[highlight_content]

श्रीभाष्यम् 03-02-08 फलाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये फलाधिकरणम्

(अधिकरणार्थः – फलप्रदत्वम्, उपासनप्रीतस्य परमात्मन एव, न केवलस्योपासनस्य)

३५१. फलमत उपपत्ते: ३७

(अवान्तरसङ्गत्यर्थमनुवादः)

उक्तमुपासिसिषोपजननार्थं जीवस्य सर्वावस्थासु सदोषत्वं, प्राप्यस्य च परमपुरुषस्य निर्दोषत्वं, कल्याणगुणाकरत्वं सर्वस्मात्परत्वञ्च; अत: परमुपासनं विवक्षन्नुपासीनानां परस्मादेवास्मात्पुरुषात्तत्प्राप्ति-रूपमपवर्गाख्यं फलिमिति सम्प्रति ब्रूते।

तुल्यन्यायतया शास्त्रीयमैहिकामुष्मिकमपि फलम्, अत एव परस्मात्पुरुषाद्भवतीति सामान्येन  फलमत: इत्युच्यते।

(ईश्वरस्यैव फलप्रदत्वस्योपपन्नत्वम्)

कुत एतत्? उपपत्ते: – स एव हि सर्वज्ञस्सर्वशक्तिर्महोदारो यागदानहोमादिभिरुपासनेन चाराधित: ऐहिकामुष्मिकभोगजातं स्वस्वरूपावाप्तिरूपमपवर्गं च दातुमीष्टे; नह्यचेतनं कर्म क्षणध्वंसिकालान्तरभाविफलसाधनं  भवितुमर्हाति ॥३७॥

(भगवतो भोगापवर्गदत्वस्य उपपन्नत्वम्)

३५२. श्रुतत्वाच्च ३८॥

वा एष महानज आत्माऽन्नादो वसुदान: (बृ.६-४-२४) एष ह्येवानन्दयाति (तै.आनं.७-२) इति भोगापवर्गरूपं फलमयमेव ददातीति हि श्रूयते ॥३८॥

(एतदुपरि जैमिनिमतेन पूर्वपक्षः)

सम्प्रति पूर्वपक्षमाह

३५३. धर्मं जैमिनिरत एव ३९

अत एव – उपपत्ते:, शास्त्राच्च यागदानहोमोपासनरूपधर्ममेव फलप्रदं जैमिनिराचार्यो मन्यते। लोके हि कृष्यादिकर्म, दानादिकं च कर्म साक्षाद्वा, परम्परया वा स्वयमेव फलसाधनं दृष्टम्; एवं वेदेऽपि यागदानहोमादीनां साक्षात्फलसाधनत्वाभावेऽपि परम्परया अपूर्वद्वारेण फलसाधनत्वमुपपद्यते।

तथा  यजेत स्वर्गकाम: (यजु.२.५.५) इत्यादिशास्त्रमपि  सिषाधयिषितस्वर्गस्य कर्तव्यतया यागाद्यभिदधदन्यथानुपपत्त्या अपूर्वद्वारेण फलसाधनत्वमवगमयति॥३९॥

(बादरायणमतेन सिद्धान्तकथनम्)

३५४. पूर्वं तु बादरायणो हेतुव्यपदेशात् ४०

तु शब्द: पक्षव्यावृत्त्यर्थ:; पूर्वोक्तं परमपुरुषस्यैव फलप्रदत्वं भगवान्बादरायणो मन्यते। कुत:? हेतुव्यपदेशात् – यज् देवपूजायाम् (धातु. भ्वादि) इति देवताराधनभूतयागाद्याराध्यभूताग्नि-वाय्वादिदेवतानामेव तत्तत्फलहेतुतया तस्मिंस्तस्मिन्नपि वाक्ये व्यपदेशात्।  वायव्यं श्वेतमालभेत भूतिकामो वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति एवैनं भूतिं गमयति (यजु.२.कां.१.१) इत्यादिषु कामिनस्सिषाधयिषितफलसाधनत्वप्रकारोपदेशोऽपि विध्यपेक्षित एवेति नातत्परत्वशङ्का युक्ता। एवमपेक्षितेऽपि फलसाधनत्वप्रकारे शब्दादेवावगते सति तत्परित्यागमश्रुतापूर्वादि- परिकल्पनं च प्रामाणिका न सहन्ते ।

(कल्प्यापूर्ववादस्येव वाच्यापूर्ववादस्यापि अप्रामाणिकता)

लिङ्गादयोऽपि देवताराधनभूतयागादे: प्रकृत्यर्थस्य कर्तृव्यापारसाध्यतां व्युत्पत्तिसिद्धां शब्दानुशासनानुमतामभिदधति; नान्यदलौकिकमिति प्रागेवोक्तम्। तदेवं  वायुर्वै क्षेपिष्ठा देवता (यजु.२.कां.१.१) इत्यादिशब्दाद्वाय्वादीनां फलप्रदत्वमवगम्यते । वाय्वाद्यात्मना च परमपुरुष एवाराध्यतया फलप्रदायित्वेन चावतिष्ठत इति श्रूयते  इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभि: तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमा: (तै.ना.१.६) इति। अन्तर्यामिब्राह्मणे च  यो वायौ तिष्ठन्यस्य वायुश्शरीरम् (बृ.५.७.७)  योऽग्नौ तिष्ठन् (बृ.५.७.५)  आदित्ये तिष्ठन् (बृह.५.७९) इत्यादि श्रूयते । स्मर्यते च  यो यो यां यां तनुं भक्त: श्रद्धयाऽर्चितुमिच्छति। तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्॥ तया श्रद्धया युक्तस्तस्याराधनमीहते। लभते तत: कामान् मयैव विहितान् हि तान् (भ.गी.७.२१,२२,२३) इति, अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च (भ.गी.९.२४) इति। प्रभुरिति फलप्रदायीत्यर्थ:।  देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि (भ.गी.७.२३)  यान्ति मद्याजिनोऽपि माम् (गी.९.२५) इति च  ॥

(उक्तस्यार्थस्य लोकादृष्टानुगुण्यम्)

लोके च कृष्यादिभिर्विचित्ररूपान् द्रव्यविशेषान् सम्पाद्य तै: राजानं भृत्यद्वारेण साक्षाद्वाऽर्चयन्ति;  अर्चितश्च राजा तत्तदर्चनानुगुणं फलं प्रयच्छन् दृश्यते। वेदान्तास्त्वतिपतित-सकलेतरप्रमाणसम्भावनाभूमिं निरस्तसमस्ताविद्यादिदोषगन्धं स्वाभाविकानवधिकातिशयापरिमित- उदारगुणसागरं पुरुषोत्तमं प्रतिपाद्य, तदाराधनरूपाणि च यागदानहोमात्मकानि, स्तुतिनमस्कार-कीर्तनार्चनध्यानानि च तदाराधनानि, आराधि-तात्परस्मात्पुरुषाद्भोगापवर्गरूपं फलं च, वदन्तीति सर्वं समञ्जसम् ॥ ४०॥

इति श्रीशारीरकमीमांसाभाष्ये फलाधिकरणम्॥ ८॥

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये तृतीयाध्याये द्वितीय: पाद:॥२॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.