श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये द्वितीये अविरोधाध्याये–तृतीयः वियत्पादः
(अधिकरणानि – 7, सूत्राणि – 52)
(पादार्थः – वियदादेः प्रपञ्चस्य ब्रह्मकार्यत्वचिन्ता)
(54) वियदधिकरणम् ॥१॥
(सूत्राणि 1-9)
(अधिकरणार्थः – आकाशस्य ब्रह्मकार्यत्वचिन्ता)
२१७. न वियदश्रुते: ॥ २–३–१ ॥
(पादसङ्गतिप्रदर्शनम्)
साङ्ख्यादिवेदबाह्यतन्त्राणां न्यायाभासमूलतया विप्रतिषेधाच्चासामञ्जस्यमुक्तम्; इदानीं स्वपक्षस्य विप्रतिषेधादिदोषगन्धाभावख्यापनाय ब्रह्मकार्यतयाऽभिमतचिदचिदात्मकप्रपञ्चस्य कार्यताप्रकारो विशोध्यते।
(संशयाकारः)
तत्र वियदुत्पद्यते, न वा – इति संशय्यते।
(सयुक्तिकः पूर्वः पक्षः)
किं युक्तम्? न वियदुत्पद्यत इति। कुत:? अश्रुते:; संभावितस्य हि श्रवणसंभव:; असंभावितस्य तु गगनकुसुमवियदुत्पत्त्यादे: शब्दाभिधेयत्वं न संभवति। न खलु निरवयवस्य सर्वगतस्याकाशस्य आत्मन इवोत्पत्तिर्निरूपयितुं शक्यते ॥
(पूर्वपक्षनिर्वाहः, उत्पत्तिश्रुतेरर्थविरोधश्च)
अत एव उत्पत्त्यसंभवात् छान्दोग्ये सृष्टिप्रकारे तेज:प्रभृतीनामेवोत्पत्तिराम्नायते – तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत (छा.६-२-३) इति। तैत्तरीयकाथर्वणादिषु तस्माद्वा एतस्मादात्मन आकाशस्संभूत: (तै.आन.१.अनु) एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च खं वायुर्ज्योतिराप: (मु.२-१-३) इत्यादिषु श्रूयमाणा वियदुत्पत्ति: अर्थविरोधाद्बाध्यत इति॥१॥
(श्रुत्या वियदुत्पत्तेस्सिद्धान्तः)
एवं प्राप्तेऽभिधीयते –
२१८. अस्ति तु ॥ २–३–२ ॥
अस्ति तु आकाशस्योत्पत्ति:; अतीन्द्रियार्थविषया हि श्रुति: प्रमाणान्तराप्रतीतामपि वियदुत्पत्तिं प्रतिपादयितुं समर्थैव। न च श्रुतिप्रतिपन्नेऽर्थे तद्विरोधि निरवयवत्वादिहेतुकं अनुत्पत्त्यनुमानमुदेतुं अलम्; आत्मनोऽनुत्पत्तिर्न निरवयवत्वप्रयुक्तेति वक्ष्यते ॥२॥
(आकाशोत्पत्तिश्रुतेः गौणत्वशङ्का)
पुनश्चोदयति –
२१९. गौण्यसम्भवाच्छब्दाच्च ॥ २–३–३ ॥
तस्माद्वा एतस्मादात्मन आकाशस्संभूत: (तै.उ.आन.१.अनु) इत्यादिवियदुत्पत्तिश्रुतिर्गौणीति कल्पयितुं युक्तम्, तत्तेजोऽसृजत (छा.६.२.३) इति सिसृक्षो: ब्रह्मण: प्रथमं तेज उत्पद्यत इति तेज उत्पत्तिप्राथम्येन वियदुत्पत्तिप्रतिपादनासम्भवात्, वायुश्चान्तरिक्षं चैतदमृतम् (बृ.४.३.३) इति वियतोऽमृतत्वशब्दाच्च॥३॥
(‘सम्भूत’ शब्दस्यैकस्य आकाशांशे गौणत्वस्य अग्न्यंशे मुख्यतायाश्चानुपपत्तिः)
कथमेकस्य संभूतशब्दस्य आकाशापेक्षया गौणत्वम्, अग्न्याद्यपेक्षया मुख्यत्वमिति चेत् तत्राह –
२२०. स्याच्चैकस्य ब्रह्मशब्दवत्।२–३–४॥
