपायविधानानुष्ठानानर्थक्याच्च, घटादिवत्कारणप्राप्तेर्विनाशरूपत्वेन मोक्षस्यापुरुषार्थत्वाच्च। जीवात्मन उत्पत्तिप्रलयवादोपपत्तिरुत्तरत्र प्रपञ्चयिष्यते।
(सूत्रार्थविवरणम्)
अत: एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते (छा.८.३.४) यथा नद्यस्स्यन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय। तथा विद्वान्नामरूपाद्विमुक्त: परात्परं पुरुषमुपैति दिव्यम् (मु.३.२.८) इत्युत्क्रमिष्यत: परमात्मभावाज्जीवशब्देन परमात्मनोऽभिधानमित्यौडुलोमिराचार्यो मन्यते स्म॥२१॥
१३१. अवस्थितेरिति काशकृत्स्न: ॥ १–४–२२ ॥
(औडुलोमिमतानुवादपूर्वकं दूषणम्)
यदुक्तमुत्क्रमिष्यतो जीवस्य ब्रह्मभावाद्ब्रह्मणस्तच्छब्देनाभिधानमिति; तदप्ययुक्तम्, विकल्पासहत्वात्। अस्य जीवात्मन उत्क्रान्ते: पूर्वमनेवम्भाव: किं स्वाभाविक:; उतौपाधिक; तत्रापि पारमार्थिक:, अपारमाथिको वेति। स्वाभाविकत्वे ब्रह्मभावो नोपपद्यते, भेदस्य स्वरूपप्रयुक्तत्वेन स्वरूपे विद्यमाने तदनपायात्। अथ भेदेन सह स्वरूपमप्यपैतीति, तथा सति विनष्टत्वादेव तस्य न ब्रह्मभाव:, अपुरुषार्थत्वादिदोषप्रसङ्गश्च। पारमार्थिकौपाधिकत्वे प्रागपि ब्रह्मैवेति उत्क्रिमष्यत एवम्भावात् इति विशेषो न युज्यते वक्तुम्। अस्मिन्पक्षेऽह्युपाधिब्रह्मव्यतिरेकेण वस्त्वन्तराभावात् निरवयवस्य ब्रह्मण उपाधिना च्छेदाद्यसम्भवाच्चोपाधिगत एव भेद इत्युत्क्रान्ते: प्रागपि ब्रह्मैव। औपाधिकस्य भेदस्यापारमार्थिकत्वे कस्यायमुत्क्रान्तौ ब्रह्मभाव इति वक्तव्यम्; ब्रह्मण एवाविद्योपाधितिरोहितस्वस्वरूपस्येति चेन्न, नित्यमुक्तस्वप्रकाशज्ञानस्वरूपस्य अविद्योपाधितिरोधानासम्भवात्। तिरोधानं नाम वस्तुस्वरूपे विद्यमाने तत्प्रकाशनिवृत्ति:। प्रकाश एव वस्तुस्वरूपमित्यङ्गीकारे तिरोधानाभावस्स्वरूपनाशो वा स्यात्। अतो नित्याविर्भूत-स्वस्वरूपत्वात् तस्योत्क्रान्तौ ब्रह्मभावे न कश्चिद्विशेष इति उत्क्रिमष्यत: इति विशेषणं व्यर्थमेव।
(स्वरूपाभिनिष्पत्तिश्रुत्यर्थनिर्णयः)
अस्माच्छरीरात्समुत्थाय (छा.८.३.४) इति पूर्वमनेवंरूपस्य न तदानीं ब्रह्मतापत्तिमाह, अपितु पूर्वसिद्धस्वरूपस्याविर्भावम्। तथाहि वक्ष्यते सम्पद्याविर्भावस्स्वेनशब्दात् (शारी ४–४–२) इत्यादिभि:।
(सूत्रव्याख्यानम्)
अत: अनेन जीवेनाऽत्मनाऽनुप्रविश्य (छां.६.३.२), य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृत: (बृह.५.७.२२), योऽक्षरमन्तरे सञ्चरन्यस्याक्षरं शरीरं यमक्षरं न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण: (सुबा.७), अन्त:प्रविष्टश्शास्ता जनानां सर्वात्मा (तै.आर.१.३.२१) इति स्वशरीरभूते जीवात्मन्यात्मतयाऽवस्थितेर्जीवशब्देन ब्रह्मप्रतिपादनमिति काशकृत्स्न आचार्यो मन्यते स्म। जीवशब्दश्च जीवस्य परमात्मपर्यन्तस्यैव वाचको न जीवमात्रस्येति पूर्वमेवोक्तम् नामरूपे व्याकरवाणि (छा.६.३.२) इत्यत्र।
