श्रीशारीरकमीमांसाभाष्ये अंशाधिकरणम्॥७॥
(अधिकरणार्थः – जीवात्मनः परमात्मनः अंशभूताः इति साधनम्)
२५८. अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके॥ २–३–४२॥
(अवान्तरसङ्गतिः अधिकरणीयः संशयश्च)
जीवस्य कर्तृत्वं परमपुरुषायत्तमित्युक्तम्; इदानीं किमयं जीव: परस्मादत्यन्तभिन्न:, उत परमेव ब्रह्म भ्रान्तम्, उत ब्रह्मैवोपाध्यवच्छिन्नम्, अथ ब्रह्मांश इति संशय्यते; श्रुतिविप्रतिपत्तेस्संशय:।
(अधिकरणस्य पौनरुक्त्यशङ्का – परिहारौ)
ननु तदनन्यत्वमारम्भणशब्दादिभ्य: (शारी.२.१.१५) अधिकं तु भेदनिर्देशात् (शारी.२.१.२२) इत्यत्रैवायमर्थो निर्णीत:।
सत्यम्, स एव नानात्वैकत्वश्रुतिविप्रतिपत्त्या आक्षिप्य जीवस्य ब्रह्मांशत्वोपपादनेन विशेषतो निर्णीयते; यावद्धि जीवस्य ब्रह्मांशत्वं न निर्णीतम्, तावज्जीवस्य ब्रह्मणोऽनन्यत्वं, ब्रह्मणस्तस्मादधिकत्वं च न प्रतितिष्ठति।
(हेतूपन्यासपूर्वकः पूर्वपक्षः)
किं तावत्प्राप्तम्? अत्यन्तभिन्न इति; कुत:? ज्ञाज्ञौ द्वावजावीशनीशौ (श्वे.१.९) इत्यादिभेदनिर्देशात् । ज्ञाज्ञयोरभेदश्रुतयस्तु अग्निना सिञ्चेत् इति विरुद्धार्थप्रतिपादनादौपचारिक्य:।
(अधिकरणद्वयार्थनिगमनम्)
ब्रह्मणोंऽशो जीव इत्यपि न साधीय:, एकवस्त्वेकदेशवाची ह्यंशशब्द:, जीवस्य ब्रह्मैकदेशत्वे तद्गता दोषा ब्रह्मणि भवेयु: ।
न च ब्रह्मखण्डो जीव इत्यंशत्वोपपत्ति:, खण्डनानर्हात्वाद्ब्रह्मण: प्रागुक्तदोषप्रसङ्गाच्च। तस्मादत्यन्तभिन्नस्य च तदंशत्वं दुरुपपादम्।
(ब्रह्माज्ञानवादेन पूर्वपक्षः सप्रमाणः)
यद्वा भ्रान्तं ब्रह्मैव जीव:, कुत: तत्वमसि (छां.६.१०.३) अयमात्मा ब्रह्म (बृ.६.४.५) इत्यादिब्रह्मात्मभावोपदेशात् । नानात्ववादिन्यस्तु प्रत्यक्षादिसिद्धार्थानुवादित्वात् अनन्यथासिद्ध-अद्वैतोपदेशपराभि: श्रुतिभि: प्रत्यक्षादय इवाविद्यान्तर्गता: ख्याप्यन्ते ।
(उपहितब्रह्मणो जीवत्ववादेन पूर्वः पक्षः)
अथवा ब्रह्मैवानाद्युपाध्यवच्छिन्नं जीव: । कुत:, तत एव ब्रह्मात्मभावोपदेशात्। नचायमुपाधिर्भ्रान्तिपरिकल्पित इति वक्तुं शक्यम्, बन्धमोक्षादिव्यवस्थानुपपत्ते: – इति॥
(सूत्रार्थवर्णनतः सिद्धान्तः)
