[highlight_content]

श्रीभाष्यम् 02-04-08 संज्ञामूर्तिकॢप्त्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये संज्ञामूर्तिकप्त्यधिकरणम्॥८॥

(अधिकरणार्थः – नामरूपव्याकरणात्मकप्रपञ्चव्यष्टिसृष्टेः त्रिवृत्कर्तृसमानकर्तृता)

२८५. संज्ञामूर्तिकप्तिस्तु त्रिवृर्त्कुवत उपदेशात् १७

(पेटिकासङ्गतिः)

भूतेन्द्रियादीनां समष्टिसृष्टि:, जीवानां कर्तृत्वं च परस्माद्ब्रह्मण इत्युक्तं पुरस्तात्। जीवानां स्वेन्द्रियाधिष्ठानं च परायत्तमिति चानन्तरं स्थिरीकरणाय स्मारितम्।

(संशयो विचारार्थः)

या त्वियं नामरूपव्याकरणात्मिका प्रपञ्चव्यष्टिसृष्टि:, सा किं समष्टिजीवरूपस्य हिरण्यगर्भस्यैव कर्म, उत तेज: प्रभृतिशरीरकस्य परस्याबादिसृष्टिवद्धिरण्यगर्भशरीरकस्य परस्य ब्रह्मण, इतीदानीं चिन्त्यते।

(सहेतुकः पूर्वपक्षः)

            किं युक्तम्? समष्टिजीवस्येति; कुत:? अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि (छां.६.३.२) इति जीवकर्तृकत्वश्रवणात्। न हि परा देवता स्वेन रूपेण नामरूपे व्याकरवाणीत्यैक्षत; अपि तु स्वांशभूतेन जीवरूपेण, अनेन जीवेनाऽत्मना (छां.६.३.२) इति वचनात्।

(उक्तव्याख्याने लाक्षणिकत्वाशङ्का-परिहारौ)

नन्वेवं चारेणानुप्रविश्य परबलं सङ्कलयानीतिवत् व्याकरवाणि इत्युत्तमपुरुष: कतृस्थक्रियश्च प्रविशतिर्लाक्षणिकस्स्यात्।

नैवम्, तत्र राजचारयो: स्वरूपभेदाल्लाक्षणिकत्वम्, इह तु जीवस्यापि स्वांशत्वेन स्वरूपत्वात्तेन रूपेण प्रवेशो व्याकरणं चात्मन एवेति न लाक्षणिकत्वप्रसङ्ग:।

न च सहयोगलक्षणेयं तृतीया, कारकविभक्तौ सम्भवन्त्यामुपपदविभक्ते: अन्याय्यत्वात्।

न च करणे तृतीया, ब्रह्मकर्तृकयो: प्रवेशव्याकरणयोर्जीवस्य साधकतमत्वाभावात्।

न च जीवस्य कर्तृत्वं प्रवेशमात्रे पर्यवस्यति, नामरूपव्याकरणं तु ब्रह्मण एवेति शक्यं वक्तुम्, क्त्वाप्रत्ययेन समानकर्तृकत्वप्रतीते:। जीवस्य स्वांशत्वेन स्वरूपत्वेऽपि परस्वरूपव्यावृत्त्यर्थ: अनेन जीवेन (छा.६.३.२) इति पराक्त्वेन परामर्श:। अतो हिरण्यगर्भकर्तृकेयं नामरूपव्याक्रिया। अत एव च स्मृतिषु चतुर्मुखकर्तृकसृष्टिप्रकरणे नामरूपव्याकरणं सङ्कीर्त्यते नामरूपं भूतानां कृत्यानां प्रपञ्चनम्। वेदशब्देभ्य एवादौ देवादीनां चकार : (वि.पु.१.५.६३) इत्यादि॥

(सूत्रार्थविवृत्या सिद्धान्तप्रदर्शनम्)

एवं प्राप्तेऽभिधीयते – संज्ञामूर्ति   प्तिस्तु – इति। तुशब्द: पक्षं व्यावर्तयति; संज्ञामूर्तिक्लृप्ति: – नामरूपव्याकरणम्, तत् त्रिवृत्कुर्वत: परस्यैव ब्रह्मण:, तस्यैव नामरूपव्याकरणोपदेशात्। त्रिवृत्करणं कुर्वत एव हि नामरूपव्याकरणमुपदिश्यते – सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि तासां त्रिवृतं त्रिवृतमेकैकां करवाणि (छा.६.३.२) इति समानकर्तृकत्वप्रतीते:। त्रिवृत्करणं तु चतुर्मुखस्याण्डान्तर्वर्तिनो न सम्भवति, त्रिवृत्कृतैस्तेजोबन्नैर्ह्यण्डमुत्पाद्यते; चतुर्मुखस्य चाण्डे सम्भव: स्मर्यते – तस्मिन्नण्डेऽभवद्ब्रह्मा सर्वलोकपितामह: इति। अतस्त्रिवृत्करणं परस्यैव ब्रह्मण:; तत्समानकर्तृकं नामरूपव्याकरणं च तस्यैवेति विज्ञायते।

