श्रीशारीरकमीमांसाभाष्ये तदभावाधिकरणम्॥२॥
(अधिकरणार्थः – जिवात्मनां सुषुप्तौ स्थानानि हिताख्यनाडी – पुरीतत् – परमात्मनस्त्रयोऽपि)
३२१. तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥ ३–२–७ ॥
(सङ्गतिः विषयनिर्देशश्च)
इदानीं सुषुप्तिस्थानं परीक्ष्यते, इदमाम्नायते अथ यत्रैतत्सुप्तस्समस्तस्सम्प्रसन्न: स्वप्नं न विजानाति आसु तदा नाडीषु सृप्तो भवति (छां.८.३.३) इति; तथा अथ यदा सुषुप्तो भवति यदा न कस्यचन वेद हिता नाम नाड्यो द्वासप्ततिसहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते ताभि: प्रत्यवसृप्य पुरीतति शेते (बृ.४.१.१९) इति; तथा – यत्रैतत्पुरुष: स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति (छा.६.८.१) इति। एवं नाड्य: पुरीतद् ब्रह्म च सुषुप्तिस्थानत्वेन श्रूयन्ते;
(संशयः पूर्वपक्षश्च)
किमेषां विकल्प: समुच्चयो वेति विशये निरपेक्षत्वप्रतीते: युगपदनेकस्थानवृत्त्यसम्भवाच्च विकल्प:-
(सिद्धान्तप्रदर्शनं सूत्रतः)
इति प्राप्ते उच्यते – तदभाव – इति। तदभाव: – स्वप्नाभाव: सुषुप्ति: नाडीषु पुरीतत्यात्मनि च भवति, एषां स्थानानां समुच्चय इत्यर्थ: । कुत:? तच्छ्रुते: त्रयाणां स्थानत्वश्रुते: । न च कार्यभेदेन समुच्चये सम्भवति पाक्षिकबाधगर्भविकल्पो न्याय्य: । सम्भवति च प्रासादखट्वापर्यङ्कवन्नाड्यादीनां कार्यभेद:। तत्र नाडीपुरीततौ प्रासादखट्वास्थानीयौ; ब्रह्म तु पर्यङ्कस्थानीयम्। अतो ब्रह्मैव साक्षात्सुषुप्तिस्थानम्॥७॥
(ब्रह्मणः जीवप्रबोधावधिस्थानता)
३२२. अत: प्रबोधोऽस्मात् ॥ ३–२–८ ॥
यतो ब्रह्मैव साक्षात्सुषुप्तिस्थानम्, अत: अस्मात् – ब्रह्मण: एषां जीवानां प्रबोध: श्रूयमाण उपपद्यते – सत आगम्य न विदु: सत आगच्छामहे (छा.६.१०.२) इत्यादिषु ॥८॥
इति श्रीशारीरकमीमांसाभाष्ये तदभावाधिकरणम्॥२॥