एवं प्राप्तेऽभिधीयते ब्रह्मांश इति। कुत:? नानाव्यपदेशात्, अन्यथा च – एकत्वेन व्यपदेशात्। उभयधा हि व्यपदेशो दृश्यते। नानात्वव्यपदेशस्तावत्स्रष्टृत्व सृज्यत्वनियन्तृत्वनियाम्यत्वसर्वज्ञत्वाज्ञत्वस्वाधीनत्वपराधीनत्वशुद्धत्वाशुद्धत्वकल्याणगुणाकरत्व तद्विपरीतत्वपतित्वशेषत्वादिभिर्दृश्यते । अन्यथा च अभेदेन व्यपदेशोऽपि तत्त्वमसि (छा.६.१०.३) अयमात्मा ब्रह्म (बृ.६.४.५) इत्यादिभिर्दृश्यते। अपि दाशकितवादित्वमधीयत एके । ब्रह्मदाशाब्रह्मदासा ब्रह्मेमे कितवा: (आथ.सं.उ) इत्याथर्वणिका ब्रह्मणो दाशकितवादित्वमप्यधीयते। ततश्च सर्वजीवव्यापित्वेनाभेदो व्यपदिश्यत इत्यर्थ:। एवमुभयव्यपदेशमुख्यत्वसिद्धये जीवोऽयं ब्रह्मणोंऽश इत्यभ्युपगन्तव्य:।
(भेदव्यपदेशानामन्यथासिद्धत्वशङ्कापरिहारौ)
न च भेदव्यपदेशानां प्रत्यक्षादिप्रसिद्धार्थत्वेनान्यथासिद्धत्वम्, ब्रह्मसृज्यत्वतन्नियाम्यत्व-तच्छरीरत्वतच्छेषत्वतदाधारत्वतत्पाल्यत्वतत्संहार्यत्वतदुपासकत्वतत्प्रसादलभ्यधर्मार्थकाममोक्षरूप-पुरुषार्थभाक्त्वादयस्तत्कृतश्च जीवब्रह्मणोर्भेद:, प्रत्यक्षाद्यगोचरत्वेनानन्यथासिद्ध:। अतो न जगत्सृष्ट्यादिवादिनीनां प्रमाणान्तरसिद्धभेदानुवादेन मिथ्यार्थोपदेशपरत्वम् ।
(शास्त्रस्य भेदभ्रमोपदेशपरत्वानुपपत्तिः)
न चाखण्डैकरसचिन्मात्रस्वरूपेण ब्रह्मणा आत्मनोऽतद्भावानुसन्धानम्, बहुभवन-सङ्कल्पपूर्वकवियदादिसृष्टिं, जीवभावेन तत्प्रवेशं, विचित्रनामरूपव्याकरणं, तत्कृतानन्त-विषयानुभवनिमित्तसुखदु:खभागित्वम्, अभोक्तृत्वेन तत्र स्थित्वा तन्नियमनेनान्तर्यामित्वं, जीवभूतस्य स्वस्य कारणब्रह्मात्मभावानुसन्धानं, संसारमोक्षं, तदुपदेशशास्त्रं च कुर्वाणेन भ्रमितव्यमित्युपदिश्यते, तथा सत्युन्मत्तप्रलपितत्वापातात् ।
(उपहितब्रह्मजीववादस्य निरासः)
उपाध्यवच्छिन्नं ब्रह्म जीव इत्यपि न साधीय., पूर्वनिर्दिष्टनियन्तृत्वनियाम्यत्वादि-व्यपदेशबाधादेव। न हि देवदत्तादेरेकस्यैव गृहाद्युपाधिभेदान्नियन्तृनियाम्यभावादिसिद्धि: । अत उभयव्यपदेशोपपत्तये जीवोऽयं ब्रह्मणोंऽश इत्यभ्युपेत्यम्॥४२॥
(जीवस्य ब्रह्मांशतायाः श्रुतिकण्ठोक्तिसिद्धता)
२५९. मन्त्रवर्णात् ॥ २–३–४३ ॥
