श्रीशारीरकमीमांसाभाष्ये इन्द्रियाधिकरणम्॥७॥
(अधिकरणार्थः – श्रेष्ठप्राणं विहायैव प्राणानां इन्द्रियरूपता)
२८३. त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ २–४–१५ ॥
(विचारोपयोगी संशयः)
किं सर्वे प्राणशब्दनिर्दिष्टा इन्द्रियाणि, उत श्रेष्ठप्राणव्यतिरक्ता एवेति विशये
(पूर्वपक्षः)
प्राणशब्दवाच्यत्वात्, करणत्वाच्च सर्व एवेन्द्रियाणि॥
(सिद्धान्तमुखेन सूत्रार्थविवरणम्)
इति प्राप्त उच्यते – श्रेष्ठव्यतिरिक्ता एव प्राणा इन्द्रियाणि कुत:? श्रेष्ठादन्येष्वेव प्राणेषु तद्व्यपदेशात् । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचरा: (भ.गी.१३.५) इत्यादिभिर्हि चक्षुरादिषु समनस्केष्वेव इन्द्रियशब्दो व्यपदिश्यते॥ १५ ॥
(प्राणे पृथक्श्रवणं इन्द्रियवैलक्षण्यं च उक्तार्थस्थापकम्)
२८४. भेदश्रुतेर्वैलक्षण्याच्च ॥ २–४–१६ ॥
एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च (मु.२.१.३) इत्यादिष्विन्द्रियेभ्य: प्राणस्य पृथक्छ्रवणात्प्राणव्यतिरक्तानामेवेन्द्रियत्वमवगम्यते। मनस: पृथक्छ्रवणेऽपि तस्यान्यत्रेन्द्रियान्तर्भाव उक्त: मनष्षष्ठानीन्द्रियाणि (भ.गी.१५.७) इत्यादौ। वैलक्षण्यं च चक्षुरादिभ्य: श्रेष्ठप्राणस्योपलभ्यते; सुषुप्तौ हि प्राणस्य वृत्तिरुपलभ्यते, चक्षुरादीनां तु वृत्तिर्नोपलभ्यते। कार्यं च चक्षुर्वागादीनां समनस्कानां ज्ञानकर्मसाधनत्वम्; प्राणस्य तु शरीरेन्द्रियधारणम् ।
(इन्द्रियाणां प्राणपदव्यपदेश्यत्वे हेतुः)
प्राणाधीनधारणत्वात्त्विन्द्रियेषु प्राणशब्दव्यपदेश:; तथा च श्रुति: त एतस्यैव सर्वे रूपमभवन् तस्मादेत एतेनाख्यायन्ते इति। रूपमभवन् – शरीरमभवन्, तदधीनप्रवृत्तयोऽभवन्नित्यर्थ:॥१६॥
इति श्रीशारीरकमीमांसाभाष्ये इन्द्रियाधिकरणम्॥७॥