श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये
द्वितायाध्याये–द्वितीयः (तर्क) पादः
(पादार्थः – सांख्यादिपक्षाणां, तर्कतः प्रतिक्षेपः । पाञ्चरात्रतन्त्रप्रामाण्यस्थापनं च)
(अधिकरणानि – 8, सूत्राणि – 42)
रचनानुपपत्त्यधिकरणम्॥१॥
(अधिकरणार्थः – ब्रह्मानधिष्टितस्य सांख्योक्तप्रधानस्य जगत्कारणत्वायोगः)
१७५. रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च ॥ २–२–१ ॥
(आदितः एतावदन्तं शारीरके निरूपिता अर्थाः – सङ्गतिः, द्वितीयपादप्रयोजनं च)
उक्तं जगज्जन्मादिकारणं परं ब्रह्मेति; तत्र परैरुद्भाविताश्च दोषा: परिहृता:। इदानीं स्वपक्षरक्षणाय परपक्षा: प्रतिक्षिप्यन्ते; इतरथा कस्यचिन्मन्दधियस्तेषां पक्षाणां युक्त्याभासमूलतामजानत: प्रामाणिकत्वशङ्कया वैदिकपक्षे किञ्चिच्छ्रद्धावैकल्यं जायेतापि; अत: परपक्षप्रतिक्षेपायानन्तर: पाद: प्रवर्तते ॥
(कपिलमतनिरासप्राधान्ये हेतुः, पौनरुक्त्यनिरासश्च)
तत्र प्रथमं तावत्कापिलमतं निरस्यते वैदिकानुमतसत्कार्यवादाद्यर्थसङ्ग्रहेणैतस्य सत्पक्षनिक्षेपसम्भावनाभ्रमहेतुत्वातिरेकात्। ईक्षतेर्नाशब्दम् (ब्र.सू.१.१.५) इत्यादिभि: वैदिकवाक्यानां अतत्परत्वमात्रमुक्तम्; अत्रैव तत्पक्षस्वरूपप्रतिक्षेप: क्रियत इति न पौनरुक्त्याशङ्का।
(सांख्यमतप्रक्रियाप्रदर्शनम्)
एषा हि साङ्ख्यानां दर्शनस्थिति:- मूलप्रकृतिरविकृतिर्महदाद्या: प्रकृतिविकृतयस्सप्त। षोडशकश्च विकारो न प्रकृतिर्न विकृति: पुरुष: ॥ (सां.का.३) इति तत्त्वसङ्ग्रह:। मूलप्रकृतिर्नाम सुखदु:खमोहात्मकानि लाघवप्रकाशचलनोपष्टम्भनगौरवावरण-कार्याण्यत्यन्तातीन्द्रियाणि कार्यैकनिरूपणविवेकान्यन्यूनानतिरेकाणि समतामुपेतानि सत्त्वरजस्तमांसि द्रव्याणि। सा च सत्त्वरजस्तमसां साम्यरूपा प्रकृतिरेका स्वयमचेतनाऽनेकचेतनभोगापवर्गार्था नित्या सर्वगता सततविक्रिया न कस्यचिद्विकृति:, अपि तु परमकारणमेव; महदाद्यास्तद्विकृतयोऽन्येषां च प्रकृतयस्सप्त; महानहङ्कार: शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रमिति। तत्राहङ्कारस्त्रिधा – वैकारिकस्तैजसो भूतादिश्च, क्रमात्सात्त्विको राजसस्तामसश्च; तत्र वैकारिकस्सात्त्विक इन्द्रयादि; भूतादिस्तामसो महाभूतहेतुभूततन्मात्रहेतु:; तैजसो राजसस्तूभयोरनुग्राहक:; आकाशादीनि पञ्चमहाभूतानि श्रोत्रादीनि पञ्च ज्ञानेन्द्रियाणि वागादीनि पञ्च कर्मेन्द्रियाणि मन इति केवलविकारा: षोडश; पुरुषस्तु निष्परिणामत्वेन न कस्यचित्प्रकृति: न कस्यचिद्विकृति:; तत एव निर्धर्मकश्चैतन्यमात्रवपुर्नित्यो निष्क्रियस्सर्वगत: प्रतिशरीरं भिन्नश्च; निर्विकारत्वान्निष्क्रियत्वाच्च तस्य कर्तृत्वं भोक्तृत्वं च न सम्भवति।