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि (पु.सू.) इति मन्त्रवर्णाच्च ब्रह्मणोंऽशो जीव: । अंशवाची हि पादशब्द:। विश्वाभूतानि (पु.सू.) इति जीवानां बहुत्वाद्बहुवचनं मन्त्रे । सूत्रेऽपि अंश इत्येकवचनं जात्यभिप्रायम्। नात्माश्रुते: (शारी.२.३.१८) इत्यत्राप्येकवचनं जात्यभिप्रायम्, नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् (श्वे.६.१३) इत्यादि श्रुतिभ्य ईश्वराद्भेदस्यात्मनां बहुत्वनित्यत्वयोश्चाभिधीयमानत्वात् ।
(आत्मसु भेदकाकारावगन्तारः)
एवं नित्यानामात्मनां बहुत्वे प्रामाणिके सति ज्ञानस्वरूपत्वेन सर्वेषामेकरूपत्वेऽपि भेदकाकार: आत्मयाथात्म्यवेदनक्षमै: अवगम्यते । असन्ततेश्चाव्यतिकर: (शारी.२.३.७) इत्यनन्तरमेव चात्मबहुत्वं वक्ष्यति॥४३॥
(उक्तार्थस्य स्मृतिकण्ठोक्तिसिद्धता)
२६०. अपि स्मर्यते ॥ २–३–४४ ॥
ममैवांशो जीवलोके जीवभूतस्सनातन: (भ.गी.१५.७) इति जीवस्य पुरुषोत्तमांशत्वं स्मर्यते; अतश्चायमंश:॥ ४४॥
(ब्रह्मणि जीवांशित्वकृतजीवदोषाश्रयत्वप्रसङ्गवारणम्)
अंशत्वेऽपि जीवस्य ब्रह्मैकदेशत्वेन जीवगता दोषा ब्रह्मण एवेत्याशङ्क्याह –
२६१. प्रकाशादिवत्तु नैवं पर: ॥ २–३–४५ ॥
तु शब्दचोद्यं व्यावर्तयति, प्रकाशादिवज्जीव: परमात्मनोंऽश: यथाऽग्न्यादित्यादे: भास्वतो भारूप: प्रकाशोंऽशो भवति, यथा गवाश्वशुक्लकृष्णादीनां गोत्वादिविशष्टानां वस्तूनां गोत्वादीनि विशेषणान्यंशा:, यथा वा देहिनो देवमनुष्यादिर्देहोंऽश: तद्वत्।
(परिष्कृतम् अंशत्वम्, प्रकृतोपयोगश्च)
एकवस्त्वेकदेशत्वं ह्यंशत्वम् । विशिष्टस्यैकस्य वस्तुनो विशेषणमंश एव। तथा च विवेचका: विशिष्टे वस्तुनि विशेषणांशोऽयम्, विशेष्यांशोऽयमिति व्यपदिशन्ति। विशेषणविशेष्ययोरंशांशित्वेऽपि स्वभाववैलक्षण्यं दृश्यते।
(भेदाभेदव्यपदेशयोः विषयविवेकः)
एवं जीवपरयोर्विशेषण-विशेष्ययोरंशांशित्वेऽपि स्वभावभेदश्चोपपद्यते। तदिदमुच्यते – नैवं पर इति। यथाभूतो जीव:, न तथाभूत: पर:। यथैव हि प्रभाया: प्रभावानन्यथाभूत: तथा प्रभास्थानीयात् स्वांशाज्जीवादंशी परोऽप्यर्थान्तरभूत इत्यर्थ:। एवं जीवपरयोर्विशेषणविशेष्यत्वकृतं स्वभाववैलक्षण्यमाश्रित्य भेदनिर्देशा: प्रवर्तन्ते; अभेदनिर्देशास्तु पृथिक्सिद्ध्यनर्हाविशेषणानां विशेष्यपर्यन्तत्वमाश्रित्य मुख्यत्वेनोपपद्यन्ते। तत्त्वमसि (छा.