श्रीभगवद्रामानुजविरचिते श्रीशारीररकमीमांसाभाष्ये
तृतीयस्य साधनाध्यायस्य – द्वितीयः उभयलिङ्गपाद:
(अधिकरणानि – 8, सूत्राणि – 40)
(पादार्थः – परस्य ब्रह्मणः निरस्ताखिलदोषता समस्तकल्याणगुणाकरता च)
सन्ध्याधिकरणम्
(बृहदारण्यकदहरविद्या 6-3-10)
(अधिकरणार्थः – स्वप्नानां जीवानुभाव्यानां )
३१५. सन्ध्ये सृष्टिराह हि ॥ ३–२–१ ॥ (पू)
(पादसङ्गतिप्रदर्शनम्, विषयवाक्यं च)
एवं कर्मानुरूपगमनागमनजन्मादियोगेन जाग्रतो जीवस्य दु:खित्वं ख्यापितम्; इदानीमस्य स्वप्नावस्था परीक्ष्यते। स्वप्नमधिकृत्य श्रूयते – न तत्र रथा न रथयोगा न पन्थानो भवन्ति, अथ रथान् रथयोगान् पथस्सृजते, न तत्रानन्दा मुद: प्रमुदो भवन्ति, अथ आनन्दान् मुद: प्रमुद: सृजते, न तत्र वेशान्ता: पुष्किरण्य: स्रवन्त्यो भवन्ति, अथ वेशान्ता: पुष्किरण्य: स्रवन्त्यस्सृजते, स हि कर्ता (बृ.६.३.१०) इति।
(अधिकरणीयः संशयः)
तत्र संशय: – किमियं रथादिसृष्टि: जीवेनैव क्रियते; आहोस्विदीश्वरेण इति ।
(पूर्वपक्षः सयुक्तिकः)
किंयुक्तम्? सन्ध्ये सृष्टिर्जीवेनेति। कुत:? सन्ध्यं – स्वप्नस्थानमुच्यते, सन्ध्यं तृतीयं स्वप्नस्थानम् इति वचनात्; सा तु जीवेनैव क्रियते सृजते स हि कर्ता (बृ.६.३.१०) इत्याह हि। स्वप्नदृग्जीव एव तत्र प्रतीयते ॥१॥
(जीवस्यैव स्वाप्नार्थनिर्मातृत्वे श्रुत्यन्तरम्)
३१६. निर्मातारं चैके पुत्रादयश्च ॥ ३–२–२ ॥
किञ्च – एनं जीवं स्वप्ने कामानां निर्मातारमेके शाखिनोऽधीयते य एषु सुप्तेषु जागर्ति कामंकामं पुरुषो निर्मिमाण: (कठ.२.५.८) इति । पुत्रादयश्च तत्र काम्यमानतया कामशब्देन निर्दिश्यन्ते, नेच्छामात्रम्; पूर्वत्र हि सर्वान् कामान् छन्दत: प्रार्थयस्व (कठ.१.१.२५) शतायुष: पुत्रपौत्रान् वृणीष्व (कठ.१.१.२३) इति पुत्रादय एव कामा: प्रकृता: ।
(पूर्वपक्षार्थनिगमनम्)
अतो रथादीन् जीव: स्वप्ने सृजति, जीवस्य च सत्यसङ्कल्पत्वं प्रजापतिवाक्ये श्रुतम्; अत उपकरणाद्यभावेऽपि सृष्टिरुपपद्यते॥२॥
(सिद्धान्तसूत्रं सविवरणम्)
इति प्राप्तेऽभिधीयते
३१७. मायामात्रं तु कार्त्स्न्येेनानभिव्यक्तस्वरूपत्वात् ॥ ३–२–३ ॥
तु शब्द: पक्षं व्यावर्तयति स्वप्ने रथपुष्करिण्याद्यर्थजातं मायामात्रं परमपुरुषसृष्टमित्यर्थ:। मायाशब्दो ह्याश्चर्यवाची जनकस्य कुले जाता देवमायेव निर्मिता (श्रीराम.बाल.१.२७) इत्यादिषु तथा दर्शनात्। अत्रापि न तत्र रथा न रथायोगा न पन्थान: – (बृ.६.३.१०) सकलेतरपुरुषानुभाव्यतया न भवन्तीत्यर्थ:, अथ रथान् रथयोगान्पथ: सृजते (बृ.६.३.१०) स्वप्नदृगनुभाव्यतया तत्कालमात्रावसानान् सृजत इत्याश्चर्यरूपत्वमेवाह।
(जीवे ईदृश्याः सृष्टेः अयोगः)