एवंभूतेऽपि तत्त्वे मूढा: प्रकृतिपुरुषसन्निधिमात्रेण पुरुषस्य चैतन्यं प्रकृतावध्यस्य प्रकृतेश्च कर्तृत्वं स्फटिकमणाविव जपाकुसुमस्यारुणिमानं पुरुषेऽध्यस्य अहं कर्ता भोक्ता इति मन्यन्ते। एवमज्ञानाद्भोग:, तत्वज्ञानच्चापवर्ग:। तदेतत्प्रत्यक्षानुमानागमैस्साधयन्ति ॥
(संप्रतिपन्नोंशः निरसनीयोंशश्च)
तत्र प्रत्यक्षसिद्धेषु पदार्थेषु नातीव विवादपदमस्ति। आगमोऽपि कपिलादिसर्वज्ञज्ञानमूल इति सोऽपि प्रथमे काण्डे प्रमाणलक्षणे निरस्तप्राय:। यदिदं प्रधानमेव जगत्कारणमित्यनुमानम्, तन्निरसनेन तन्मतं सर्वं निरस्तं भवतीति तदेव निरस्यते।
(तदीयानुमाननिरासार्थं तदीयप्रक्रियाशोधनम्)
ते चैवं वर्णयन्ति – कृत्स्नस्य जगत: एकमूलत्वमवश्याभ्युपगमनीयम्, अनेकेभ्य: कार्योत्पत्त्यभ्युपगमे कारणानवस्थानात्। तन्तुप्रभृतयो ह्यवयवा: स्वांशभूतैष्षड्भि: पार्श्वै: परस्परं संयुज्यमाना अवयविनमुत्पादयन्ति; ते च तन्त्वादय: स्वावयवैस्तथाभूतैरुत्पाद्यन्ते; ते च तथाभूतै: स्वावयवैरिति परमाणुभिरपि स्वकीयैष्षड्भि: पार्श्वैस्संयुज्यमानैरेव स्वकार्योत्पादनमभ्युपेतव्यम्, अन्यथा प्रथिमानुपपत्ते:। परमाणवोऽप्यंशित्वेन स्वांशैस्तथैवोत्पाद्यन्ते, ते च स्वांशैरिति न क्वचित्कारणव्यवस्थिति:। अत: कारणव्यवस्थासिद्ध्यर्थमेकद्रव्यं विविधविचित्रपरिणामशक्तियुक्तं स्वयमप्रच्युतस्वरूपेव महदाद्यनन्तावस्थाश्रय: कारणमाश्रयणीयम्। तच्चैकं कारणं गुणत्रयसाम्यरूपं प्रधानमिति तत्कल्पने हेतूनुपन्यस्यन्ति –
(अव्यक्तापरपर्यायप्रधानकल्पने हेतवः)
भेदानां परिमाणात्समन्वयाच्छक्तित: प्रवृत्तेश्च। कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य। कारणमस्त्यव्यक्तम् (सां.का.१५,१६) इति। अयमर्थ: विश्वरूपमेव वैश्वरूप्यम्, विचित्रसन्निवेशं तनुभवनादि कृत्स्नं जगत्; तच्च जगद्विचित्रसन्निवेशत्वेन कार्यभूतं तत्सरूपाव्यक्तकारणकम्; कुत:? कार्यत्वात्; कार्यस्य हि सर्वस्य तत्सरूपात्कारणविशेषात् विभागस्तस्मिन्नेवाविभागश्च दृश्यते; यथा घटमकुटादे: कार्यस्य तत्सरूपान्मृत्सुवर्णादे: कारणाद्विभागस्तस्मिन्नेव चाविभाग:; अतो विश्वरूपस्य जगतस्तत्सरूपात्प्रधानादुत्पत्तिस्तस्मिन्नेव लयश्चेति प्रधानकारणकमेव जगत्। गुणत्रयसाम्यरूपं प्रधानमेव जगत्सरूपं कारणम्; सत्त्वरजस्तमोमय-सुखदु:खमोहात्मकत्वाज्जगत:। यथा मृदात्मना घटस्य मृद्दव्यमेव कारणम्; तदेव हि तदुत्पत्त्याख्य-प्रवृत्तिशक्तिमत्, तथा दर्शनात्। अव्यक्तस्य गुणसाम्यरूपस्य देशत: कालतश्चापरिमितस्यैव कारणत्वं भेदानां महदहङ्कारतन्मात्रादीनां परिमितत्वादवगम्यते। महदादीनि च घटादिवत्परिमितानि कृत्स्नजगदुत्पत्तौ न प्रभवन्ति, अतस्त्रिगुणं जगद्गुणत्रयसाम्यरूपप्रधानैककारणमिति निश्चीयते॥
