श्रीशारीरकमीमांसाभाष्ये अहिकुण्डलाधिकरणम्॥६॥
(अधिकरणार्थः – अचिद्ब्रह्मणोरपि चिद्ब्रह्मणोरिव अंशांशिभावः)
३४०. उभयव्यपदेशात्त्वहिकुण्डलवत् ॥ ३–२–२६ ॥ (पू)
(अवान्तरसङ्गतिप्रदर्शनम् विचारणीयो विषयश्च)
मूर्तामूर्तात्मकस्य अचित्प्रपञ्चस्य ब्रह्मणो रूपत्वं द्वे वाव ब्रह्मणो रुपे (बृ.४.३.१) इत्यादिनोपदिश्यते। अथात आदेशो नेति नेति (बृ.४.१.६) इति मूर्तामूर्ताचिद्वस्तुरूपतया ब्रह्मण इयत्ता प्रतिषिध्यते। नह्येतस्मादिति नेत्यन्यत्परमस्ति (बृ.४.३.६) इति ब्रह्मणोऽन्यदुत्कृष्टं नह्यस्तीति प्रतिपादितम्। तदुपपादनाय अथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् (बृ.४.३.६) इति प्राणशब्दनिर्दिष्टेभ्यश्चेतनेभ्योऽप्येष सत्यमिति कदाचिदपि ज्ञानादिसङ्कोचाभावादुक्तम्। तथा प्रधानक्षेत्रज्ञपतिर्गुणेश: (श्वे.६.१६) पतिं विश्वस्याऽत्मेश्वरम् (तै.ना.११.३) नित्यो नित्यानां चेतनश्चेतनानाम् (श्वेत.६.१३) इत्यादिश्रुतेश्चायमर्थोऽवगम्यते॥ तस्याचिद्वस्तुनो ब्रह्मरूपत्वप्रकार इदानीं चिन्त्यते, ब्रह्मणो निर्दोषत्वसिद्ध्यर्थम् –
(विचारोपयोगी संशयः)
किमस्याचिद्वस्तुनो ब्रह्मरूपत्वमहिकुण्डलन्यायेन, उत प्रभाप्रभावतोरिवैकजातियोगेन, उत जीवस्येव विशेषणविशेष्यतयांशांशिभावेन इति ।
(पौनरुक्त्यशङ्कानिरासः)
इह स्थाप्यमानं विशेषणविशेष्यभावमङ्गीकृत्य प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् (ब्र.सू.१.४.२३) तदनन्यत्वमारम्भणशब्दादिभ्य: (ब्र.सू. २-१-१५) इत्यत्र सूक्ष्मचिदचिद्वस्तुविशिष्टात् ब्रह्मण: स्थूलचिदचिद्वस्तुविशिष्टस्योत्पत्तिरनन्यत्वं चोक्तम् ।
(सदृष्टान्तः पूर्वः पक्षः)
किं युक्तम्? अहिकुण्डलवदिति; कुत:? उभयव्यपदेशात् । ब्रह्मैवेदं सर्वम् (बृ.४.५.१) आत्मैवेदं सर्वम् (छा.७.२५.२) इति तादात्म्यव्यपदेशात्,
हन्ताहमिमास्तिस्रो देवता: अनेन जीवेनाऽत्मनाऽनुप्रविश्य(छा.६.३.२) इत्यादिभेदव्यपदेशाच्च। अहे: कुण्डलभाव-ऋजुभाववत्, तस्यैव ब्रह्मणस्संस्थानविशेषा एवाचिद्वस्तूनि ॥६॥
(पूर्वपक्षान्तरसूत्रम्)
३४१. प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ ३–२–२७ ॥
वाशब्द: पक्षव्यावृत्त्यर्थ:; ब्रह्मस्वरूपस्यैवाचिद्रूपेणावस्थाने भेदश्रुतयो ब्रह्मणोऽपरिणामित्व-वादिन्योऽपि बाधिता भवेयु:; अतो यथा तेजस्त्वेन प्रभातदाश्रययोरपि तादात्म्यम्; एवमचित्प्रपञ्चस्य ब्रह्मणो रूपत्वमित्यर्थ: ॥ २७ ॥
(सिद्धान्तसूत्रम्)
३४२. पूर्ववद्वा ॥ ३–२–२८ ॥
वा शब्द: पक्षद्वयव्यावृत्त्यर्थ:; एकस्यैव द्रव्यस्यावस्थाविशेषयोगे ब्रह्मस्वरूपस्यैवाचिद्-द्रव्यरूपत्वादुक्तदोषादनिर्मोक्ष: । अथ प्रभातदाश्रययोरिवाचिद् ब्रह्मणोर्ब्रह्मत्वजातियोगमात्रम्; एवं तर्ह्यश्वत्वगोत्ववद्ब्रह्मापीश्वरे चिदचिद्वस्तुनोश्चानुवर्तमानं सामान्यमिति सकलश्रुतिस्मृति-व्यवहारविरोध:। पूर्ववदेव अंशो नानाव्यपदेशात् (ब्र.सू.२.३.४२) प्रकाशादिवत्तु नैवं पर: (ब्र.सू.२.३.४५) इति जीववत्पृथक्सिद्ध्यनर्हाविशेषणत्वेनाचिद्वस्तुनो ब्रह्मांशत्वम्;
(अंशांशिनोरभेदस्य मुख्यता)
विशिष्टवस्त्वेकदेशत्वेनाभेदव्यवहारो मुख्य:, विशेषणविशेष्ययो: स्वरूपस्वभावभेदेन भेदव्यवहारो मुख्य:, ब्रह्मणो निर्दोषत्वं च रक्षितम्। तदेवं प्रकाशजातिगुणशरीराणां मणिव्यक्तिगुण्यात्मन: प्रत्यपृथक्सिद्धिलक्षणविशेषणतया यथांशत्वम्; तथेह जीवस्याचिद्वस्तुनश्च ब्रह्म प्रत्यंशत्वम् ॥२८॥
(ब्रह्मणः अचिद्धर्मनिषेधस्य उक्तार्थसाधकता)
३४३. प्रतिषेधाच्च ॥ ३–२–२९ ॥
स वा एष महानज आत्माऽजरोऽमर: (बृ.६.४.२५) नास्य जरयैतज्जीर्यति (छां.८.१.५) इत्यादिभि: ब्रह्मणोऽचिद्धर्मप्रतिषेधाच्च विशेषणविशेष्यत्वेनैवांशांशिभाव इत्यर्थ:।
(विशिष्टाद्वैतेनोक्तार्थोपसंहारः)
अतस्सूक्ष्मचिदचिद्वस्तुविशिष्टं कारणभूतं ब्रह्म, स्थूलचिदचिद्वस्तुविशिष्टं कार्यभूतं ब्रह्मेति कारणात्कार्यस्यानन्यत्वम्, कारणभूतब्रह्मविज्ञानेन कार्यस्य ज्ञाततेत्यादि सर्वमुपपन्नम्; ब्रह्मणो निर्दोषत्वं च रक्षितम् । ब्रह्मणो निर्दोषत्वेन कल्याणगुणाकरत्वेन चोभयलिङ्गत्वमपि सिद्धम्॥२९॥
इति श्रीशारीरकमीमांसाभाष्ये अहिकुण्डलाधिकरणम् ॥ ६॥