श्रीशारीरकमीमांसाभाष्ये श्रेष्ठाणुत्वाधिकरणम्॥५॥
(अधिकरणार्थः – मुख्यप्राणस्याप्यणुत्वमेव, न विभुत्वम्)
२८०. अणुश्च ॥ २–४–१२ ॥
अणुश्चायम्, पूर्ववदुत्क्रान्त्यादिश्रवणात् तमुत्क्रामन्तं प्राणोऽनूत्क्रामति (बृ.३.५.३) इत्यादिषु। अधिकाशङ्का तु सम एभिस्त्रिभिर्लोकैस्समोऽनेन सर्वेण (बृ.३.३.२२) प्राणे सर्वं प्रतिष्ठितम्, सर्वं हीदं प्राणेनावृतम् इत्यादिश्रवणात् महापरिमाण इति॥१२॥
परिहारस्तु – उत्क्रान्त्यादिश्रवणात्परिच्छिन्नत्वे निश्चिते सर्वस्य प्राणिजातस्य प्राणायत्तस्थितित्वेन वैभववादोपपत्ति: – इति॥१२॥
इति श्रीशारीरकमीमांसाभाष्ये श्रेष्ठाणुत्वाधिकरणम्॥ ५॥