श्रीशारीरकमीमांसाभाष्ये ज्योतिराद्यधिष्ठानाधिकरणम्॥६॥
(अधिकरणद्वयार्थनिगमनम्)
२८१. ज्योतिराद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात् ॥ २–४–१३ ॥
(अधिकरणद्वयार्थनिगमनम्)
सश्रेष्ठानां प्राणानां ब्रह्मण उत्पत्तिरियत्तापरिमाणं चोक्तम्; तेषां प्राणानामग्न्यादिदेवताधिष्ठितत्वं च पूर्वमेव अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् (शारी.२.१.५) इत्यनेन सूत्रेण प्रसङ्गादुपपादितम्; जीवस्य च स्वभोगसाधनानामेषामधिष्ठातृत्वं लोकसिद्धम्, एवमेवैष एतान् प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते (बृ.४.१.१८) इत्यादिश्रुतिसिद्धं च।
(प्रकृतोपयोगी संशयः, पूर्वपक्षश्च)
तदिदं जीवस्याग्न्यादिदेवतानां च प्राणविषयमधिष्ठानं किं स्वायत्तम्; उत परमात्मायत्तमिति विषये नैरपेक्ष्यात्स्वायत्तम् ॥
(सिद्धान्तमुखेन सूत्रार्तवर्णनम्)
इति प्राप्त उच्यते – ज्योतिराद्यधिष्ठानमिति । प्राणवता – जीवेन सह ज्योतिरादीनामग्न्यादिदेवतानां प्राणविषयमधिष्ठानम्, तदामननात् – तस्य परमात्मन: आमननाद्भवति । आमननम् – आभिमुख्येन मननम्, परमात्मनस्सङ्कल्पादेव भवतीत्यर्थ:। कुत एतत्? शब्दात् – इन्द्रियाणां साभिमानिदेवतानां जीवात्मनश्च स्वकार्येषु परमपुरुषमननायत्तत्त्वशास्त्रात्। यथाऽन्तर्यामिब्राह्मणादिषु योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद यस्याग्निश्शरीरं योऽग्निमन्तरो यमयति स त आत्माऽन्तर्याम्यमृत: (बृ.५.७.५) यो वायौ तिष्ठन् (बृ.५.७.५) य आदित्ये तिष्ठन् (बृह.५.७.५) य आत्मनि तिष्ठन् (बृह.५.७.५) यश्चक्षुषि तिष्ठन् (बृह.५.७.५) इत्यादि। यथा च भीषाऽस्माद्वात: पवते भीषोदेति सूर्य:। भीषाऽस्मादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चम: (तै.आन.८.१) इति । तथा एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत: (बृ.५.८.९) इत्यादि ॥१३॥
(सर्वेषां परमात्माधिष्ठितत्वनैयत्यम्)
२८२. तस्य च नित्यत्वात् ॥ २–४–१४ ॥
सर्वेषां परमात्माधिष्ठितत्वस्य नित्यत्वात्, स्वरूपानुबन्धित्वेन नियतत्वाच्च तत्सङ्कल्पादेवैषामधिष्ठातृत्वमवर्जनीयम्। तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्च त्यच्चाभवत् (तै.उ.आन.६-२-३) इत्यादिना परमपुरुषस्य नियन्तृत्वेन सर्वचिदचिद्वस्त्वनुप्रवेश: स्वरूपानुबन्धी श्रूयते; स्मर्यते च विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् (भ.गी.१०.४२) इति ॥१४॥
इति श्रीशारीरकमीमांसाभाष्ये ज्योतिराद्यधिष्ठानाधिकरणम् ॥६॥