श्रीशारीरकमीमांसाभाष्ये सर्वथानुपपत्त्यधिकरणम्॥५॥
(अधिकरणार्थः – माध्यमिकपक्षसङ्क्षिप्तानुवादः)
२०४. सर्वथानुपपत्तेश्च ॥ २–२–३० ॥
(पूर्वपक्षतया माध्यमिकपक्षसङ्क्षिप्तानुवादः)
अत्र सर्वशून्यवादी माध्यमिक: प्रत्यवतिष्ठते। शून्यवाद एव हि सुगतमतकाष्ठा। शिष्यबुद्धियोग्यतानुगुण्येनार्थाभ्युपगमादिना क्षणिकत्वादय उक्ता:। विज्ञानं बाह्यार्थाश्च सर्वे न सन्ति, शून्यमेव तत्त्वम्; अभावापत्तिरेव च मोक्ष इत्येव बुद्धस्याभिप्राय:। तदेव हि युक्तम्; शून्यस्याहेतुसाध्यतया स्वतस्सिद्धे: । सत एव हि हेतुरन्वेषणीय: । तच्च सत् भावादभावाच्च नोत्पद्यते; भावात्तावन्न कस्यचिदुत्पत्तिर्दृष्टा; न हि घटादिरनुपमृदिते पिण्डादिके जायते। नाप्यभावादुत्पत्तिस्सम्भवति, नष्टे पिण्डादिके ह्यभावादुत्पद्यमानं घटादिकमभावात्मकमेव स्यात्। तथा स्वत: परतश्चोत्पत्तिर्न सम्भवति, स्वत: स्वोत्पत्तावात्माश्रयदोषप्रसङ्गात्, प्रयोजनाभावाच्च। परत: परोत्पत्तौ परत्वाविशेषात्सर्वेषां सर्वेभ्य उत्पत्तिप्रसङ्ग:। जन्माभावादेव विनाशस्याप्यभाव:। अत: शून्यमेव तत्त्वम् । अतो जन्मविनाशसदसदादयो भ्रान्तिमात्रम् ।
(ब्रह्माज्ञानवादिचोद्यनिराकरणम्)
न च निरधिष्ठानभ्रमासम्भवाद्भ्रमाधिष्ठानं किञ्चित्पारमार्थिकं तत्त्वमाश्रयितव्यम्, दोषदोषाश्रयत्वज्ञातृत्वाद्यपारमार्थ्येऽपि भ्रमोपपत्तिवत् अधिष्ठानापारमार्थ्येऽपि भ्रमोपपत्ते:। अत: शून्यमेव तत्त्वम् ॥
(वेदान्तिसिद्धान्तेन सर्वशून्यवादनिरासः)
इति प्राप्त उच्यते – सर्वथानुपपत्तेश्च – इति। सर्वथानुपपत्तेस्सर्वशून्यत्वं च भवदभिप्रेतं न सम्भवति।
किं भवान् सर्वं सदिति वा प्रतिजानीते, असदिति वा, अन्यथा वा; सर्वथा तवाभिप्रेतं तुच्छत्वं न सम्भवति; लोके भावाभावशब्दयोस्तत्प्रतीत्योश्च विद्यमानस्यैव वस्तुनोऽवस्थाविशेषगोचरत्वस्य प्रतिपादितत्वात्। अतस्सर्वं शून्यमिति प्रतिजानता सर्वं सदिति प्रतिजानतेव सर्वस्य विद्यमानस्यावस्थाविशेषयोगितैव प्रतिज्ञाता भवतीति भवदभिमता तुच्छता न कुतश्चिदपि सिध्यति।
किञ्च कुतश्चित्प्रमाणाच्छून्यत्वमुपलभ्य शून्यत्वं सिषाधयिषता तस्य प्रमाणस्य सत्यत्वमभ्युपेत्यम्; तस्यासत्यत्वे सर्वं सत्यं स्यादिति सर्वथा सर्वशून्यत्वं चानुपपन्नम्॥३०॥
इति श्रीशारीरकमीमांसाभाष्ये सर्वथानुपपत्त्यधिकरणम् ॥ ५ ॥