श्रीशारीरकमीमांसाभाष्ये नातिचिराधिकरणम्॥७॥
३१०. नातिचिरेण विशेषात् ॥ ३–१–२३ ॥ (सि)
(अधिकरणार्थः – जीवस्य अवरोहकाले आकाशादिषु स्थानेषु शीघ्रा गतिः)
(सङ्गतिविचारपूर्वपक्षः)
आकाशप्राप्तिप्रभृति यावद्व्रीह्यादिप्राप्ति किं तत्रतत्र नातिचिरं तिष्ठति, उतानियम इति विशये नियमहेत्वभावादनियम: –
(सिद्धान्तः सूत्रार्थतः)
इति प्राप्ते,
उच्यते – नातिचिरेण – इति।
कुत:? विशेषात् – उत्तरत्र व्रीह्यादिप्राप्तौ अतो वै खलु दुर्निष्प्रपतरम् (छा।५-१०-६) इति विशिष्य कृच्छ्रनिष्क्रमणत्वाभिधानात् पूर्वत्र ह्याकाशादिप्राप्तावचिरनिष्क्रमणं गम्यते। दुर्निष्प्रपतरमिति च्छान्दसस्तशब्दलोप:; दुर्निष्प्रपतरं – दु:खनिष्क्रमणतरमित्यर्थ:॥२३॥
इति श्रीशारीरकमीमांसाभाष्ये नातिचिराधिकरणम्॥ ५॥