श्रीशारीरकमीमांसाभाष्ये कर्मानुस्मृतिशब्दविध्यधिकरणम्॥३॥
(अधिकरणार्थः – जाग्रदवस्थातः सुषुप्तिदशां प्राप्त एव जीवः प्रबुध्यते, नान्यः)
३२३. स एव तु कर्मानुस्मृतिशब्दविधिभ्य: ॥ ३–२–९ ॥
(प्रकृताधिकरणीयः संशयः पूर्वपक्षश्च)
किं सुषुप्त एव प्रबोध समये उत्तिष्ठति, उतान्य इति संशये अस्य सकलोपाधिविनिर्मुक्तस्य ब्रह्मणि सम्पन्नस्य मुक्तादविलक्षणत्वेन प्राचीनशरीरेन्द्रियादिसम्बन्धाभावादन्य: – इति प्राप्ते
(सिद्धान्तार्थः सूत्रतः)
उच्यते – स एव तु इति। तुशब्द: पक्षं व्यावर्तयति; स एवोत्तिष्ठति; कुत:? कर्मानुस्मृतिशब्दविधिभ्य:। कर्म तावत् – सुषुप्तेन पूर्वकृतं पुण्यपापरूपं तत्त्वज्ञानात्प्राक् तेनैव भोक्तव्यम्। अनुस्मृतिरपि य एवाहं सुप्त:, स एव प्रबुद्धोऽस्मीति। शब्दोऽपि सुषुप्तप्रबुद्धस्स एवेति दर्शयति – त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति (छा.६.१०.२) इति। विधयश्च मोक्षार्थास्सुषुप्तस्य मुक्तत्वेऽनर्थकास्स्यु:। नचासौ सर्वोपाधिविनिर्मुक्त आविर्भूतस्वरूप: – तद्यत्रैतत्सुषुप्त: (छा.८.११.२) इति सुषुप्तं प्रकृत्य नाहं खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामि (छा.८.११.२) इति वचनात् । मुक्तस्य च परं ज्योतिरुसम्पद्य स्वेन रूपेणाभिनिष्पद्यते (छा.८.३.४) स तत्र पर्येति जक्षत्क्रीडन्नममांण: (छा.८.१२.३) स स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति (छा.७-२५-२) सर्वं हि पश्य: पश्यति सर्वमाप्नोति सर्वश: (छा.७.२६.२) इति सर्वज्ञत्वादि श्रूयते। अतस्सुषुप्तस्संसरन्नेव आयस्तसर्वकरणो ज्ञानभोगाद्यशक्तो विश्रमस्थानं परमात्मानमुपसम्पद्याश्वस्त: पुनर्भोगायोत्तिष्ठति॥९॥
इति श्रीशारीरकमीमांसाभाष्ये कर्मानुस्मृतिशब्दविध्यधिकरणम्॥३॥