(चेतनानधिष्ठितप्रधानकारणवादनिरासरूपः सिद्धान्तः)
अत्रोच्यते – रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च – अनुमीयत इत्यनुमानम्; न भवदुक्तं प्रधानं विचित्रजगद्रचनासमर्थम्, अचेतनत्वे सति तत्स्वभावाभिज्ञानधिष्ठितत्वात्; यदेवं तत्तथा, यथा रथप्रासादादिनिर्माणे केवलदार्वादिकम्। दार्वादेरचेतनस्य तज्ज्ञानधिष्ठितस्य कार्यारम्भानुपपत्तेर्दर्शनात्, तज्ज्ञाधिष्ठितस्य कार्यारम्भप्रवृत्तेर्दर्शनाच्च न प्राज्ञानधिष्ठितं प्रधानं कारणमित्युक्तं भवति। चकारादन्वयस्यानैकान्त्यं समुच्चिनोति; न ह्यन्वितं शौक्ल्यगोत्वादि कारणत्वव्याप्तम् ॥
(कार्ये अन्वयवतः कारणत्वमितिव्याप्तेः द्र्वयविश्रान्तता, सत्त्वादीनां गुणता च)
न च वाच्यं मा भूदन्वितानामपि शौक्ल्यादिधर्माणां कारणत्वम्, द्रव्यस्य तु हेमादे: कार्येऽन्वितस्य कारणत्वव्याप्तिरस्त्येव; सत्त्वादीन्यपि द्रव्याणि कार्येऽन्वितानि कारणत्वव्याप्तानि इति; यतस्सत्त्वादयो द्रव्यधर्मा:, न तु द्रव्यस्वरूपम्; सत्त्वादयो हि पृथिव्यादिद्रव्यगत-लघुत्वप्रकाशादिहेतुभूतास्तत्स्वभावविशेषा एव; न तु मृद्धिरण्यादिवद्द्रव्यतया कार्यान्विता उपलभ्यन्ते; गुणा इत्येव च सत्वादीनां प्रसिद्धि: ॥
(सांख्यमते तदीप्सितकारणव्यवस्थाया अनुपपत्तिः)
यच्च कारणव्यवस्थासिद्धये जगत: एकमूलत्वमुक्तम्, तदपि सत्वादीनामनेकत्वात् न उपपद्यते। अत एव कारणव्यवस्था च न सिद्ध्यति। साम्यावस्थास्सत्त्वादय एव हि प्रधानमिति त्वन्मतम्। अत: कारणबहुत्वादनवस्था तदवस्थैव।
न च तेषामपरिमितत्वेन व्यवस्थासिद्धि:, अपरिमितत्वे हि त्रयाणामपि सर्वगतत्वेन न्यूनाधिकभावाभावाद्वैषम्यासिद्धे: कार्यारम्भासम्भवात्। कार्यारम्भायैव परिमितत्वं अवश्याश्रयणीयम्॥१॥
(सर्वस्याऽपि पक्षतया, प्राज्ञानधिष्ठताचेतनप्रवृत्तौ दृष्टान्तासिद्धिः)
यत्र रथादिषु स्पष्टं चेतनाधिष्ठितत्वं दृष्टम्, तद्व्यतिरिक्तं सर्वं पक्षीकृतमित्याह – १७६. पयोम्बुवच्चेत्तत्रापि ॥ २–२–२ ॥
यदुक्तं प्रधानस्य प्राज्ञानधिष्ठितस्य विचित्रजगद्रचनानुपपत्तिरिति; तन्न, यत: पयोऽम्बुवत् प्रवृत्तिरुपपद्यते। पयसस्तावद्दधिभावेन परिणममानस्यानन्यापेक्षस्याऽद्यपरिस्पन्दप्रभृति-परिणामपरम्परा स्वत एवोपपद्यते; यथा च वारिदविमुक्तस्याम्बुन एकरसस्य नारिकेलतालचूत-कपित्थनिम्बतिन्त्रिण्यादिविचित्ररसरूपेण परिणामप्रवृत्ति: स्वत एव दृश्यते; तथा प्रधानस्यापि परिणामस्वभावस्यान्यानधिष्ठितस्यैव प्रतिसर्गावस्थायां, सदृशपरिणामेनावस्थितस्य सर्गावस्थायां गुणवैषम्यनिमित्तविचित्रपरिणाम उपपद्यते। यथोक्तं परिणामतस्सलिलवत्प्रतिप्रतिगुणाश्रयविशेषात् (सा.का.१६) इति। तदेवमव्यक्तमनन्यापेक्षं प्रवर्तत इति चेत् – अत उत्तरं – तत्रापि इति; यत् क्षीरजलादिदृष्टान्ततया निदर्शितम्, तत्रापि प्राज्ञानधिष्ठाने प्रवृत्तिर्नोपपद्यते; तदपि पूर्वत्र पक्षीकृतमित्यभिप्राय: ॥
