श्रीशारीरकमीमांसाभाष्ये पशुपत्यधिकरणम्॥७॥
(अधिकरणार्थः – वेदविरुद्धाभिप्रायकपाशुपतमतनिरासः)
२०९. पत्युरसामञ्जस्यात् ॥ २–२–३५ ॥
(सङ्गतिप्रदर्शनम्)
कपिलकणादसुगतार्हातमतानामसामञ्जस्यात् वेदबाह्यत्वाच्च निश्श्रेयसार्थिभि: अनादरणीयत्वमुक्तम्; इदानीं पशुपतिमतस्य वेदविरोधादसामञ्जस्याच्चानादरणीयता उच्यते।
(पाशुपतस्य अनौचित्योपपादनतः स्वसिद्धान्तः)
तन्मतानुसारिणश्चतुर्विधा: – कापाला:, कालामुखा:, पाशुपता:, शैवाश्च – इति सर्वे चैते वेदविरुद्धां तत्त्वप्रक्रियां ऐहिकामुष्मिकनिश्श्रेयससाधनकल्पनाश्च कल्पयन्ति। निमित्तोपादानयोर्भेदं, निमित्तकारणं च पशुपतिमाचक्षते। तथा निश्श्रेयससाधनमपि मुद्रिकाषट्कधारणादिकम् । यथाहु: कापाला: – मुद्रिकाषट्कतत्त्वज्ञ: परमुद्राविशारद:। भगासनस्थमात्मानं ध्यात्वा निर्वाणमृच्छति। कण्ठिका रुचकं चैव कुण्डलं च शिखामणि:। भस्म यज्ञोपवीतं च मुद्राषट्कं प्रचक्षते ॥ आभिर्मुद्रितदेहस्तु न भूय इह जायते (शैवागम:) इत्यादिकम्। तथा कालामुखा अपि कपालपात्र-भोजनशवभस्मस्नानतत्प्राशनलगुडधारसुराकुम्भस्थापनतदाधारदेवपूजादिकं ऐहिकामुष्मिकसकल-फलसाधनमभिदधति। रुद्राक्षकङ्कणं हस्ते जटा चैका च मस्तके। कपालं भस्मना स्नानम् (शैवागम:) इत्यादि च प्रसिद्धं शैवागमेषु। तथा केनचित्क्रियाविशेषेण विजातीयानामपि ब्राह्मण्यप्राप्तिमुत्तमाश्रमप्राप्तिं चाहु: – दीक्षाप्रवेशमात्रेण ब्राह्मणो भवति क्षणात् । कापालं व्रतमास्थाय यतिर्भवति मानव: (शैवागम:) इति॥
(पाशुपतस्य अनौचित्योपपादनतः स्वसिद्धान्तः)
तत्रेदमुच्यते – पत्युरसामञ्जस्यात्- इति। नैकिस्मन्नसम्भवात् इत्यतो न इत्यनुवर्तते। पत्यु: – पशुपते; मतं नारदणीयम्; कुत:? असामञ्जस्यात्। असामञ्जस्यं च अन्योन्यव्याघातात् वेदविरोधाच्च। मुद्रिकाषट्कधारणभगासनस्थात्मध्यानसुराकुम्भ-स्थापनतत्स्थदेवतार्चनगूढाचार-श्मशानभस्मस्नानप्रणव-पूर्वाभिध्यानानि अन्योन्यविरुद्धानि ।
(वेदविरोधायत्तानौचित्योपपादनम्)
वेदविरुद्धं चेदं तत्त्वपरिकल्पनमुपासनमाचारश्च। वेदा: खलु परं ब्रह्म नारायणमेव जगन्निमित्तमुपादानं च वदन्ति – नारायण: परं ब्रह्म तत्त्वं नारायण: पर:। नारायण: परो ज्योतिरात्मा नारायण: पर: (तै.उ.नारा.१३) तदैक्षत बहु स्यां प्रजायेयेति (छां.६.२.३) सोऽकामयत बहु स्यां प्रजायेयेति (तै.उ.आन.६.२) तदात्मानं स्वयमकुरुत (तै.उ.आन.७) इत्यादय:। परब्रह्मभूतपरमपुरुषवेदनमेव च मोक्षसाधनमुपासनं वदन्ति – वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसस्तु पारे (पुरुष सू.) तमेवं विद्वानमृत इह भवति। नान्य: पन्था अयनाय विद्यते (पु.सू) इत्यादिना एकतां गतास्सर्वे वेदान्ता:,
(श्रुतिभिः मोक्षसाधनभूतोपासनाङ्गोपदेशः)