(अनेन जीवेनेति श्रुत्यर्थसाङ्गत्यम्)

कथं तर्हि अनेन जीवेन (छा.६.३.२) इति सङ्गच्छते, आत्मना जीवेन (छा.६.३.२) इति सामानाधिकरण्यात् जीवशरीरं परं ब्रह्मैव जीवशब्देनाभिधीयते; यथा तत्तेज ऐक्षत (छा.६.२.३) तदपोऽसृजत (छां.६.२.३) ता आप ऐक्षन्त (छां.६.२.३) ता अन्नमसृजन्त (छां.६.२.३) इति तेज: प्रभृतिशरीरकं परमेव ब्रह्माभिधीयते। अतो जीवसमष्टिभूतहिरण्यगर्भशरीरकस्य परस्यैव ब्रह्मण: कर्म नामरूपव्याकरणम्।

(प्रविशतेः उत्तमपुरुषस्य चतुर्मुखसृष्टौ नामरूपव्याकरणोपदेशस्य च सामरस्यवर्णनम्)

एवं च प्रविश्य नामरूपे व्याकरवाणि (छा.६.३.२) इति प्रविशतिरुत्तमपुरुषश्चाक्लिष्टौ मुख्यार्थावेव भवत:। प्रवेशव्याकरणयोस्समानकर्तृकत्वमप्युपपद्यते। चतुर्मुखशरीरकस्य परस्यैव ब्रह्मण: कर्म देवादिविचित्रसृष्टिरिति चतुर्मुखकर्तृकसृष्टिप्रकरणे नामरूपव्याक्रियोपदेश- श्चोपपद्यते।

(उक्तार्थानुगुणः अनुप्रवेशनामरूपव्याकरणश्रुत्यर्थः)

अत: सेयं देवता (छा.६.३.२) इत्यादिवाक्यस्यायमर्थ: – इमा: – तेजोऽबन्नरूपास्तिस्रो देवता अनेन जीवेन – जीवसमष्टिविशिष्टेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि – देवादिविचित्रसृष्टिं तन्नामधेयानि च करवाणि। तदर्थमन्योन्यसंसर्गमप्राप्तानामेषां तेजोबन्नानां विशेषसृष्ट्यसमर्थानां तत्सामर्थ्यायैकैकां त्रिवृतं त्रिवृतं करवाणि – इति। अत: परस्यैव ब्रह्मण: कर्मेदं नामरूपव्याकरणम्॥१७॥

(उक्तार्थे वैघठ्यशङ्कायाः परिहाररूपतया उत्तरसूत्रावतरणम)

अथ स्यात् नामरूपव्याकरणस्य त्रिवृत्करणेनैककर्तृकत्वात्परमात्मकर्तृकमिति न शक्यते वक्तुम्, त्रिवृत्करणस्यापि जीवकर्तृकत्वसम्भवात्। अण्डसृष्ट्युत्तरकालं हि चतुर्मुखसृष्टजीवेषु त्रिवृत्करणप्रकार उपदिश्यते – यथा तु खलु सोम्येमास्तिस्रो देवता: पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानाहीति (छा.६.४.७) अन्नमशितं त्रेधा विधीयते तस्य : स्थविष्ठो भागस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं योऽणिष्ठ: तन्मन: (छा.६.५.१) इत्यादिना । तथा पूर्वस्मिन्नपि वाक्ये यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य (छां.६.५.१) इत्यादिना चतुर्मुखसृष्टाग्न्यादित्यचन्द्रविद्युत्सु त्रिवृत्करणं प्रदर्श्यते। नामरूपव्याकरणोत्तरकालं च त्रिवृत्करणं श्रूयते। सेयं देवता, इमास्तिस्रो देवता: अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरोत्तासां त्रिवृतंत्रिवृतमेकैकामकरोत् (छा.६.३.४) इति । तत्राह॥

२८६. मांसादि भौमं यथाशब्दमितरयोश्च १८

(शङ्कानुवादपूर्वकं सूत्रार्थमुखेन परिहारः)

यदुक्तमण्डसृष्ट्युत्तरकालं चतुर्मुखसृष्टदेवतादिविषयोऽयं तासां त्रिवृतं त्रिवृतमेकैकामकरोत् (छा.६.३.२) इति त्रिवृत्करणोपदेश इति ॥