(पूर्वोक्तविरोधशङ्का-तत्परिहारौ)
उपसंहादर्शनान्नेति चेन्न क्षीरवद्धि (ब्र.सू.२.१.२४) इत्यत्र दृष्टपरिकरान्तररहितस्यापि स्वासाधारणपरिणाम उपपद्यत इत्येतावदुक्तम्, न प्राज्ञाधिष्ठितत्वं पराकृतम्, योऽप्सु तिष्ठन् (बृ.५.७.४) इत्यादिश्रुते: ॥ २ ॥
१७७. व्यतिरेकानवस्थितेश्चानपेक्षत्वात्। २–२–३॥
(प्राज्ञाधिष्ठानज्ञानापेक्षत्वे सर्गप्रतिसर्गव्यवस्थालोपः)
इतश्च सत्यसङ्कल्पेश्वराधिष्ठानानपेक्षपरिणामित्वे सर्गव्यतिरेकेण प्रतिसर्गावस्थया अनवस्थितिप्रसङ्गाच्च न प्राज्ञानधिष्ठितं प्रधानं कारणम्; प्राज्ञाधिष्ठितत्वे तस्य सत्यसङ्कल्पत्वेन सर्गप्रतिसर्गविचित्र-सृष्टिव्यवस्थासिद्धि: ॥
(प्राज्ञाधिष्ठानेऽपि व्यवस्थालोपशङ्का-तत्परिहारौ)
न च वाच्यं प्राज्ञाधिष्ठितत्वेऽपि तस्यावाप्तसमस्त-कामस्य परिपूर्णस्य अनवधिकातिशयानन्दस्य निरवद्यस्य निरञ्जनस्य सर्गप्रतिसर्गव्यवस्थ-हेत्वभावात् विषमसृष्टौ निर्दयत्वप्रसङ्गाच्च समानोऽयं दोष इति; परिपूर्णस्यापि लीलार्थप्रवृत्ति-सम्भवात्, सर्वज्ञस्य तस्य परिणामविशेषापन्नप्रकृति-दर्शनरूपसर्गप्रतिसर्गविशेषहेतोस्सम्भवात्, क्षेत्रज्ञकर्मणामेव विषमसृष्टि-व्यवस्थापकत्वाच्च।
(सृष्टिप्रलयादिव्यवस्थायाः जीवीयकर्मानुगुणप्रकृतिपरिणामायत्तता)
नन्वेवं क्षेत्रज्ञपुण्यापुण्यरूपकर्मभिरेव सर्वा व्यवस्थास्सिध्यन्तीति कृतमीश्वरेणाधिष्ठात्रा; पुण्यापुण्यरूपानुष्ठितकर्मसंस्कृता प्रकृतिरेव पुरुषार्थानुरूपं तथा तथा व्यवस्थया परिणंस्यते; यथा विषादिदूषितानामन्नपानादीनामौषधविशेषाप्यायितानां च सुखदु:खहेतुभूत: परिणामविशेषो देशकालव्यवस्थया दृश्यते ।
अतस्सर्गप्रतिसर्गव्यवस्था देवादिविषमसृष्टि: कैवल्यव्यवस्था च सर्वप्रकारपरिणामशक्ति-युक्तस्य प्रधानस्यैवोपपद्यत इति।
(जीवीयकर्मणः वेदैकगम्यत्वं, परमपुरुषप्रीत्यप्रीतिरूपत्वं च)
अनभिज्ञो भवान् पुण्यापुण्यकर्मस्वरूपयो:; पुण्यापुण्यस्वरूपे हि शास्त्रैकसमधिगम्ये; शास्त्रं चानादिनिधनाविच्छिन्नपाठसम्प्रदायानाघ्रातप्रमादादिदोषगन्धवेदाख्याक्षरराशि:; तच्च परमपुरुष- आराधनतद्विपर्ययरूपे कर्मणी पुण्यापुण्ये, तदनुग्रहनिग्रहायत्ते च तत्फले सुखदु:खे – इति वदति। तदाह द्रमिडाचार्य: फलसंबिभत्सया हि कर्मभिरात्मानं पिप्रीषन्ति स प्रीतोऽलं फलायेति शास्त्रमर्यादा (द्रमिडाचार्य:) इति। तथाच श्रुति: इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभि: (तै.