श्रीशारीरकमीमांसाभाष्ये मुग्धाधिकरणम् ॥४॥
(अधिकरणार्थः – देहिनो मूर्च्छावस्थास्वरूपनिर्णयः)
३२४. मुग्धेऽर्धसम्पत्ति: परिशेषात् ॥ ३–२–१० ॥
मुग्धमधिकृत्य चिन्त्यते; किमियं मूर्च्छा सुषुप्त्यादिष्वन्यतमावस्था, उतावस्थान्तरमिति विशये सुषुप्त्यादीनामन्यतमावस्थायामेव मूर्च्छाप्रसिद्ध्युपत्ते: अवस्थान्तर-कल्पने प्रमाणाभावादन्यतमावस्था –
(सूत्रार्थवर्णनपूर्वकं सिद्धान्तः)
इति प्राप्ते उच्यते – मुग्धेऽर्धसम्पत्ति: इति। मुग्धे पुरुषे या तस्यावस्था, सा मरणायार्धसम्पत्ति:। कुत:? परिशेषात् – न तावत्स्वप्नजागरौ, ज्ञानाभावात्; निमित्तवैरूप्यादाकारवैरूप्याच्च न सुषुप्तिमरणे। निमित्तं हि मूर्च्छाया अभिघातादि:। पारिशेष्यान्मरणायार्धसम्पत्तिर्मूर्छा । मरणं हि सर्वप्राणदेहसम्बन्धोपरति:; सूक्ष्मप्राणदेहसम्बन्धावस्थितिर्मूर्छा॥
इति श्रीशारीरकमीमांसाभाष्ये मुग्धाधिकरणम्॥ ४॥