तदितिकर्तव्यताभूतं कर्म च वेदविहितवर्णाश्रमसम्बन्धि यज्ञादिकमेव वदन्ति – तमेतं वेदानुवचनेन ब्राह्मणा विवदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन (बृ.६.४.२२) इत्यादय:।
(शम्भुशिवादिशब्दानां नारायणपरत्वनिर्वाहः)
केवलपरतत्त्वप्रतिपादनपरनारायणानुवाकसिद्धतत्त्वपरा: केषुचिदुपासनादिविधिपरेषु वाक्येषु श्रुता: प्रजापतिशिवेन्द्राकाशप्रादिणाशब्दा इति शास्त्रदृष्ट्या तूपदेशो वामदेववत् (ब्र.सू.१.१.३१) इत्यत्र प्रतिपादितम्। तथा एको ह वै नारायण आसीन्न ब्रह्मा नेशान: (महोप.१.१) इत्यारभ्य स एकाकी न रमेत (महोप.१.१) इति सृष्टिवाक्योदितं स्रष्टारं नारायणमेव समानप्रकरणस्था: सदेव सोम्येदमग्रे (छां.६.२.१) इत्यादिषु साधारणा: सद्ब्रह्मात्मादिशब्दा: प्रतिपादयन्तीति जन्माद्यस्य यत: (ब्र.सू.१.१.२) इत्यत्र प्रतिपादितम्। अतो वेदविरुद्धतत्त्वोपासनानुष्ठानाभिधानात् पशुपतिमतं अनादरणीयमेव॥३५॥
(पशुपतेरीश्वरस्य निमित्तमात्रत्वानौचित्यम्)
२१०. अधिष्ठानानुपपत्तेश्च ॥ २–२–३६ ॥
वेदबाह्यानामनुमानाद्धि केवलनिमित्तेश्वरकल्पना; तथा सति दृष्टानुसारेण कुलालादिवदधिष्ठानं कर्तव्यम्; न च कुलालादेर्मृदाद्यधिष्ठानवत्पशुपतेर्निमित्तभूतस्य प्रधानाधिष्ठानमुपपद्यते, अशरीरत्वात्; सशरीराणामेव हि कुलालादीनामधिष्ठानशक्तिर्दृष्टा; न चेश्वरस्य सशरीरत्वमभ्युपगन्तव्यम्, तच्छरीरस्य सावयवस्य नित्यत्वे अनित्यत्वे च शास्त्रयोनित्वात् (ब्र.सू.१.१.३) इत्यत्र दोषस्योक्तत्वात्॥३६॥
(अशरीरस्यैव चेश्वरस्य प्रधानाधिष्ठातृत्वायोगः)
२११. करणवच्चेन्न भोगादिभ्य: ॥ २–२–३७ ॥
यथा भोक्तुर्जीवस्य करणकलेबराद्यधिष्ठानमशरीरस्यैव दृश्यते; तद्वन्महेश्वरस्याप्यशरीरस्य च प्रधानाधिष्ठानमुपपद्यत इति चेत् – न, भोगादिभ्य: पुण्यपापरूपकर्मफलभोगार्थं पुण्यपापरूपादृष्टकारितं हि तदधिष्ठानम्; तद्वत्पशुपतेरपि पुण्यपापरूपादृष्टवत्तया तत्फलभोगादिसर्वं प्रसज्येत; अतो नाधिष्ठानसम्भव: ॥३७॥
(ईश्वरस्य पुण्यपापाभ्युपगमे दोषः)
२१२. अन्तवत्त्वमसर्वज्ञता वा ॥ २–२–३८ ॥
वा शब्दश्चार्थे; पशुपते: पुण्यापुण्यरूपादृष्टवत्त्वे जीववदन्तवत्त्वं सृष्टिसंहाराद्यास्पदत्वं असर्वज्ञता च स्यादित्यनारदणीयमेवेदं मतम् ।
(अस्याधिकरणस्य जैमिनीयविरोधाधिकरणतः अगतार्थता)
विरोधे त्वनपेक्षं स्यात् (पू.मी.१.१.३) इत्यादिना वेदिवरुद्धस्यानारदणीयत्वे सिद्धेऽपि पशुपतिमतस्य वेदविरुद्धताख्यापनार्थं पत्युरसामञ्जस्यात् इति पुनरारम्भ:। यद्यपि पाशुपतशैवयोर्वेदाविरोधिन इव केचन धर्मा: प्रतीयन्ते; तथापि वेदविरुद्धनिमित्तोपादानभेदकल्पनापरावरतत्त्व- व्यत्ययकल्पनामूलत्वात् सर्वमसमञ्जसमेवेति असामञ्जस्यात् इत्युक्तम्॥३८॥
इति श्रीशारीररकमीमासाभाष्ये पशुपत्यधिकरणम्॥७॥