[highlight_content]

श्रीभाष्यम् 03-02-02 तदभावाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये तदभावाधिकरणम्॥२॥

(अधिकरणार्थः – जिवात्मनां सुषुप्तौ स्थानानि हिताख्यनाडी – पुरीतत् – परमात्मनस्त्रयोऽपि)

३२१. तदभावो नाडीषु तच्छ्रुतेरात्मनि

(सङ्गतिः विषयनिर्देशश्च)

इदानीं सुषुप्तिस्थानं परीक्ष्यते, इदमाम्नायते  अथ यत्रैतत्सुप्तस्समस्तस्सम्प्रसन्न: स्वप्नं विजानाति आसु तदा नाडीषु सृप्तो भवति (छां.८.३.३) इति; तथा  अथ यदा सुषुप्तो भवति यदा कस्यचन वेद हिता नाम नाड्यो द्वासप्ततिसहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते ताभि: प्रत्यवसृप्य पुरीतति शेते (बृ.४.१.१९) इति; तथा –  यत्रैतत्पुरुष: स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति (छा.६.८.१) इति। एवं नाड्य: पुरीतद् ब्रह्म च सुषुप्तिस्थानत्वेन श्रूयन्ते;

(संशयः पूर्वपक्षश्च)

किमेषां विकल्प: समुच्चयो वेति विशये निरपेक्षत्वप्रतीते: युगपदनेकस्थानवृत्त्यसम्भवाच्च विकल्प:-

(सिद्धान्तप्रदर्शनं सूत्रतः)

इति प्राप्ते उच्यते – तदभाव – इति। तदभाव: – स्वप्नाभाव: सुषुप्ति: नाडीषु पुरीतत्यात्मनि च भवति, एषां स्थानानां समुच्चय इत्यर्थ: । कुत:? तच्छ्रुते: त्रयाणां स्थानत्वश्रुते: । न च कार्यभेदेन समुच्चये सम्भवति पाक्षिकबाधगर्भविकल्पो न्याय्य: । सम्भवति च प्रासादखट्वापर्यङ्कवन्नाड्यादीनां कार्यभेद:। तत्र नाडीपुरीततौ प्रासादखट्वास्थानीयौ; ब्रह्म तु पर्यङ्कस्थानीयम्। अतो ब्रह्मैव साक्षात्सुषुप्तिस्थानम्॥७॥

(ब्रह्मणः जीवप्रबोधावधिस्थानता)

३२२. अत: प्रबोधोऽस्मात्

यतो ब्रह्मैव साक्षात्सुषुप्तिस्थानम्, अत: अस्मात् – ब्रह्मण: एषां जीवानां प्रबोध: श्रूयमाण उपपद्यते – सत आगम्य विदु: सत आगच्छामहे (छा.६.१०.२) इत्यादिषु ॥८॥

इति श्रीशारीरकमीमांसाभाष्ये तदभावाधिकरणम्॥२॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.