श्रीशारीरकमीमांसाभाष्ये उपलब्ध्यधिकरणम्॥४॥
(योगाचारबौद्धानां प्रत्यवस्थानम्)
२०१. नाभाव उपलब्धे: ॥ २–२–२७ ॥
(अर्थगतस्याकारस्य ज्ञानगताकारत्वोपपादनम्)
विज्ञानमात्रास्तित्ववादिनो योगाचारा: प्रत्यवतिष्ठन्ते। यदुक्तमर्थवैचित्र्यकृतं ज्ञानवैचित्र्यमिति, तन्नोपपद्यते, अर्थवत् ज्ञानानामेव साकाराणां स्वयमेव विचित्रत्वात्। तच्च स्वरूपवैचित्र्यं वासनावशादेवोपपद्यते। वासना च विलक्षणप्रत्ययप्रवाह एव। यद्घटाकारज्ञानं कपालाकारज्ञानस्योत्पादकम्, तस्य तथाविधस्योत्पादकं तत्पूर्वघटज्ञानम्। तस्य च तथाविधस्योत्पादकं तत:पूर्वघटज्ञानम् इत्येवं रूप: प्रवाह एव वासनेत्युच्यते।
(बाह्यानामर्थानामभावः)
कथं बहिष्ठसर्षपमहीधरादेराकार आन्तरस्य ज्ञानस्येत्युच्यते? इत्थम् – अर्थस्यापि व्यवहारयोग्यत्वं ज्ञानप्रकाशायत्तम्, अन्यथा स्वपरवेद्ययोरनतिशयप्रसङ्गात्। प्रकाशमानस्य च ज्ञानस्य साकारत्वमवश्याश्रयणीयम्, निराकारस्य प्रकाशायोगात्। एकश्चायमाकार उपलभ्यमानो ज्ञानस्यैव। तस्य च बहिर्वदवभासोऽपि भ्रमकृत:। ज्ञानार्थयोस्सहोपलम्भनियमाच्च ज्ञानादव्यतिरिक्तोऽर्थ:।
(वेदान्तिनां सिद्धान्तः, ज्ञानेतरार्थसत्यता)
किञ्च बाह्यमर्थमभ्युपयद्भिरपि घटपटादिविज्ञानेषु ज्ञानस्य तत्तदर्थासाधारण्यं तत्तदर्थसारूप्यमन्तरेण नोपपद्यत इत्यवश्यं ज्ञानेऽर्थसरूपं रूपमास्थेयम्। तावतैव सर्वव्यवहारोपपत्ते: तद्वयतिरिक्तार्थकल्पना निष्प्रमाणिका। अतो विज्ञानमात्रमेव तत्त्वम्, न बाह्यार्थोऽस्ति – इति ।
(ग्राह्यग्राहकयोरभेदवचनस्य स्वव्याघातः)
एवं प्राप्ते प्रचक्ष्महे नाभाव उपलब्धे: – इति। ज्ञानातिरिक्तस्यार्थस्याभावो वक्तुं न शक्यते; कुत:? उपलब्धे: – ज्ञातुरात्मनोऽर्थविशेषव्यवहारयोग्यतापादनरूपेण ज्ञानस्योपलब्धे:। एवमेव हि सर्वे लौकिका: प्रतियन्ति – घटमहं जानामि इति। एवंरूपेण सकर्मकेण सकर्तृकेण ज्ञाधात्वर्थेन सर्वलोकसाक्षिकमपरोक्षमवभासमानेनैव ज्ञानमात्रमेव परमार्थ इति साधयन्तस्सर्वलोकोपहासोपकरणं भवन्तीति वेदवादच्छद्मप्रच्छन्नबौद्धनिराकरणे निपुणतरं प्रपञ्चितम्।
(वासनाया असिद्धिः)
यत्तु सहोपलम्भनियमादभेदो नीलतद्धियो: इति, तत्स्ववचनविरुद्धम्, साहित्यस्यार्थभेदहेतुकत्वात्। तदर्थव्यवहारयोग्यतैकस्वरूपस्य ज्ञानस्य तेन सहोपलम्भनियमस्तस्मादवैलक्षण्यसाधनमिति च हास्यम्।
(ज्ञाने अर्थासाधारण्यस्य अर्थसम्बन्धायत्तता)
निरन्वयविनाशिनां ज्ञानानामनुवर्तमानस्थिराकारविरहाद्वासना च दुरुपपादा। विनष्टेन पूर्वज्ञानेनानुत्पन्नमुत्तरज्ञानं कथं वास्यते। अतो ज्ञानवैचित्र्यमप्यर्थवैचित्र्यकृतमेव।
तत्तदर्थव्यवहारयोग्यतापादनरूपतया साक्षात्प्रतीयमानस्य ज्ञानस्य तत्तदर्थसम्बन्धायत्तं तत्तदसाधारण्यम्। सम्बन्धश्च संयोगलक्षण:। ज्ञानमपि हि द्रव्यमेव। प्रभाद्रव्यस्य प्रदीपगुणभूतस्येव, ज्ञानस्याप्यात्मगुणभूतस्य द्रव्यत्वमविरुद्धमित्युक्तम्, अतो न बाह्यार्थाभाव:॥२७॥
(ज्ञानानां निरालम्बनत्ववादनिरासः)
यत्परै: स्वप्नज्ञानदृष्टान्तेन जागिरतज्ञानानामपि निरालम्बनत्वमुक्तम्; तत्राह –
२०२. वैधर्म्याच्च न स्वप्नादिवत् ॥ २–२–२८ ॥
स्वप्नज्ञानवैधर्म्याज्जागिरतज्ञानानामर्थशून्यत्वं न युज्यते वक्तुम्। स्वप्नज्ञानानि हि निद्रादिदोषदुष्टकरणजन्यानि, बाधितानि च; जागरितज्ञानानि तु तद्विपरीतानीति तेषां न तत्साम्यम्। सर्वेषां च ज्ञानानामर्थशून्यत्वे भवद्भिस्साध्योऽप्यर्थो न सिध्यति, निरालम्बनानुमान(ज्ञान)स्याप्यर्थशून्यत्वात्। तस्यार्थवत्त्वे ज्ञानत्वस्यानैकान्त्यात्सुतरां अर्थशून्यत्वासिद्धि:॥२८॥
२०३. न भावोऽनुपलब्धे: ॥ २–२–२९ ॥
न केवलस्यार्थशून्यस्य ज्ञानस्य भावस्सम्भवति; कुत:? क्वचिदप्यनुपलब्धे:। नह्यकर्तृकस्याकर्मकस्य वा ज्ञानस्य क्वचिदुपलब्धि:। स्वप्नज्ञानादिष्वपि नार्थशून्यत्वमिति ख्यातिनिरूपणे प्रतिपादितम् ॥२९॥
इति श्रीशारीरकमीमांसाभाष्ये उपलब्ध्यधिकरणम्॥४॥