श्रीशारीरकमीमांसाभाष्ये इतरव्यपदेशाधिकरणम्॥७॥
(अधिकरणार्थः – जगत्स्रष्टुर्ब्रह्मणः स्वहिताकरणादिदोषप्रसङ्गनिवारणम् सू.21-23)
१५९. इतरव्यपदेशाद्धिताकारणादिदोषप्रसक्ति: ॥ २–१–२१ ॥
(अवान्तरसङ्गतिः)
जगतो ब्रह्मानन्यत्वं प्रतिपादयद्भि: तत्त्वमसि (छा.६.८.७) अयमात्मा ब्रह्म (बृ.६.४.५) इत्यादिभर्जीवस्यापि ब्रह्मानन्यत्वं व्यपदिश्यत इत्युक्तम्।
(सूत्राशयविशदीकरणम्)
तत्रेदं चोद्यते; यदीतरस्य जीवस्य ब्रह्मभावोऽमीभिर्वाक्यैर्व्यपदिश्यते, तदा ब्रह्मण: सार्वज्ञ्यसत्यसङ्कल्पत्वादियुक्तस्यात्मनो हितरूपजगदकरणमहितरूपजगत्करणमित्यादयो दोषा: प्रसज्येरन्। आध्यात्मिकाधिदैविक- आधिभौतिकानन्तदु:खाकरं चेदं जगत्; न चेदृशे स्वानर्थे स्वाधीनो बुद्धिमान् प्रवर्तते ॥
जीवाद्ब्रह्मणो भेदवादिन्यश्श्रुतयो जगद्ब्रह्मणोरनन्यत्वं वदता त्वयैव परित्यक्ता:, भेदे सत्यनन्यत्वासिद्धे:॥
(भास्करमतानुवाद-तद्दूषणे)
औपाधिकभेदविषया भेदश्रुतय: स्वाभाविकाभेदविषयाश्चाभेदश्रुतय इतिचेत् –
तत्रेदं वक्तव्यम् – स्वभावत: स्वस्मादभिन्नं जीवं किमनुपहितं जगत्कारणं ब्रह्म जानाति वा, न वा; न जानाति चेत् – सर्वज्ञत्वहानि:; जानाति चेत् – स्वस्मादभिन्नस्य जीवस्य दु:खं स्वदु:खमिति जानतो ब्रह्मणो हिताकरणाहितकरणादिदोषप्रसक्तिरनिवार्या॥
(ब्रह्माज्ञानवादिनः अस्मिन्नधिकरणे अनवकाशः)
जीवब्रह्मणोरज्ञानकृतो भेद:, तद्विषया भेदश्रुतिरिति चेत् – तत्रापि जीवाज्ञानपक्षे पूर्वोक्तो विकल्पस्तत्फलं च तदवस्थम्। ब्रह्माज्ञानपक्षे स्वप्रकाशस्वरूपस्य ब्रह्मणोऽज्ञानसाक्षित्वं तत्कृतजगत्सृष्टिश्च न सम्भवति। अज्ञानेन प्रकाशस्तिरोहितश्चेत् तिरोधानस्य प्रकाशनिवृत्तिकरत्वेन प्रकाशस्यैव स्वरूपत्वात्स्वरूपनिवृत्तिरेवेति स्वरूपनाशादिदोषसहस्रं प्रागेवोदीरितम् । अत इदमसङ्गतं ब्रह्मणो जगत्कारणत्वम्॥२१॥
(श्रुतिभिः ब्रह्मणः जीवार्थान्तरत्वसमर्थनम्)
इति प्राप्येऽभिधीयते
१६०. अधिकन्तु भेदनिर्देशात् ॥ २–१–२२ ॥
तु शब्द: पक्षं व्यावर्तयति; आध्यात्मिकादिदु:खयोगार्हात्प्रत्यगात्मन: अधिकं अर्थान्तरभूतं ब्रह्म। कुत:, भेदनिर्देशात् – प्रत्यगात्मनो हि भेदेन निर्दिश्यते परं ब्रह्म – य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृत: (बृ.५.७.२२) पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति (श्वे.१.६) स कारणं करणाधिपाधिप: (श्वे.६.९) तयोरन्य: पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति (श्वे.४.६) ज्ञाज्ञौ द्वावजावीशनीशौ (श्वे.१.९) प्राज्ञेनाऽत्मना सम्परिष्वक्त: (बृ.६.३.२१) प्राज्ञेनात्मनाऽन्वारूढ: (बृ.६.३.३५) अस्मान्मायी सृजते विश्वमेतत् तस्मिंश्चान्यो मायया सन्निरुद्ध: (श्वे.४.९) प्रधानक्षेत्रज्ञपतिर्गुणेश: (श्वे.६.१६) नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् (श्वे.६.१३) योऽव्यक्तमन्तरे सञ्चरन् यस्याव्यक्तं शरीरं यमव्यक्तं न वेद, योऽक्षरमन्तरे सञ्चरन् यस्याक्षरं शरीरं यमक्षरं न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण: (सुबाल.७) इत्यादिभि:॥२२॥
