श्रीशारीरकमीमांसाभाष्ये पराधिकरणम् ॥७॥
(अधिकरणार्थः – सर्वस्मात्परं परब्रह्मैव, न तु ततोऽपि परं किढ)
३४४. परमतस्सेतून्मानसम्बन्धभेदव्यपदेशेभ्य: ॥ ३–२–३० ॥
(अवान्तरसङ्गतिः)
इदानीमस्मात्परस्माज्जगन्निमित्तोपादानरूपपरमकारणात्परब्रह्मण: परमपि किञ्चित्तत्वमस्तीति कैश्चिद्धेत्वाभासैराशङ्क्य निराक्रियते, अस्योपास्यस्य निर्दोषत्वानवधिकातिशयासंख्येयकल्याणगुणाकरत्वस्थेम्ने।
(अधिकरणारम्भार्था शङ्का)
तत्रेयमाशङ्का यदिदं परं ब्रह्मोभयलिङ्गम्, एतस्मान्निखिलजगत्कारणात् परमपि किञ्चित्तत्वमस्ति । कथम्? अथ य आत्मा स सेतुर्विधृति: (छा.८.४.१) इत्यस्य परस्य सेतुत्वव्यपदेशात्। सेतुशब्दस्य च लोके कूलान्तरप्राप्तिहेतौ प्रसिद्धेरितोऽन्यदनेन प्राप्तव्यमस्तीति गम्यते। तथा एतं सेतुं तीर्त्वाऽन्धस्सन्ननन्धो भवति (छा.८.४.२) इति तरितव्यता चास्याभिधीयते, अतश्चान्यत्प्राप्यमस्ति। उन्मानव्यपदेशाच्च उन्मितं – परिमितं इदं परं ब्रह्म, चतुष्पाद्ब्रह्म (छा.३.१८.२) षोडशकलम् (प्रश्न.६.१) इत्युन्मानव्यपदेशात्। स चायमुन्मानव्यपदेशस्तेन सेतुना प्राप्यस्यानुन्मितस्यास्तितां द्योतयति। तथा सम्बन्धव्यपदेशश्च सेतुसेतुमतो: प्रापकत्वप्राप्यत्वलक्षणो दृश्यते, अमृतस्य परं सेतुं दग्धेन्धनमिवानलम् (श्वे.६.१९) अमृतस्यैष सेतु: (मु.२.२.५) इति। अतश्च परात्परमस्ति । भेदेन च परात्परं व्यपदिश्यते, परात्परं पुरुषमुपैति (मु.३.२.८) परात्परं यन्महतो महान्तम् (तै.नारा.१.५) इति च । तथा तेनेदं पूर्णं पुरुषेण सर्वम् (श्वे.३.९) ततो यदुत्तरतरं तदरूपमनामयम् (श्वे.३.१०) इति । अत एभ्यो हेतुभ्य: परस्माद्ब्रह्मण: परमपि किञ्चिदस्तीति गम्यत इति ॥३०॥
(सिद्धान्तारम्भः सेतुव्यपदेशोपपादनं च)
एवं प्राप्तेऽभिधीयते
३४५. सामान्यात्तु ॥ ३–२–३१ ॥
तुशब्द: पक्षं व्यावर्तयति; यत्तावदुक्तं सेतुव्यपदेशात्परात्परमस्तीति; तन्नोपपद्यते। न ह्ययमत्र किञ्चित्प्राप्यं प्रति सेतुरुच्यते, एषां लोकानामसम्भेदाय (छा.८.४.१,२) इति सेतुसामान्येन सर्वलोकासङ्करकरत्वश्रुते: । सिनोति-बध्नाति स्वस्मिन्सर्वं चिदचिद्वस्तुजातमसङ्कीर्णमिति सेतुः उच्यते। एतं सेतुं तीत्वा (छा.८.४.१,२) इति तरतिश्च प्राप्तिवचन: । यथा वेदान्तं तरति इति ॥३१॥
(उन्मानव्यपदेशस्य उपासनानुकूल्यार्थता)
३४६. बुद्ध्यर्थ: पादवत् ॥ ३–२–३२ ॥
योऽयं चतुष्पाद्ब्रह्म (छा.३.१८.२) षोडशकलम् (प्रश्न.६.१) पादोऽस्यविश्वा भूतानि (पु.सू) इत्युन्मानव्यपदेश:; स बुद्ध्यर्थ: – उपासनार्थ:, सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१.१) इत्यादिभिर्जगत्कारणस्य ब्रह्मणोऽपरिच्छिन्नत्वावगमात्स्वत उन्मितत्वासम्भवात् । जगत्कारणत्वं हि तस्यैव श्रूयते तस्माद्वा एतस्मादात्मन आकाशस्सम्भूत: (तै.आन.१.२) सोऽकामयत बहु स्यां प्रजायेयेति (तै.आन.६.२) इति। अतो यथा वाक्पाद: प्राण: पाद: चक्षु: पादो मन: पाद: (छा.३.१८.२) इत्यादिना ब्रह्मणो वागादिपादव्यपदेश उपासनार्थ: एवमयमपि॥३२॥
(अनुन्मितस्य उन्मितत्वानुसन्धानसाङ्गत्यम्)
स्वयमनुन्मितस्य कथमुपासनार्थतयाऽप्युन्मानसम्भव: – तत्राह
३४७. स्थानविशेषात्प्रकाशादिवत् ॥ ३–२–३३ ॥
प्रतिपन्नवागादिस्थानविशेषरूपोपाधिभेदात्तत्सम्बन्धितयोन्मितत्वानुसन्धानं सम्भवति; यथा प्रकाशाकाशादेर्विततस्य वातायनघटादिस्थानभेदै: परिच्छिद्यानुसन्धानसम्भव इत्यर्थ:॥३३॥
(ब्रह्मण्येकस्मिन्नेव प्राप्यप्रापकभावोपपत्त्या अन्यस्य परात्परस्यासिद्धिः)
३४८. उपपत्तेश्च ॥ ३–२–३४ ॥
