श्रीशारीरकमीमांसाभाष्ये तत्स्वाभाव्यापत्त्यधिकरणम् ॥४॥
(अधिकरणार्थः – अवरोहतो जीवस्य श्रुत्युक्तः आकाशादिभावः आकाशादिसादृश्यरूपः)
३०९. तत्स्वाभाव्यापत्तिरुपपत्ते: ॥ ३–१–२२ ॥
(उक्तार्थानुवादः सङ्गत्यर्थम्)
इष्टादिकारिणो भूतसूक्ष्मपरिष्वक्तास्सानुशयाश्चन्द्रमसोऽवरोहन्तीत्युक्तम्, अवरोहप्रकारश्च अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशम् आकाशाद्वायु: वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवति अभ्रं भूत्वा मेघो भवति, मेघो भूत्वा प्रवर्षति (छा.५.१०, ५.६) इति वचनात् यथेतमनेवञ्च इत्युक्तम् ॥
(प्रकृतो विचारणीयोंशः)
तत्रास्याकाशादिप्रतिपत्तौ देवमनुष्यादिभाववदाकाशादिभाव:, उत तत्सादृश्यापत्तिमात्रमिति विशये,
(पूर्वपक्षः सदृष्टान्तः)
श्रद्धावस्थस्य सोमभाववदविशेषादाकाशादिभाव: – इति प्राप्ते
(सिद्धान्तार्थः सयुक्तिकः)
तत्स्वाभाव्यापत्तिरेवेत्युच्यते। तत्स्वाभाव्यापत्ति:– तत्सादृश्यापत्तिरित्यर्थ:। कुत एतत्? उपपत्ते: सोमभावमनुष्यभावादौ हि सुखदु:खोपभोगाय तद्भाव:; अत्र त्वाकाशादौ सुखदु:खोपभोगाभावात्तद्भावानुपपत्तेस्तदापत्तिवचनं तत्संसर्गकृततत्सादृश्यापत्त्यभिप्रायम्॥२२॥
इति श्रीशारीरकमीमांसाभाष्ये तत्स्वाभाव्यापत्त्यधिकरणम्॥४॥