(चेतनस्य ब्रह्मभावासाङ्गत्यं वस्तुविरोधात्)
१६१. अश्मादिवच्च तदनुपपत्ति: ॥ २–१–२३ ॥
अश्मकाष्ठलोष्टतृणादीनामत्यन्तहेयानां सततविकारास्पदानामचिद्विशेषाणां निरवद्य-निर्विकारनिखिलहेयप्रत्यनीककल्याणैकतानस्वेतरसमस्तवस्तुविलक्षणानन्तज्ञानानन्दैकस्वरूप-नानाविधानन्तमहाविभूति-ब्रह्मस्वरूपैक्यं यथा नोपपद्यते, तथा चेतनस्याप्यनन्तदु:खयोगार्हास्य खद्योतकल्पस्य अपहतपाप्मा (छा.८.१.५) इत्यादिवाक्यावगतसकलहेयप्रत्यनीक-अनवधिकातिशय- असङ्ख्येयकल्याणगुणाकरब्रह्मभावानुपपत्ति: ॥
(जीवब्रह्मणोर्भेदेऽपि सामानाधिकरण्यादिनिर्वाहप्रकारः)
सामानाधिकरण्यनिर्देश: यस्यात्मा शरीरम् (बृ.५.७.२२) इत्यादिश्रुतेर्जीवस्य ब्रह्मशरीरत्वाद्ब्रह्मणो जीवशरीरतया तदात्मत्वेनावस्थितेर्जीवप्रकारब्रह्मप्रतिपादनपरश्चैतदविरोधी, प्रत्युतैतस्यार्थस्योपपादकश्चेति अवस्थितेरिति काशकृत्स्न: (ब्र.सू.१.४.२२) इत्यादिभिरसकृत् उपपादितम्। अतस्सर्वावस्थं ब्रह्म चिदचिद्वस्तुशरीरमिति सूक्ष्मचिदचिद्वस्तुशरीरं ब्रह्म कारणम्; तदेव ब्रह्म स्थूलचिदचिद्वस्तुशरीरं जगदाख्यं कार्यमिति जगद्ब्रह्मणो: सामानाधिकरण्योपपत्ति:, जगतो ब्रह्मकार्यत्वम्, ब्रह्मणोऽनन्यत्वम्, अचिद्वस्तुनो जीवस्य च ब्रह्मणश्च परिणामित्वदु:खित्वकल्याणगुणाकरत्वस्वभावासङ्कर: सर्वश्रुत्यविरोधश्च भवति। सदेव सोम्येदमग्र आसीदेकमेव (छा.६.२.१) इत्यविभागावस्थायामप्यचिद्युक्तजीवस्य ब्रह्मशरीरतया सूक्ष्मरूपेणावस्थानमवश्याभ्युपगन्तव्यम्, वैषम्यनैर्घृण्ये न सापेक्षत्वात् (ब्र.सू.२.१.३४) न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च (ब्र.सू.२.१.३५) इति सूत्रद्वयोदितत्वात्तदानीमपि सूक्ष्मरूपेणावस्थानस्य। अविभागस्तु नामरूपविभागाभावादुपपद्यते। अतो ब्रह्मकारणत्वं सम्भवत्येव।
(उक्तसूत्रद्वयस्य परोक्तेऽर्थे असाङ्गत्यम्)
ये पुनरस्यैव जीवस्याविद्यावियुक्तावस्थामभिप्रेत्येमं भेदं वर्णयन्ति, तेषामिदं सर्वमसङ्गतं स्यात्; न हि तदवस्थस्य सर्वज्ञत्वं, सर्वेश्वरत्वं, समस्तकारणत्वं, सर्वात्मत्वं, सर्वनियन्तृत्वमित्यादीनि सन्ति। अनेनैव रूपेण ह्याभि: श्रुतिभि: प्रत्यगात्मनो भेद: प्रतिपाद्यते; तस्य सर्वस्याविद्यापरिकल्पितत्वात्। तत्सर्वं ह्यविद्यापरिकल्पितं त्वन्मते। न चाविद्यापरिकल्पितस्याविद्यावस्थायां शुक्तिकारजतादिभेदवत्परस्परभेदोऽत्र सूत्रकारेण अधिकन्तु भेदनिर्देशात् (ब्र.सू.२.१.२२) इत्यादिषु प्रतिपाद्यते; ब्रह्मजिज्ञासा कर्तव्येति जिज्ञास्यतया प्रक्रान्तस्य ब्रह्मणो जगज्जन्मादिकारणस्य वेदान्तवेद्यत्वम्, तस्य च स्मृतिन्यायविरोधपरिहारश्च क्रियते।
(अस्मिन्नधिकरणे अधिकं त्विति सूत्रस्य पौनरुक्त्यपरिहारः)
अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् (ब्र.सू.२.१.८) न तु दृष्टान्तभावात् (ब्र.सू.२.१.९) इति सूत्रद्वयमेतदधिकरणसिद्धमनुवदति; तत्र हि विलक्षणयो: कार्यकारणभावसम्भव एवाधिकरणार्थ:। असदिति चेन्न प्रतिषेधमात्रत्वात् (शारी.२-१-७) इति च पूर्वाधिकरणस्थमनुवदति ॥२३॥
इति श्रीशारीरकमीमांसाभाष्ये इतरव्यपदेशाधिकरणम्॥ ७॥