६.१०.३) अयमात्मा ब्रह्म (बृ.६.४.५) इत्यादिषु, तच्छब्दब्रह्मशब्दवत् त्वमयमात्मेतिशब्दा अपि जीवशरीरकब्रह्मवाचकत्वेन एकार्थाभिधायित्वात् इत्ययमर्थ: प्रागेव प्रपञ्चित: ॥ ४५॥
(उक्तस्यांशांशिभावस्य स्मृतितो लाभः)
२६२. स्मरन्ति च ॥ २–३–४६ ॥
एवं प्रभाप्रभावद्रूपेण शक्तिशक्तिमद्रूपेण शरीरात्मभावेन चांशाशिभावं जगद्ब्रह्मणो: पराशरादय: स्मरन्ति एकदेशस्थितस्याग्नेर्ज्योत्स्ना विस्तारिणी यथा। परस्य ब्रह्मणश्शक्तिस्तथेदमखिलं जगत् (वि.पु.१.२२.५६) यत्किञ्चित्सृज्यते येन सत्त्वजातेन वै द्विज। तस्य सृज्यस्य सम्भूतौ तत्सर्वं वै हरेस्तनु: (वि.पु.१.२२.३८) इत्यादिना। चकराच्छ्रुतयोऽपि यस्यात्मा शरीरम् (बृ.५.७.२२) इत्यादिना आत्मशरीरभावेनांशांशित्वं वदन्तीत्युच्यते॥४६॥
(ब्रह्मांशत्वाविशेषेऽपि अधिकारादितारतम्ये युक्तिः)
एवं ब्रह्मणोंऽशत्वे, ब्रह्मप्रवर्त्यत्वे, ज्ञत्वे च सर्वेषां समाने केषाञ्चिद्वेदाध्ययनतदर्थानुष्ठानाद्यनुज्ञा, केषांचित्तत्परिहार:, केषांचिद्दर्शनस्पर्शनाद्यनुज्ञा, केषांचित्तत्परिहारश्च, शास्त्रेषु कथमुपपद्यत इत्याशङ्क्याह-
२६३. अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॥ २–३–४७ ॥
सर्वेषां ब्रह्मांशत्वज्ञत्वादिनैकरूपत्वे सत्यपि ब्राह्मणक्षत्रियवैश्यशूद्रादिरूपशुच्यशुचिदेह-सम्बन्धनिबन्धनावनुज्ञापरिहारावुपपद्येते; ज्योतिरादिवत् – यथाग्नेरग्नित्वेन एकरूपत्वेऽपि श्रोत्रियागारादग्निराह्रियते; श्मशानादेस्तु परिह्रियते; यथा चान्नादि श्रोत्रियादेरनुज्ञायते; अभिशस्तादेस्तु परिह्रियते॥४७॥
(जीवेषु ब्रह्मांशत्वनिबन्धनभोगसाङ्कर्यानवकाशः)
२६४. असन्ततेश्चाव्यितकर:॥ २–३–४८ ॥
ब्रह्मांशत्वादिनैकरूपत्वे सत्यपि जीवानामन्योन्यभेदादणुत्वेन प्रतिशरीरं भिन्नत्वाच्च भोगव्यतिकरोऽपि न भवति। भ्रान्तब्रह्मजीववादे चोपहितब्रह्मजीववादे च जीवपरयोर्जीवानां च भोगव्यतिकरादयस्सर्वे दोषास्सन्तीत्यभिप्रायेण स्वपक्षे भोगव्यतिकराभाव उक्त:॥ ४८॥
(ब्रह्माज्ञानवादे भोगव्यवस्थाया अभावः)