तन्नोपपद्यते, अन्नमशितं त्रेधा विधीयते (छा.६.५.१) इत्यत्र मांसमनसो: पुरीषादणुत्वेनाणीयस्त्वेन च व्यपदिष्टयो: कारणानुविधायित्वेनाप्यतैजसत्वप्रसङ्गात् आप: पीता: (छा.६.५.२) इत्यत्रापि मूत्रप्राणयो: स्थविष्ठाणीयसो: पार्थिवत्वतैजसत्वप्रसङ्गाच्च।

न चैवमिष्यते; मांसादि भौममिष्यते – पुरीषवन्मांसमनसी अपि भौमे – पार्थिवे इष्येते अन्नमशितं त्रेधा (छा.६.५.२) इति प्रक्रमात्।

यथाशब्दमितरयोश्च – इतरयोरपि आप:पीता: (छां.६.५.२) तेजोऽशितम् (छां.६.५.२) इति पर्याययोर्यथाशब्दं विकारा इष्यन्ते।

आप: पीतास्त्रेधा विधीयन्ते (छां.६.५.२) इत्यपामेव त्रेधा परिणाम: शब्दात्प्रतीयते; तथा तेजोऽशितं त्रेधा विधीयते (छां.६.५.२) इत्यपि तेजस एव त्रेधा परिणाम: शब्दात्प्रतीयते; अत: पुरीषमांसमनांसि पृथिवीविकारा:, मूत्रलोहितप्राणा: अब्विकारा:, अस्थिमज्जावाचस्तेजोविकारा इति प्रतिपत्तव्यम् ॥

अन्नमयं हि सोम्य मन:, आपोमय: प्राणस्तेजोमयी वाक् (छां.६.५.२) इति वाक्यशेषाविरोधाच्च ।

अत: तासां त्रिवृतं त्रिवृतमेकैकामकरोत् (छा.६.३.४) इत्युक्तस्त्रिवृत्करणप्रकार: अन्नमशितम् (छां.६.५.२) इत्यादिना न प्रदर्श्यते । तथा सति मन: प्राणवाचां त्रयाणामप्यणीयस्त्वेन तैजसत्वात् अन्नमयं हि सोम्य मन: (छां.६.५.२) इत्यादिर्विरुध्यते।

प्रागेव त्रिवृत्कृतानां पृथिव्यादीनां पुरुषं प्राप्तानाम् अन्नमशितम् (छां.६.५.२) इत्यादिनैकैकस्य त्रेधा परिणाम उच्यते। अण्डसृष्टे: प्रागेव च तेजोबन्नानां त्रिवृत्करणेन भवितव्यम्, अत्रिवृत्कृतानां तेषां कार्यारम्भासामर्थ्यात्। अन्योन्यसंयुक्तानामेव हि कार्यारम्भसामर्थ्यम्; तदेव च त्रिवृत्करणम्। तथा च स्मर्यते नानावीर्या: पृथग्भूतास्ततस्ते संहतिं विना। नाशक्नुवन् प्रजास्स्रष्टुमसमागम्य कृत्स्नश: समेत्यान्योन्यसंयोगं परस्परसमाश्रया: महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते (वि.पु.१.२.५२) इति। अत एव च अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरोत् तासां त्रिवृतं त्रिवृतमेकैकामकरोत् (छा.६.३.४) इति पाठक्रमोऽर्थक्रमेण बाध्यते ।

(अग्न्यादिषु त्रिवृत्करणप्रदर्शनप्रयोजनम्)

अण्डान्तर्वर्तिष्वग्न्यादित्यादिषु त्रिवृत्करणप्रदर्शनं श्वेतकेतोश्शुश्रुषोरण्डान्तर्वर्तित्वेन; तस्य बहिष्ठवस्तुषु त्रिवृत्करणप्रदर्शनायोगात् त्रिवृत्कृतानां कार्येषु अग्न्यादित्यादिषु क्रियते ॥१८॥

(त्रिरूपस्य एकैकरूपेण व्यपदेशोपपत्तिः)

स्यादेतत्; अन्नमशितम् (छा.६.५.१) आप: पीता: (छां.६.५.२) तेजोऽशितम् (छां.६.५.३) इति त्रिवृत्कृतानामन्नादीनामेकैकस्य तेजोबन्नात्मकत्वेन त्रिरूपस्य कथमन्नमापस्तेज इत्येकैकरूपेण व्यपदेश उपपद्यत इति; तत्राह –

२८७. वैशेष्यात्तु तद्वादस्तद्वाद: ॥ २१९ ॥

वैशेष्यं – विशेषभाव: । त्रिवृत्करणेन त्रिरूपेऽप्येकैकस्मिन्नन्नाद्याधिक्यात्तत्र तत्रान्नादिवाद:। द्विरुक्तिरध्यायसमाप्तिं द्योतयति ॥१९॥

इति श्रीशारीरकमीमांसाभाष्ये संज्ञामूर्तिप्त्यधिकरणम् ॥

इति श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये द्वितीयस्याध्यायस्य चतुर्थ: पाद: ४॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.