श्रीभगवद्रामानुजविरचते श्रीशारीरकमीमांसाभाष्ये
द्वितीये अविरोधाध्याये चतुर्थः प्राणपाद: ॥
(पादार्थः – प्राणादीनां जीवोपकरणानां ब्रह्मकार्यत्वचिन्ता)
प्राणोत्पत्त्यधिकरणम्॥१॥
(अधिकरणार्थः – प्राणशब्दवाच्यानामिन्द्रियाणामपि वियदादिवत् ब्रह्मकार्यता)
२६९. तथा प्राणा: ॥ २–४–१ ॥
(पादसङ्गतिप्रदर्शनम्)
ब्रह्मव्यतिरिक्तस्य वियदादे: कृत्स्नस्य कार्यत्वेनोत्पत्तावुक्तायां जीवस्य कार्यत्वेऽपि स्वरूपान्यथाभावलक्षणोत्पत्तिरपोदिता; तत्प्रसङ्गेन जीवस्वरूपं शोधितम् ॥
सम्प्रति जीवोपकरणानामिन्द्रियाणां प्राणस्य चोत्पत्त्यादिप्रकारो विशोध्यते ।
(विचाराङ्गसंशयस्वरूपम्)
तत्र किमिन्द्रियाणां कार्यत्वं जीववत्; उत वियदादिवदिति चिन्त्यते ।
(अधिकरणद्वयार्थनिगमनम्)
किं युक्तम्? जीववदेवेत्याह पूर्वपक्षी तथा प्राणा: – इति। प्राणा: – इन्द्रियाणि । यथा जीवो नोत्पद्यते; तथेन्द्रियाण्यपि नोत्पद्यन्ते। कुत:?
श्रुते:। यथा जीवस्यानुत्पत्ति: श्रुतेरवगम्यते; तथा प्राणानामप्यनुत्पत्ति: श्रुतेरेवावगम्यते। तथा प्राणा इति प्रमाणमप्यतिदिश्यते ॥
(अतिदेशतः सिद्धरूपं श्रुतिप्रमाणम्)
का पुनरत्र श्रुति:? असद्वा इदमग्र आसीत् । तदाहु: किं तदासीदिति ऋषयो वा व ते अग्रे सदासीत् तदाहु: के ते ऋषय इति प्राणा वा व ऋृषय: (शत.६.१.१) इति जगदुत्पत्ते: प्रागिन्द्रियाणां सद्भाव: श्रूयते। प्राणशब्दे बहुवचनादिन्द्रियाण्येवेति निश्चीयते।
(श्रुतेः अन्यथानेयत्वशङ्का-परिहारौ)
न चेयं श्रुति: वायुश्चान्तिरक्षं चैतदमृतम् (बृ.४.३.३) सैषाऽनस्तमिता देवता यद्वायु: (शतपथ.६.१.१) इतिवच्चिरकालावस्थायित्वेन परिणेतुं शक्या, असद्वा इदमग्र आसीत् (छां.६.२.१) इति कृत्स्नप्रपञ्चप्रलयवेलायामपि अवस्थितत्वश्रवणात्। उत्पत्तिवादिन्यस्तु जीवोत्पत्तिवादिन्य इव नेतव्या इति॥
(अधिकरणीयः सिद्धान्तः)
एवं प्राप्तेऽभिधीयते – वियदादिवदेव प्राणाश्चोत्पद्यन्ते; कुत:? सदेव सोम्येदमग्र आसीत् (छा.६.२.१) आत्मा वा इदमेक एवाग्र आसीत् (ऐ.१.१.१.१) इत्यादिषु प्राक्सृष्टेरेकत्वावधारणात्, एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च (मु.२.१.३) इतीन्द्रियाणामुत्पत्तिश्रवणाच्च, प्रागवस्थानासम्भवात् ॥
(इन्द्रियोत्पत्तिवादस्य आत्मोत्पत्तिवादवैषम्यम्)
न चात्मोत्पत्तिवादवदिन्द्रियोत्पत्तिवादा: परिणेतुं शक्या:, आत्मवदुत्पत्तिप्रतिषेधश्रुतीनां नित्यत्वश्रुतीनां चादर्शनात् ॥
(असद्वा इति प्रस्तुतस्य वाक्यस्य परमात्मपरता)
असद्वा इदमग्र आसीत् (शत.६.१.९) इत्यादिवाक्येऽपि प्राणशब्देन परमात्मैव निर्दिश्यते। सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते (छा.१.११.५) इति प्राणशब्दस्य परमात्मन्यपि प्रसिद्धे:। प्राणा वा व ऋषय: (शत.६.१.१) इति ऋषिशब्दश्च सर्वज्ञे तस्मिन्नेव युज्यते। न त्वचेतनेष्विन्द्रियेषु॥१॥
(प्राणर्षिशब्दयोः परमात्मपरत्वे बहुवचनविरोधशमनम्)
ऋषय:, प्राणा इति च बहुवचनश्रुति: कथमुपपद्यत इति चेत् तत्राह;
२७०. गौण्यसम्भवात्तत्प्राक्छ्रुतेश्च ॥ २–४–२ ॥
बहुवचनश्रुतिर्गौणी, बह्वर्थासम्भवात्, तस्यैव परमात्मन: सृष्टे: प्रागवस्थानश्रुतेरेव॥२॥
(प्राणशब्दस्य परमात्मपरत्वे उपष्टम्भकम्)
२७१. तत्पूर्वकत्वाद्वाच: ॥ २–४–३ ॥
इतश्च प्राणशब्द: परमात्मवचन:; वाच: – परमात्मव्यतिरिक्तविषयस्य नामधेयस्य वाग्विषयभूतवियदादिसृष्टिपूर्वकत्वात्। तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत (बृ.३.४.७) इति नामरूपभाजामभावात्तदानीं वागादीन्द्रियकार्याभावाच्च तानि न सन्तीत्यर्थ:॥३॥
इति श्रीशारीरकमीमांसाभाष्ये प्राणोत्पत्त्यधिकरणम्॥ १॥