ननु भ्रान्तब्रह्मजीववादेऽप्यविद्याकृतोपाधिभेदाद्भोगव्यवस्थादय उपपद्यन्ते; अत आह –
२६५. आभास एव च ॥ २–३–४९ ॥
अखण्डैकरसप्रकाशमात्रस्वरूपस्य स्वरूपतिरोधानपूर्वकोपाधिभेदोपपादनहेतुराभास एव । प्रकाशैकस्वरूपस्य प्रकाशतिरोधानं प्रकाशनाश एवेति प्रागेवोपपादितम्।आभासा एव इति वा पाठ:; तथा सति हेतव आभासा:, चकारात् पृथगात्मानं प्रेरितारं च मत्वा (श्वेत.१.६) ज्ञाज्ञौ द्वौ (श्वे.१.६.९) तयोरन्य: पिप्पलं स्वाद्वत्ति (श्वे.४.६) इत्यादिश्रुतिविरोधश्च । अविद्यापरिकल्पितोपाधिभेदेऽपि सर्वोपाधिभिरुपहितस्वरूपस्यैकत्वाभ्युपगमात् भोगव्यतिकरः तदवस्थ एव॥४९॥
(सत्वोपाध्युपहितब्रह्मजीववादेऽप्यव्यवस्था)
पारमार्थिकोपाध्युपहितब्रह्मजीववादेऽप्युपाधिभेदहेतुभूतानाद्यदृष्टवशाद्व्यवस्था भविष्यति इत्याशङ्क्याह-
२६६. अदृष्टानियमात्॥ २–३–५० ॥
उपाधिपरम्पराहेतुभूतस्यादृष्टस्यापि ब्रह्मस्वरूपाश्रयत्वेन नियमहेत्वभावादव्यवस्थैव, उपाधिभिरदृष्टैश्च स्वसम्बन्धेन ब्रह्मस्वरूपच्छेदासम्भवात् ॥५॥
(अदृष्टहेतुभूतसङ्कल्पव्यवस्थयाऽपि भोगव्यवस्थाया असिद्धिः)
२६७. अभिसन्ध्यादिष्वपि चैवम् ॥ २–३–५१ ॥
अदृष्टहेतुभूताभिसन्ध्यादिष्वप्युक्तादेव हेतोरनियम एव ॥५१॥
(उपाधिप्रदेशकृतभोगव्यवस्थानिरासः)
२६८. प्रदेशभेदादिति चेन्नान्तर्भावात् ॥ २–३–५२ ॥
यद्यप्येकमेव ब्रह्मस्वरूपम्, तच्छेदनार्हं नानाविधोपाधिभिस्सम्बध्यते – तथाप्युपाधि-सम्बन्धिब्रह्मप्रदेशभेदादुपपद्यत एव भोगव्यवस्थेति चेत् – तन्न, उपाधीनां तत्र तत्र गमनात्सर्वप्रदेशानां सर्वोपाध्यन्तर्भावात् व्यतिकरस्तदवस्थ एव। प्रदेशभेदेन सम्बन्धेऽपि सर्वस्य ब्रह्मप्रदेशत्वात्तत्तत्प्रदेशसम्बन्धि दु:खं ब्रह्मण एव स्यात्। पूर्वत्र नित्योपलब्ध्यनुपलब्धि-प्रसङ्गोऽन्यतरिनयमो वाऽन्यथा (शरी.२.३.३२) उपलब्धिवदनियम: (ब्र.सू.२.३.३६) इत्याभ्यां सूत्राभ्यां वेदबाह्यानां सर्वगतजीववादिनां दोष उक्त:; अत्र तु आभास एव च (ब्र.सू.२.३.४९) इत्यादिभिस्सूत्रै: वेदावलम्बिनामात्मैकत्ववादिनां दोष उच्यते॥
इति श्रीशारीरकमीमांसाभाष्ये अंशाधिकरणम्॥७॥
इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये द्वितीयस्याध्यायस्य तृतीय:पाद:॥३॥