उ.ना.२) इति। तथा च भगवता स्वयमेवोक्तं यत: प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्। स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानव: (भ.गी.१८.४६) इति तानहं द्विषत: क्रूरान् संसारेषु नराधमान्। क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु (भ.गी.१६.१९) इति च ।
स भगवान् पुरुषोत्तमोऽवाप्तसमस्तकामस्सर्वज्ञस्सर्वेश्वरस्सत्यसङ्कल्प: स्वमाहात्म्यानुगुणलीलाप्रवृत्त:, एतानि कर्माणि समीचीनान्येतान्यसमीचीनानीति कर्मद्वैविध्यं संविधाय तदुपादानोचितदेहेन्द्रियादिकं तन्नियमनशक्तिं च सर्वेषां क्षेत्रज्ञानां सामान्येन प्रदर्श्य स्वशासनावबोधि शास्त्रं च प्रदर्श्य तदुपसंहारार्थं चान्तरात्मतयाऽनुप्रविश्यानुमन्तृतया च नियच्छंस्तिष्ठति। क्षेत्रज्ञास्तु तदाहितशक्तय: तत्प्रदिष्टकरणकलेबरादिकास्तदाधाराश्च स्वयमेव स्वेच्छानुगुण्येन पुण्यापुण्यरूपे कर्मणी उपाददते; ततश्च पुण्यापुण्यरूपकर्मकारिणं स्वशासनानुवर्तिनं ज्ञात्वा धर्मार्थकाममोक्षैर्वर्धयते, शासनातिवर्तिनं च तद्विपर्ययैर्योजयति; अत: स्वातन्त्र्यादिवैकल्यचोद्यानि नावकाशं लभन्ते ॥
(भगवतो दयायाः स्वरूपस्य तद्विषयस्य च शोधनम्)
दया हि नाम स्वार्थनिरपेक्षा परदु:खासहिष्णुता; सा च स्वशासनातिवृत्तिव्यवसायिन्यपि वर्तमाना न गुणायावकल्पते; प्रत्युतापुंस्त्वमेवावहति; तन्निग्रह एव तत्र गुण:, अन्यथा शत्रुनिग्रहादीनामगुणत्वप्रसङ्गात्। स्वशासनातिवृत्तिव्यवसायनिवृत्तिमात्रेणानाद्यनन्तकल्पोपचित-दुर्विषहानन्तापराधानङ्गीकारेण निरतिशयसुखसंवृद्धये स्वयमेव प्रयतते। यथोक्तं तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्। ददामि बुद्धियोगं तं येन मामुपयान्ति ते। तेषामेवानुकम्पार्थमहमज्ञानजं तम:। नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता (भ.गी.१०.१०,११) इति। अत: प्राज्ञानधिष्ठितं प्रधानं न कारणम् ॥ ३ ॥
(अनपेक्षाया अपि प्रकृतेः परिणामप्रवृत्तिशङ्का-परिहारौ)
अथ स्यात् – यद्यपि प्राज्ञानधिष्ठिताया: प्रकृते: परिस्पन्दप्रवृत्तिरपि न सम्भवतीत्युक्तम्, तथाऽप्यनपेक्षाया एव परिणामप्रवृत्तिस्सम्भवति, तथा दर्शनात्; धेन्वादिनोपयुक्तं हि तृणोदकादि स्वयमेव क्षीराद्याकारेण परिणममानं दृश्यते। अत: प्रकृतिरपि स्वयमेव जगदाकारेण परिणंस्यते इति। तत्राह-
१७८. अन्यत्राभावाच्च न तृणादिवत् ॥ २–२–४ ॥
