श्रीशारीरकमीमांसाभाष्ये आनन्दाद्यधिकरणम्॥४॥
(आनन्दमयविद्या – तै.उ. आन)
(अधिकरणार्थः – आनन्दादिब्रह्मगुणानां सर्वासु परविद्यासूपसंहारः)
(ससङ्गतिः सूत्रावतरणिका)
प्राणाविद्याविषयमन्यदपि निरूपणमनन्तरमेव करिष्यते।
यथा प्राणस्य वसिष्ठत्वाद्यनुसन्धानेन विना ज्यैष्ठ्यश्रैष्ठ्यानुसन्धनानुपपत्तेरनुक्तानामपि वसिष्ठत्वादीनां कौषीतकिप्राणविद्यायां प्राप्ति:; तथा ब्रह्मस्वरूपानुसन्धानं यैर्गुणैर्विना नोपपद्यते; ते ब्रह्मविद्यासु सर्वास्वप्यनुसन्धेया इत्ययमर्थ: – प्रतिपाद्यते।
३६५. आनन्दादय: प्रधानस्य ॥ ३–३–११ ॥
(विचारणीयो विषयः)
अत्र ब्रह्मस्वरूपगुणानां सर्वासु परविद्यासूपसंहारोऽस्ति, नेति विचार्यते।
(पूर्वपक्षः युक्तिसहितः)
अप्रकरणाधीतानामुपसंहारे प्रमाणाभावात्प्रकरणश्रुतानामेवोपसंहार इति।
(सिद्धान्तः सयुक्तिकः)
एवं प्राप्ते ब्रूम: – आनन्दादय: प्रधानस्य – अभेदादिति वर्तते; प्रधानस्य गुणिनो ब्रह्मणस्सर्वेषूपासनेष्वभेदात्, गुण्यपृथग्भावाद्गुणानां, सर्वत्रानन्दादयस्तद्गुणा उपसंहर्तव्या: ॥११॥
(प्रियशिरस्त्वादीनामपि सर्वत्रोपसंहारशङ्का-तन्निरासौ)
एवं तर्हि गुण्यपृथग्भावादेवानन्दादिवत्प्रियशिरस्त्वादयोऽपि तस्य प्रियमेव शिर: (तै.आन.५.२) इत्यादौ ब्रह्मगुणत्वेन श्रुतास्सर्वत्र प्रसज्येरन्; नेत्याह –
३६६. प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ ३–३–१२ ॥
ब्रह्मस्वरूपगुणानां प्राप्तावुच्यमानायां प्रियशिरस्त्वादीनामप्राप्ति:, तेषामब्रह्मगुणत्वात्; ब्रह्मण:पुरुषविधत्वरूपणमात्रान्तर्गतत्वात्प्रियशिरस्त्वादीनाम्। अन्यथा शिर:पक्षुपुच्छाद्यवयवभेदे सति ब्रह्मणोऽप्युपचयापचयौ प्रसज्येयाताम्। तथा च सति सत्यं ज्ञानमनन्तं ब्रह्म (तै.आ.१.१) इत्यादि विरुध्यते ॥१२॥
(अश्रुतानामप्युपसंहारे सर्वत्रापि सर्वप्रसक्ति-तत्परिहारौ)
नन्वेवमेव ब्रह्मसम्बन्धिनामेवैश्वर्यगाम्भीर्यौदार्यकारुण्यादीनां गुणानामनन्तानां गुण्यपृथक्स्थितत्वमात्रेण, तत्राश्रुतानामप्युपसंहारे सर्वे सर्वत्र प्रसज्येरन्, आनन्त्यादुपसंहाराशक्तिश्च; तत्राह –
३६७. इतरे त्वर्थसामान्यात् ॥ ३–३–१३ ॥
तुशब्दश्चोद्यं व्यावर्तयति; इतरेतु – आनन्दादय: अर्थसामान्यात्सर्वत्रानुवर्तन्ते । ये त्वर्थसमाना: – अर्थस्वरूपनिरूपणधर्मत्वेनार्थप्रतीत्यनुबन्धिन:; तेऽर्थस्वरूपवत्सर्वत्रानुवर्तन्ते। ते च गुणास्सत्यज्ञानानन्दामलत्वानन्तत्वानि।
(आनन्दादीनां श्रुतितः अर्थप्रतीत्यनुबन्धित्वदर्शनम्)
यतो वा इमानि (तै.भृगु.१) इत्यादिना जगत्कारणतयोपलक्षितं ब्रह्म सत्यं ज्ञानमनन्तं ब्रह्म (तै.आ.१.१) आनन्दो ब्रह्म (तै.भृगु.६.१) इत्यानन्दादिभिर्हि स्वरूपतो निरूप्यते। अत उपास्यब्रह्मस्वरूपावगमाय सर्वासु विद्यास्वानन्दादयोऽनुवर्तन्ते।
(गुणानां विद्याविशेषप्रतीतिनियमे हेतुः)
ये तु निरूपितस्वरूपस्य ब्रह्मण: कारुण्यादयो गुणा: प्रतिपन्ना:; तेषां गुण्यपृथक्स्थितत्वेऽपि प्रतीत्यनुबन्धित्वाभावात् – ये यत्र श्रुता:, ते तत्रोपसंहार्या: इति निरवद्यम् ॥१३॥
(प्रियशिरस्त्वादीनामपि श्रुतितः अर्थप्रतीत्यनुबन्धित्वदर्शनम्)