एवंविधाश्चर्यरूपा सृष्टिस्सत्यसङ्कल्पस्य परमपुरुषस्यैवोपपद्यते, न जीवस्य; तस्य सत्यसङ्कल्पत्वादि-युक्तस्यापि संसारदशायां कार्त्स्न्येेनानभिव्यक्तस्वरूपत्वान्न जीवस्य तथाविधाश्चर्यसृष्टिरुपपद्यते। कामं कामं पुरुषो निर्ममाण: (कठ.२.५.८) इति च परमपुरुषमेव निर्मातारमाह – य एषु सुप्तेषु जागर्ति (कठ.२.५.८) तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते। तस्मिन्लोकाश्श्रितास्सर्वे तदु नात्येति कश्चन (कठ.२.५.८) इत्युपक्रमोपसंहारयो: परमपुरुषासाधारणस्वभावप्रतीते: । अथ वेशान्तान् पुष्किरण्य: स्रवन्त्य: सृजते स हि कर्ता (बृह.६.३.१०) इति च तया श्रुत्यैकार्थ्यात्परमपुरुषमेव कर्तारमाह ॥३॥
(जीवस्वभावगतस्य धर्मस्यापि अनाविर्भावे हेतुः)
स्वाभाविकं चेज्जीवस्यापहतपाप्मत्वादिकम्, कुतस्तन्नाभिव्यज्यत इत्यत आह –
३१८. पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥ ३–२–४ ॥ (सि)
तुशब्दश्शङ्काव्यावृत्त्यर्थ:; पराभिध्यानात् – परमपुरुषसङ्कल्पात्, अस्य जीवस्य स्वाभाविकं रूपं तिरोहितम्; अनादिकर्मपरम्परया कृतापराधस्य ह्यस्य स्वाभाविकं कल्याणरूपं परमपुरुषस्तिरोधापयति; तत: तत्सङ्कल्पादेव हि अस्य जीवस्य बन्धमोक्षौ श्रुतौ यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते अथ सोऽभयं गतो भवति यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति (तै.आन.७.१) एष ह्येवानन्दयाति (तै.आन.७.२) भीषाऽस्माद्वात: पवते (तै.आन.८.१) इत्यादिषु ॥४॥
(तिरोधानप्रदर्शनम्)
३१९. देहयोगाद्वा सोऽपि ॥ ३–२–५ ॥
सोऽपि तिरोभावो देहयोगद्वारेण वा भवति, सूक्ष्माचिच्छक्तियोगद्वारेण वा; सृष्टिकाले देहावस्थेनाचिद्वस्तुना संयोगाद्भवति, प्रलयकाले नामरूपविभागानर्हातिसूक्ष्माचिद्वस्तुयोगात्। अतोऽनभिव्यक्तस्वरूपत्वात्स्वप्ने जीवो न रथादीन् सङ्कल्पमात्रेण स्रष्टुं शक्नोति। तस्मिल्लोकाश्श्रितास्सर्वे तदु नात्येति कश्चन (कठ.५.८) इति सर्वेषु सुप्तेषु जागरणं सर्वलोकाश्रयत्वमित्यादयो हि परमपुरुषस्यैव सम्भवन्ति। अतो जीवानां अल्पाल्पकर्मानुगुण-फलानुभवार्थं तावन्मात्रकालावसानान् तदेकानुभाव्यानर्थानुत्पादयति॥५॥
(स्वप्नस्य शुभाद्यर्थसूचकत्वतः जीवसृष्टत्वायोगः)
३२०. सूचकश्च हि श्रुतेराचक्षते च तद्विद: ॥ ३–२–६ ॥
इतश्च स्वाप्ना अर्था न जीवसङ्कल्पपूर्वका:; यत: स्वप्नोऽभ्युदयानभ्युदययोस्सूचक: श्रुतेरवगम्यते यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति समृद्धिं तत्र जानीयात्तस्मिन् स्वप्ननिदर्शने (छा.५-२-९) इति; अथ स्वप्ने पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति इत्यादेश्च। स्वप्नाध्यायविदश्च स्वप्नं शुभाशुभयोस्सूचकमाचक्षते । सूचकत्वं च स्वसङ्कल्पायत्तस्य नोपपद्यते; तथाचाशुभस्यानिष्टत्वाच्छुभस्य सूचकमेव सृष्ट्वा पश्येत्। अत: स्वप्ने सृष्टिरीश्वरेणैव कृता ॥६॥
इति श्रीशारीरकमीमांसाभाष्ये सन्ध्याधिकरणम्॥१॥