नैतदुपपद्यते, तृणादे: प्राज्ञानधिष्ठितस्य परिणामाभावाद्दृष्टान्तासिद्धे:; कथमसिद्धि:? अन्यत्राभावात् – यदि हि तृणोदकादिकमनडुहाद्युपयुक्तं प्रहीणं वा क्षीराकारेण पर्यणंस्यत, तत: प्राज्ञानधिष्ठितमेव परिणमत इति वक्तुमशक्ष्यत; नचैतदस्ति; अतो धेन्वाद्युपयुक्तं प्राज्ञ एव क्षीरीकरोति। पयोम्बुवच्चेत्तत्रापि (ब्र.सू.२.२.२) इत्युक्तमेवात्र प्रपञ्चितं तत्रैव व्यभिचारप्रदर्शनाय॥
(पुरुषस्य स्वसान्निध्यमात्रेण प्रधाने प्रवृत्तिजनकत्वशङ्का-परिहारौ)
१७९. पुरुषाश्मवदिति चेत्तथापि ॥ २–२–५ ॥
अथोच्येत – यद्यपि चैतन्यमात्रवपु: पुरुषो निष्क्रिय:, प्रधानमपि दृक्छक्तिविकलम्; तथापि पुरुषसन्निधानादचेतनं प्रधानं प्रवर्तते, तथा दर्शनात्; गमनशक्तिविकलदृक्छक्तियुक्त-पङ्गुसन्निधानात्तच्चैतन्योपकृतो दृक्छक्तिविकल: प्रवृत्तिशक्तोऽन्ध: प्रवर्तते; अयस्कान्ताश्म-सन्निधानाच्चाय: प्रवर्तते। एवं प्रकृतिपुरुषसंयोगकृतो जगत्सर्ग: प्रवर्तते। यथोक्तं – पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य। पंग्वन्धवदुभयोरपि संयोगस्तत्कृतस्सर्ग: (सां.का.२१) इति । पुरुषस्य प्रधानोपभोगार्थं कैवल्यार्थं च पुरुषसन्निधानात्प्रधानं सर्गादौ प्रवर्तत इत्यर्थ: । अत्रोत्तरं – तथापीति। एवमपि प्रधानस्य प्रवृत्त्यसम्भवस्तदवस्थ एव, पङ्गोर्गमनशक्तिविकलस्यापि मार्गदर्शनतदुपदेशादय: कादाचित्का विशेषा: सहस्रशस्सन्ति; अन्धोऽपि चेतनस्सन् तदुपदेशाद्यवगमेन प्रवर्तते; तथा अयस्कान्तमणेरप्ययस्समीपागमनादयस्सन्ति; पुरुषस्य तु निष्क्रियस्य न तादृशा विकारास्सम्भवन्ति । सन्निधानमात्रस्य नित्यत्वेन नित्यसर्गप्रसङ्गो नित्यमुक्तत्वेन बन्धाभावोऽपवर्गाभावश्च ॥ ५॥
(प्रलयानन्तरं पुनः सृष्ट्यनुपपत्तितः, अनपेक्षप्रधानकारणत्वाभावः)
१८०. अङ्गित्वानुपपत्तेश्च ॥ २–२–६ ॥
गुणानामुत्कर्षनिकर्षनिबन्धनाङ्गाङ्गिभावाद्धि जगत्प्रवृत्ति: प्रतिप्रतिगुणाश्रयविशेषात् (सांख्य.१६) इति वदद्भिर्भवद्भिरभ्युपगम्यते। प्रतिसर्गावस्थायां तु साम्यावस्थानां सत्त्वरजस्तमसां अन्योन्याधिक्यन्यूनत्वाभावादङ्गाङ्गिभावानुपपत्तेर्न जगत्सर्ग उपपद्यते ।
तदापि वैषम्याभ्युपगमे नित्यसर्गप्रसङ्ग:। अतश्च न प्राज्ञानधिष्ठितं प्रधानं कारणम् ॥ ६॥
(कालविशेषनियतशक्तिमत्प्रधानानुमानेऽपि दोषः)
१८१. अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॥ २–२–७ ॥
दूषितप्रकारातिरक्तप्रकारान्तरेण प्रधानानुमितौ च प्रधानस्य ज्ञातृत्वशक्तिवियोगात्त एव दोषा: प्रादु:ष्यु:। अतो न कथंचिदप्यनुमानेन प्रधानसिद्धि: ॥ ७ ॥
(प्रधानानुमानस्य अनुपयोगितया वैधर्म्यम्)
१८२. अभ्युपगमेऽप्यर्थाभावात् ॥ २–२–८ ॥
