श्रीशारीरकमीमांसाभाष्ये फलाधिकरणम् ॥ ९ ॥
(अधिकरणार्थः – फलप्रदत्वम्, उपासनप्रीतस्य परमात्मन एव, न केवलस्योपासनस्य)
३५१. फलमत उपपत्ते: ॥ ३–२–३७ ॥
(अवान्तरसङ्गत्यर्थमनुवादः)
उक्तमुपासिसिषोपजननार्थं जीवस्य सर्वावस्थासु सदोषत्वं, प्राप्यस्य च परमपुरुषस्य निर्दोषत्वं, कल्याणगुणाकरत्वं सर्वस्मात्परत्वञ्च; अत: परमुपासनं विवक्षन्नुपासीनानां परस्मादेवास्मात्पुरुषात्तत्प्राप्ति-रूपमपवर्गाख्यं फलिमिति सम्प्रति ब्रूते।
तुल्यन्यायतया शास्त्रीयमैहिकामुष्मिकमपि फलम्, अत एव परस्मात्पुरुषाद्भवतीति सामान्येन फलमत: इत्युच्यते।
(ईश्वरस्यैव फलप्रदत्वस्योपपन्नत्वम्)
कुत एतत्? उपपत्ते: – स एव हि सर्वज्ञस्सर्वशक्तिर्महोदारो यागदानहोमादिभिरुपासनेन चाराधित: ऐहिकामुष्मिकभोगजातं स्वस्वरूपावाप्तिरूपमपवर्गं च दातुमीष्टे; नह्यचेतनं कर्म क्षणध्वंसिकालान्तरभाविफलसाधनं भवितुमर्हाति ॥३७॥
(भगवतो भोगापवर्गदत्वस्य उपपन्नत्वम्)
३५२. श्रुतत्वाच्च ॥ ३–२–३८॥
स वा एष महानज आत्माऽन्नादो वसुदान: (बृ.६-४-२४) एष ह्येवानन्दयाति (तै.आनं.७-२) इति भोगापवर्गरूपं फलमयमेव ददातीति हि श्रूयते ॥३८॥
(एतदुपरि जैमिनिमतेन पूर्वपक्षः)
सम्प्रति पूर्वपक्षमाह
३५३. धर्मं जैमिनिरत एव ॥ ३–२–३९ ॥
अत एव – उपपत्ते:, शास्त्राच्च यागदानहोमोपासनरूपधर्ममेव फलप्रदं जैमिनिराचार्यो मन्यते। लोके हि कृष्यादिकर्म, दानादिकं च कर्म साक्षाद्वा, परम्परया वा स्वयमेव फलसाधनं दृष्टम्; एवं वेदेऽपि यागदानहोमादीनां साक्षात्फलसाधनत्वाभावेऽपि परम्परया अपूर्वद्वारेण फलसाधनत्वमुपपद्यते।
तथा यजेत स्वर्गकाम: (यजु.२.५.५) इत्यादिशास्त्रमपि सिषाधयिषितस्वर्गस्य कर्तव्यतया यागाद्यभिदधदन्यथानुपपत्त्या अपूर्वद्वारेण फलसाधनत्वमवगमयति॥३९॥
(बादरायणमतेन सिद्धान्तकथनम्)
३५४. पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥ ३–२–४० ॥
तु शब्द: पक्षव्यावृत्त्यर्थ:; पूर्वोक्तं परमपुरुषस्यैव फलप्रदत्वं भगवान्बादरायणो मन्यते। कुत:? हेतुव्यपदेशात् – यज् देवपूजायाम् (धातु. भ्वादि) इति देवताराधनभूतयागाद्याराध्यभूताग्नि-वाय्वादिदेवतानामेव तत्तत्फलहेतुतया तस्मिंस्तस्मिन्नपि वाक्ये व्यपदेशात्। वायव्यं श्वेतमालभेत भूतिकामो वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति (यजु.२.कां.१.१) इत्यादिषु कामिनस्सिषाधयिषितफलसाधनत्वप्रकारोपदेशोऽपि विध्यपेक्षित एवेति नातत्परत्वशङ्का युक्ता। एवमपेक्षितेऽपि फलसाधनत्वप्रकारे शब्दादेवावगते सति तत्परित्यागमश्रुतापूर्वादि- परिकल्पनं च प्रामाणिका न सहन्ते ।
(कल्प्यापूर्ववादस्येव वाच्यापूर्ववादस्यापि अप्रामाणिकता)
लिङ्गादयोऽपि देवताराधनभूतयागादे: प्रकृत्यर्थस्य कर्तृव्यापारसाध्यतां व्युत्पत्तिसिद्धां शब्दानुशासनानुमतामभिदधति; नान्यदलौकिकमिति प्रागेवोक्तम्। तदेवं वायुर्वै क्षेपिष्ठा देवता (यजु.२.कां.१.१) इत्यादिशब्दाद्वाय्वादीनां फलप्रदत्वमवगम्यते । वाय्वाद्यात्मना च परमपुरुष एवाराध्यतया फलप्रदायित्वेन चावतिष्ठत इति श्रूयते इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभि:। तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमा: (तै.ना.१.६) इति। अन्तर्यामिब्राह्मणे च यो वायौ तिष्ठन्यस्य वायुश्शरीरम् (बृ.५.७.७) योऽग्नौ तिष्ठन् (बृ.५.७.५) य आदित्ये तिष्ठन् (बृह.५.७९) इत्यादि श्रूयते । स्मर्यते च यो यो यां यां तनुं भक्त: श्रद्धयाऽर्चितुमिच्छति। तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्॥ स तया श्रद्धया युक्तस्तस्याराधनमीहते। लभते च तत: कामान् मयैव विहितान् हि तान् (भ.गी.७.२१,२२,२३) इति, अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च (भ.गी.९.२४) इति। प्रभुरिति फलप्रदायीत्यर्थ:। देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि (भ.गी.७.२३) यान्ति मद्याजिनोऽपि माम् (गी.९.२५) इति च ॥
(उक्तस्यार्थस्य लोकादृष्टानुगुण्यम्)
लोके च कृष्यादिभिर्विचित्ररूपान् द्रव्यविशेषान् सम्पाद्य तै: राजानं भृत्यद्वारेण साक्षाद्वाऽर्चयन्ति; अर्चितश्च राजा तत्तदर्चनानुगुणं फलं प्रयच्छन् दृश्यते। वेदान्तास्त्वतिपतित-सकलेतरप्रमाणसम्भावनाभूमिं निरस्तसमस्ताविद्यादिदोषगन्धं स्वाभाविकानवधिकातिशयापरिमित- उदारगुणसागरं पुरुषोत्तमं प्रतिपाद्य, तदाराधनरूपाणि च यागदानहोमात्मकानि, स्तुतिनमस्कार-कीर्तनार्चनध्यानानि च तदाराधनानि, आराधि-तात्परस्मात्पुरुषाद्भोगापवर्गरूपं फलं च, वदन्तीति सर्वं समञ्जसम् ॥ ४०॥
इति श्रीशारीरकमीमांसाभाष्ये फलाधिकरणम्॥ ८॥
इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये तृतीयाध्याये द्वितीय: पाद:॥२॥