एकस्यैव तस्माद्वा एतस्मादात्मन आकाशस्संभूत: (तै.उ.आन.१) इत्याकाशे मुख्यत्वासंभवात् गौणतया प्रयुक्तस्य सम्भूतशब्दस्य वायोरग्नि: (तै.उ.आन.१) इत्यादिष्वनुषक्तस्य मुख्यत्वं स्यादेव; ब्रह्मशब्दवत् – यथा ब्रह्मशब्द:, तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते (मु.१.१.९) इत्यत्र प्रधाने गौणतया प्रयुक्तस्तस्मिन्नेव प्रकरणे तपसा चीयते ब्रह्म ततोऽन्नमभिजायते (मु.१.१.८) इति ब्रह्मणि मुख्यतया प्रयुज्यते; तद्वत्। अनुषङ्गे च श्रवणावृत्ताविवाभिधानावृत्तिर्विद्यत एवेत्यर्थ:॥४॥
(वियदनुत्पत्तिशङ्कायाः परिहारः)
परिहरति –
२२१. प्रतिज्ञाहानिरव्यतिरेकात् ॥ २–३–५ ॥
छान्दोग्यश्रुत्यनुसारेणान्यासां वियदुत्पत्तिवादिनीनां श्रुतीनां गौणत्वं कल्पयियतुं न युज्यते, यत: छान्दोग्यश्रुत्यैव वियदुत्पत्तिरङ्गीकृता, येनाश्रुतं श्रुतम् (छा.६.१.३) इत्यादिना ब्रह्मविज्ञानेन सर्वविज्ञान-प्रतिज्ञानात्। तस्या हि प्रतिज्ञाया: अहानिराकाशस्यापि ब्रह्मकार्यत्वेन तदव्यतिरेकादेव भवति॥४॥
(छान्दोग्यश्रुतितः आकाशोत्पत्तिप्रतीतिः)
२२२. शब्देभ्य: ॥ २–३–६॥
इतश्च वियदुत्पत्ति: छान्दोग्ये प्रतीयते, सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् (छा.६.२.१) इति प्राक्सृष्टेरेकेत्वावधारणशब्दात्; ऐतदात्म्यमिदं सर्वम् (छा.६.८.७) इत्येवमादिशब्देभ्यश्च कार्यत्वेन ब्रह्मणोऽव्यतिरेकप्रतीते:। नच तत्तेजोऽसृजत (छा.६.२.३) इति तेजस उत्पत्तिश्रुतिर्वियदुत्पत्तिं वारयति। वियदुत्पत्यवचनमात्रेण तेजस: प्रतीयमानं प्राथम्यं श्रुत्यन्तरप्रतिपन्नां वियदुत्पत्तिं न निवारियतुमलम्॥६॥
(सर्वस्यापि कार्यताश्रुत्या आकाशस्यापि कार्यत्वावश्यंभावः)
२२३. यावद्विकारन्तु विभागो लोकवत् ॥ २–३–७॥
तुशब्दाश्चार्थे, एैतदात्म्यमिदं सर्वम् (छां.६.८.७) इत्यादिभिराकाशस्य विकारत्ववचनेन तस्याकाशस्य ब्रह्मणो विभाग: उत्पत्तिरप्युक्तैव। लोकवत् – यथा लोके एते सर्वे देवदत्तपुत्रा इत्यभिधाय तेषु केषाञ्चित्तत उत्पत्तिवचनेन सर्वेषामुत्पत्तिरुक्ता स्यात्, तद्वत्। एवं व सति वायुश्चान्तिरक्षञ्चैतदमृतम् (बृ.४.३.३) इति सुराणामिव चिरकालस्थायित्वाभिप्रायम्॥७॥
(आकाशोत्पत्तिसिद्ध्या वायूत्पत्तेरुक्तप्रायता)
२२४. एतेन मातिरश्वा व्याख्यात:॥ २–३–८ ॥
अनेनैव हेतुना मातरिश्वनो वायोरप्युत्पत्तिर्व्याख्याता। वियन्मातिरश्वनो: पृथग्योगकरणं तेजोऽतस्तथाह्याह (ब्र.सू.२.३.१०) इति मातरिश्वपरामर्शार्थम्॥८॥
(उत्पत्तेरभावः ब्रह्ममात्रवृत्तिता)
२२५. असम्भवस्तु सतोऽनुपपत्ते: ॥ २–३–९ ॥
तुशब्दोऽवधारणार्थ:; असम्भव: – अनुत्पत्ति:। सत: – ब्रह्मण एव; तद्व्यतिरिक्तस्य कस्यचिदप्यनुत्पत्तिर्न सम्भवति, अनुपपत्ते:। एतदुक्तं भवति – वियन्मातिरश्वनोरुत्पत्तिप्रतिपादनं उदाहरणार्थम्; उत्पत्त्यसम्भवस्तु सत: परमकारणस्य परस्यैव ब्रह्मण: । तद्व्यतिरिक्तस्य कृत्स्नस्याव्यक्तमहदहङ्कारतन्मात्रेन्द्रियवियत्पवनादिकस्य प्रपञ्चस्यैकविज्ञानेन सर्वविज्ञान-प्रतिज्ञादिभिरवगतकार्यभावस्यानुत्पत्तिर्नोपपद्यत इति॥९॥
इति श्रीशारीरकमीमांसाभाष्ये वियदधिकरणम्॥१॥