अनुमानेन प्रधानसिद्ध्यभ्युपगमेऽपि प्रधानेन प्रयोजनाभावान्न तदनुमातव्यम्। पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य (सां.का.२१) इति प्रधानस्य प्रयोजनं पुरुषभोगापवर्गावभिमतौ, तौ च न सम्भवत:; पुरुषस्य चैतन्यमात्रवपुषो निष्क्रियस्य निर्विकारस्य निर्मलस्य तत एव नित्यमुक्तस्वरूपस्य प्रकृतिदर्शनरूपो भोगस्तद्वियोगरूपोऽपवर्गश्च न सम्भवति। एवंरूपस्यैव प्रकृतिसन्निधानात् तत्परिणामविशेषसुखदु:खदर्शनरूपभोगसम्भावनायां प्रकृतिसन्निधानस्य नित्यत्वेन कदाचिदप्यपवर्गो न सेत्स्यति ॥ ८ ॥
(मिथो व्याहतार्थकत्वतः सांख्यदर्शने अनौचित्यपूर्णता)
१८३. विप्रतिषेधाच्चासमञ्जसम् ॥ २–२–९ ॥
विप्रतिषिद्धं चेदं साङ्ख्यानां दर्शनम्। तथाहि – प्रकृते: परार्थत्वेन दृश्यत्वेन भोग्यत्वेन च प्रकृतेर्भोक्तारमधिष्ठातारं द्रष्टारं साक्षिणं च पुरुषमभ्युपगम्य प्रकृत्यैव साधनभूतया तस्य कैवल्यमपि प्राप्यं वदन्त एव तस्य नित्यनिर्विकारचैतन्यमात्रस्वरूपतया अकर्तृत्वं, कैवल्यं च स्वरूपमेवाहु:; तत एव बन्धमोक्षसाधनानुष्ठानं मोक्षश्च प्रकृतेरेवेत्याहु:, एवंभूतनिर्विकारोदासीन-पुरुषसन्निधानात् प्रकृतेरितरेतराध्यासेन सर्गादिप्रवृत्तिं पुरुषभोगापवर्गार्थत्वं चाहु: सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात्। पुरुषोऽस्ति भोक्तृभावात्कैवल्यार्थप्रवृत्तेश्च। (सां.का.१७) तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य। कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च (सां.का.१९) इति; पुरुषविमोक्षनिमित्तं तथा प्रवृत्ति: प्रधानस्य (सां.का.५७) इत्युक्त्वैवमाहु: तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित्। संसरति बध्यते मुच्यते च नानाश्रया प्रकृति: (सां.का.६२) इति; तथा तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम्। गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीन:। पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य। पंग्वन्धवदुभयोरपि संयोगस्तत्कृतस्सर्ग: (सां.का.२०,२१) इति ॥
(सूत्रोक्तविप्रतिषेधोपपादनम्)
साक्षित्वद्रष्टृत्वभोक्तृत्वादयो नित्यनिर्विकारस्याकर्तुरुदासीनस्य कैवल्यैकस्वरूपस्य न सम्भवन्ति। एवंरूपस्य तस्याध्यासमूलभ्रमोऽपि न सम्भवति, अध्यासभ्रमयोरपि विकारत्वात्। प्रकृतेश्च तौ न सम्भवत:, तयोश्चेतनधर्मत्वात्। अध्यासो हि नाम चेतनस्यान्यस्मिन् अन्यधर्मानुसन्धानम् । स च चेतनधर्मो विकारश्च। न च पुरुषस्य प्रकृतिसन्निधिमात्रेण अध्यासादयस्सम्भवन्ति, निर्विकारत्वादेव; सम्भवन्ति चेत् – नित्यं प्रसज्येरन्; सन्निधेः अकिञ्चित्करत्वञ्च – न विलक्षणत्वात् (शारी.२.१.४) इत्यत्र प्रतिपादितम्।