(उक्तार्थस्यैव सूत्रकारसम्मतत्वमिति प्रतिपादनम्)
एवमात्मशरीरभावेन तादात्म्योपपादने परस्य ब्रह्मणोऽपहतपाप्मत्वसर्वज्ञत्वादिगोचरा जीवस्याविदुषश्शोचतो ब्रह्मोपासनान्मोक्षवादिन्यो जगत्सृष्टिप्रलयाभिधायिन्यो जगतो ब्रह्मतादात्म्योपदेशपराश्च सर्वाश्श्रुतयस्सम्यगुपपादिता भवन्तीति काशकृत्स्नीयमेव मतं सूत्रकारस्स्वीकृतवान्।
(काशकृत्स्नानुरोधेन श्रुतिवाक्यार्थः)
अयमत्र वाक्यार्थ: – अमृतत्वोपाये मैत्रेय्या पृष्टे याज्ञवल्क्य:- आत्मा वा अरे द्रष्टव्य: (बृ.६.५.६) इत्यादिना परमात्मोपासनममृतत्वोपायमुक्त्वा आत्मनि खल्वरे दृष्टे (बृ.६.५.६) इत्यादिनोपास्यलक्षणम्, दुन्दुभ्यादिदृष्टान्तैश्चोपासनोपकरणभूतमन: प्रभृतिकरणनियमनं च सामान्येनाभिधाय स यथाऽऽर्द्रैधाग्ने: (बृ.४.४.१०) इत्यादिना स यथा सर्वासामपां समुद्र एकायनम् (बृ.४.४.११) इत्यादिना चोपास्यभूतस्य परस्य ब्रह्मणो निखिलजगदेककारणत्वम्, सकलविषयप्रवृत्तिमूलकरणग्रामनियमनं च विस्तीर्णमुपदिश्य स यथा सैन्धवघन: (बृ.६.५.१३) इत्यादिनाऽमृतत्वोपायप्रवृत्तिप्रोत्साहनाय जीवात्मस्वरूपेणावस्थितस्य परमात्मनोऽपरिच्छिन्न-ज्ञानैकाकारतामुपपाद्य तस्यैवापरिच्छन्नज्ञानैकाकारस्य संसारदशायां भूतपरिणामानुवृत्तिं विज्ञानघन एवैतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति (बृ.४.४.१२) इत्यभिधाय न प्रेत्य संज्ञास्ति (बृ.५.५.१२) इति मोक्षदशायां स्वाभाविकापरिच्छिन्नज्ञानसङ्कोचाभावेन भूतसङ्घातेनैकीकृत्याऽत्मनि देवादिरूपज्ञानाभावमुक्त्वा पुनरपि यत्र हि द्वैतमिव भवति (बृ.४.४.१४) इत्यादिना अब्रह्मात्मकत्वेन नानाभूतवस्तुदर्शनमज्ञानकृतमिति निरस्तनिखिलाज्ञानस्य ब्रह्मात्मकं कृत्स्नं जगदनुभवतो ब्रह्मव्यतिरिक्तवस्त्वन्तराभावेन भेददर्शनं निरस्य येनेदं सर्वं विजानाति तं केन विजानीयात् (बृ.६.५.१४) इति च जीवात्मा स्वात्मतयाऽऽवस्थितेन येन परमात्मा आहितज्ञानस्सन्निदं सर्वं विजानाति, अयं तं केन विजानीयात्, न केनापीति परमात्मनो दुरवगमत्वमुपपाद्य स एष नेति नेति (बृ.६.५.१५) इत्यादिनाऽयं सर्वेश्वरस्स्वेतरसमस्तचिदचिद्वस्तु-विलक्षणस्वरूप एव सर्वशरीरस्सर्वस्याऽत्मतयाऽवस्थित इति स्वशरीरभूतचिदचिद्वस्तुगतैर्दोषैर्न स्पृश्यत इत्यभिधाय विज्ञातारमरे केन विजानीयात् इत्युक्तानुशासनाऽसि मैत्रेय्येतावदरे खल्वमृतत्वम् (बृ.४.४.१५) इतिसमस्तवस्तुविसजातीयं निखिलजगदेककारणभूतं सर्वस्य विज्ञातारं पुरुषोत्तममुक्तप्रकारादुपासनादृते केन विजानीयादितीदमेवोपासनममृतत्वोपाय:; ब्रह्मप्राप्तिरेव चामृतत्वमभिधीयते – इत्युक्तवान्।
(अधिकरणार्थोपसंहारः)
अत: परं ब्रह्मैवास्मिन्वाक्ये प्रतिपाद्यत इति परमेव ब्रह्म जगत्कारणम्, न पुरुषस्तदधिष्ठाता च प्रकृतिरिति स्थितम्॥२२॥
इति श्रीशारीरकमीमांसाभाष्ये वाक्यान्वयाधिकरणम्॥६॥