यत्तूपचयापचयप्रसङ्गात्प्रियशिरस्त्वादयो ब्रह्मण: पुरुषविधत्वरूपणमात्रार्था:; न तु ब्रह्मगुणा:। तर्ह्यतथारूपस्य ब्रह्मणस्तथात्वेन रूपणं किमर्थं क्रियते; अतथाभूतस्य हि तथात्वरूपणे केनचित्प्रयोजनेन भवितव्यम्; यथा आत्मानं रथिनं विद्धि (कठ.१.३.३) इत्यादिनोपासकस्य तदुपकरणानां च रथिरथादित्वरूपणमुपासनोपकरणभूतशरीरेन्द्रियादिवशीकरणार्थं क्रियत इत्युक्तम्। न चेह तथाविधं किञ्चिप्रयोजनं दृश्यते इति बलाद्ब्रह्मगुणत्वं प्रियशिरस्त्वादीनामभ्युपेत्यम्। तत्राह
३६८. आध्यानाय प्रयोजनाभावात् ॥ ३–३–१४ ॥
(शिरःपक्षादिरूपणोपयोगः)
प्रयोजनान्तराभावादाध्यानायायं रूपणोपदेश: क्रियते । आध्यानम् – अनुचिन्तनम्, उपासनमुच्यते। ब्रह्मविदाप्नोति परम् (तै.आ.१.१) इत्यत्रोपदिष्टाध्यानरूपवेदनसिद्धये ह्यानन्दमयब्रह्मप्रतिपत्त्यर्थमानन्दमयं ब्रह्म प्रियमोदादिरूपेण विभज्य शिर:पक्षादित्वेन रूपयित्वोपदिश्यते। यथाऽन्नमय: पुरुष: अयं देह: शिर:पक्षादिभि:; तस्येदमेव शिर: (तै.आ.१.१) इत्यादिना बुद्धावारोप्यते; यथा च प्राणमयमनोमयविज्ञानमया: तस्य प्राण एव शिर: (तै.आ.२.३) इत्यादिना प्राणाद्यवयवैर्बुद्धावारोप्यन्ते; एवमेभ्योऽर्थान्तरभूतस्तदन्तरात्मा आनन्दमयोऽपि प्रियमोदादिभिरेकदेशै: शिर:प्रभृतित्वेन रूपितैराध्यानाय बुद्धावारोप्यते। एवमानन्दमयोपलक्षणत्वात् प्रियशिरस्त्वादीनां न सर्वदा आनन्दमयप्रतीतावनुवर्तन्ते ॥१४॥
३६९. आत्मशब्दाच्च ॥ ३–३–१५॥
(शिरःपक्षपुच्छादिरूपणस्य शास्त्रोक्तार्थसुखप्रतिपत्त्यर्थता)
अन्योऽन्तर आत्माऽऽनन्दमय: (तै.आन.५.२) इत्यात्मशब्देन निर्देशादात्मनश्च शिर:पक्षपुच्छासम्भवात्प्रियशिरस्त्वादयस्तस्य सुखप्रतिपत्त्यर्थं रूपणमात्रमिति गम्यते ॥१५॥
(आत्मशब्दस्य अनात्मसाधारणत्वशङ्का-तत्परिहारौ)
ननु अन्योऽन्तर आत्मा प्राणमय: (तै.आन.२.१) अन्योऽन्यर आत्मा मनोमय: (तै.आन.३.२) इत्यात्मशब्दस्यानात्मस्वपि पूर्वं प्रयुक्तत्वात् अन्योऽन्तर आत्माऽऽनन्दमय: (तै.आन.५२) इत्यात्मशब्दस्य परमात्मविषयत्वं कथं निश्चीयते? तत्राह –
३७०. आत्मगृहीतिरितरवदुत्तरात् ॥ ३–३–१६ ॥
अन्योऽन्तर आत्माऽऽनन्दमय: (तै.आ.५.२) इत्यत्रात्मशब्देन परमात्मन एव ग्रहणम्, इतरवत् – यथेतरत्र आत्मा वा इदमेक एवाग्र आसीत् स ईक्षत लोकान्नु सृजै (ऐत.१.१.१) इत्यादिष्वात्मशब्देन परमात्मन एव ग्रहणम्; तद्वत् । कुत एतत्? उत्तरात् – सोऽकामयत बहु स्यां प्रजायेय (तै.आन.६.२) इत्यानन्दमयविषयादुत्तराद्वाक्यात् ॥१६॥
(उत्तरवाक्यस्य परमात्मविषयकत्वानिश्चयशङ्का-तन्निरासौ)
३७१. अन्वयादिति चेत्स्यादवधारणात् ॥ ३–३–१७ ॥
पूर्वत्र प्राणमयादिष्वनात्मस्वात्मशब्दान्वयदर्शनान्नोत्तरान्निश्चेतुं शक्यत इति चेत् – स्यादवधारणात् – स्यादेव निश्चय:; कुत:? अवधारणात् पूर्वत्रापि तस्माद्वा एतस्मादात्मन आकाशस्सम्भूत: (तै.आन.१.२) इति परमात्मन एव बुद्ध्याऽवधारितत्वात् अन्नमयादनन्तरे प्राणमये प्रथमं परमात्मबुद्धिरवतीर्णा; तदनन्तरं च प्राणमयादनन्तरे मनोमये; ततो विज्ञानमये, तत आनन्दमये प्रक्रान्ता परमात्मबुद्धिस्तदन्तराभावादुत्तराच्च सोऽकामयत (तै.आन.६.२) इति वाक्यात्प्रतिष्ठितेत्युपक्रमेऽप्यपरमात्मनि परमात्मबुद्ध्या आत्मशब्दान्वय इति निरवद्यम्॥१७॥
इति श्रीशारीरकमीमांसाभाष्ये आनन्दाद्यधिकरणम्॥४॥