प्रकृतिरेव संसरति बध्यते मुच्यते चेत् – कथं नित्यमुक्तस्य पुरुषस्योपकारिणी सेत्युच्यते? वदन्ति हि नानाविधैरुपायैरुपकारिण्यनुपकारिण: पुंस:। गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति (सां.का.५९.६०) इति।
तथा प्रकृतिर्येन पुरुषेण, यथास्वभावा दृष्टा, तस्मात्पुरुषात्तदानीमेव निवर्तत इति चाहु:। रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्तात्। पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृति:॥ (सा.का.५९) प्रकृतेस्सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति। या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य (सा.का.६१) इति;
(सांख्योक्तेऽर्थे असाङ्गत्योपपादनम्)
तदप्यसङ्गतम्, पुरुषो हि नित्यमुक्तत्वान्निर्विकारत्वान्न तां कदाचिदपि पश्यति, नाध्यस्यति च। स्वयं च स्वात्मानं न पश्यति, अचेतनत्वात्। पुरुषस्य स्वात्मदर्शनं स्वदर्शनमिति नाध्यवस्यति च, स्वयमचेतनत्वात्, पुरुषस्य च दर्शनरूपविकारासम्भवात्। अथ सन्निधिमात्रमेव दर्शनमित्युच्यते; सन्निधेर्नित्यत्वेन नित्यदर्शनप्रसङ्ग इत्युक्तम्। स्वरूपातिरिक्त-कादाचित्कसन्निधिरपि नित्यनिर्विकारस्य नोपपद्यते। किंच मोक्षहेतुस्तु स्वसन्निधानरूपमेव दर्शनं चेत् बन्धहेतुरपि तदेवेति नित्यवद्बन्धो मोक्षश्च स्याताम् । अयथादर्शनं बन्धहेतु:, यथावत्स्वरूपदर्शनं मोक्षहेतुरितिचेत् – उभयविधस्यापि दर्शनस्य सन्निधानरूपतानतिरेकात् सदा उभयप्रसङ्ग एव। सन्निधेरनित्यत्वे तस्य हेतुरन्वेषणीय:, तस्यापीत्यनवस्था। अथैतद्दोष-परिजिहीर्षया स्वरूपसद्भाव एव सन्निधिरिति, तदा स्वरूपस्य नित्यत्वेन नित्यवद्बन्धमोक्षौ। अत एवमादेर्विप्रतिषेधात्साङ्ख्यानां दर्शनमसमञ्जसम् ।
(मायावादिपक्षगतासामञ्जस्यप्रदर्शनम्)
येऽपि कूटस्थनित्यनिर्विशेषस्वप्रकाशचिन्मात्रं ब्रह्माविद्यासाक्षित्वेन अपारमार्थिकबन्ध-मोक्षभागिति वदन्ति, तेषामप्युक्तनीत्याऽविद्यासाक्षित्वाध्यासादि असम्भवादसामञ्जस्यमेव; इयांस्तु विशेष: – साङ्ख्या: जननमरणप्रतिनियमादिव्यवस्थासिद्ध्यर्थं पुरुषबहुत्वमिच्छन्ति, ते तु तदपि नेच्छन्तीति सुतरामसामञ्जस्यम् ॥
(प्रकृतौ वैषम्यकल्पनानौचित्यम्)
यत्तु प्रकृते: पारमार्थ्यापारमार्थ्यविभागेन वैषम्यमुक्तम्, तदयुक्तम् पारमार्थिकत्वेऽपि अपारमार्थिकत्वेऽपि नित्यनिर्विकारस्वप्रकाशैकरसचिन्मात्रस्य स्वव्यतिरिक्तसाक्षित्वाद्यनुपपत्ते: । अपारमार्थिकत्वे तु तस्या: दृश्यत्वबाध्यत्वाभ्युपगमात् सुतरामसङ्गतम्। औपाधिकभेदवादेऽपि उपाधिसम्बन्धिनो ब्रह्मणोऽयमेव स्वभाव इत्युपाधिसम्बन्धाद्यनुपपत्तेरसामञ्जस्यं पूर्वमेवोक्तम् ॥
इति श्रीशारीरकमीमांसाभाष्ये रचनानुपपत्त्यधिकरणम्॥१॥