यदुक्तम् – अमृतस्यैष सेतु: (मु.२.२.५) इति प्राप्यप्रापकसम्बन्धव्यपदेशात् प्रापकात्परं प्राप्यमस्तीति; तन्न, प्राप्यस्य परमपुरुषस्य स्वप्राप्तौ स्वस्यैवोपायत्वोपपत्ते:। नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमैवेष वृणुते तेन लभ्य: तस्यैष आत्मा विवृणुते तनूं स्वाम् (मु.३.२.३) इत्यनन्योपायत्वश्रवणात्॥३५॥
(श्रुतित एव परस्यान्यस्य निषेधात् परान्तरासिद्धिः)
३४९. तथाऽन्यप्रतिषेधात् ॥ ३–२–३५ ॥
यत्पुनरुक्तं – ततो यदुत्तरतरम् (श्वे.३.अ.१०) परात्परं पुरुषम् (मु.३.२.८) अक्षरात्परत: पर: (मु.२.१.२) इत्यादिभेदव्यपदेशात्परात्परमस्तीति – तन्नोपपद्यते, तत्रैव ततोऽन्यस्य परस्य प्रतिषेधात्, यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् (श्वे.३.९) इति। यस्मादपरं परं नास्ति किञ्चित् – न केनापि प्रकारेण परमस्तीत्यर्थ: । तथाऽन्यत्रापि न ह्येतस्मादिति नेत्यन्यत्परमस्ति (बृह.४.३.६) इति – इति नेति निर्दिष्टादेतस्माद्ब्रह्मणोऽन्यत्परं न ह्यस्तीत्यर्थ:। तथा न तस्येशे कश्चन तस्य नाम महद्यश: (तै.नारा.१.९) इति। तद्धि जगदुपादानकारणतयाऽनन्तरमुक्तं सर्वे निमेषा जज्ञिरे विद्युत: पुरुषादधि (तै.नारा.१.८) स आप: प्रदुघे उभे इमे (तै.ना.१.९) इत्यादिना। अद्भ्यस्सम्भूतो हिरण्यगर्भ इत्यष्टौ (तै.नारा.१.११) इति च जगत्कारणं पुरुषमेनं प्रत्यभिज्ञापयति।
(ततो यदुत्तरेति श्रुतिवाक्यस्य उचितार्थवर्णनाय शङ्का-तत्परिहारौ)
ततो यदुत्तरतरम् (श्वे.३.१०) इति किमुच्यत इति चेत् – पूर्वत्र वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमस: परस्तात् । तमेव विदित्वाऽतिमृत्युमेति नान्य: पन्था विद्यतेऽयनाय (श्वे.३.८.९) इति परस्य ब्रह्मणो महापुरुषस्य वेदनमेवामृतत्वसाधनम्, नान्योऽमृतत्वस्य पन्था इत्युपदिश्य तदुपपादनाय यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित्। वृक्ष इव स्तब्घो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् (श्वे.३.८.९) इति पुरुषस्य परत्वं, तद्व्यतिरिक्तस्य परत्वासम्भवञ्च प्रतिपाद्य ततो युदत्तरतरं तदरूपमनामयम् य एतद्विदुरमृतास्ते भवन्त्यथेतरे दु:खमेवापियन्ति (श्वे.३.१०) इति पूर्वोक्तमर्थं हेतुतो निगमयति – यदुत्तरतरं पुरुषतत्त्वम्, तदेवारूपमनामयं यत:, ततो य एतत्पुरुषतत्त्वं विदु:, त एवामृता भवन्ति, अथेतरे दु:खमेवापियन्ति इति। अन्यथोपक्रमविरोधोऽनन्तरोक्तिविरोधश्च। परात्परं पुरुषमुपैति दिव्यम् (मु.३.२.८) इति पूर्वत्र अक्षरात्परत:पर: (मु.२.१.२) इति अक्षरात् अव्याकृतात् य: पर: – समष्टिपुरुष:; तस्मात्परो योऽदृश्यत्वादिगुणकस्सर्वज्ञ: परमपुरुष:, स एवेहापि परात्पर: इति समष्टिपुरुषात्परत्वेनोच्यते॥३५॥
(जगत्कारणात्परस्यान्यस्याभावे प्रमाणस्पष्टीकरणम्)
३५०. अनेन सर्वगतत्वमायामशब्दादिभ्य: ॥ ३–२–३६ ॥
अनेन – ब्रह्मणा, सर्वगतत्वम् – सर्वस्य जगतो व्यप्तत्वम्, आयामशब्दादिभ्य: सर्वव्याप्तिवाचिशब्देभ्योऽवगम्यमानमस्मात्परं नास्तीत्यवगमयति । आयामशब्दस्तावत् तेनेदं पूर्णं पुरुषेण सर्वम् (श्वे.३.९) यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा॥ अन्तर्बहिश्च तत्सर्वं व्याप्य नारायण: स्थित: (पु.सू) नित्यं विभुं सर्वगतं सुसूक्ष्मं यद्भूतयोर्नि परिपश्यन्ति धीरा: (मु.१.१.६)। आदिशब्दात् ब्रह्मैवेदं सर्वम् (बृ.४-५-१) आत्मैवेदं सर्वम् (छां.८.२५.२) इत्यादयो गृह्यन्ते। अत इदं परं ब्रह्मैव सर्वस्मात्परम् ॥३६॥
इति श्रीशारीरकमीमांसाभाष्ये पराधिकरणम्॥ ७॥