श्रीशारीरकमीमांसाभाष्ये सम्भृत्यधिकरणम् ॥८॥
(अधिकरणार्थः – शास्त्राविशेषश्रुतानां सम्भृत्यादीनां ब्रह्मगुणानां सर्वविद्यास्वनुपसंहारः)
३७७. सम्भृतिद्युव्याप्त्यपि चात: ॥ ३–३–२३ ॥
(विचारणीयविषयोपस्थापनम्)
तैत्तिरीयके नारायणीयानां खिलेषु च ब्रह्म ज्येष्ठा वीर्या सम्भृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान । ब्रह्म भूतानां प्रथमोऽत जज्ञे तेनार्हाति ब्रह्मणा स्पर्धितुं क: इति ब्रह्मणि ज्येष्ठानां वीर्याणां सम्भृति: द्युव्याप्तिश्चेत्यादिगुणजातमाम्नातम् ।
(अधिकरणीयपूर्वपक्षशरीरम्)
तेषामुपासनविशेषमनारभ्याधीतानां गुणानां सर्वासु विद्यासूपसंहारे प्राप्त
(सूत्रतः सिद्धान्तार्थः)
उच्यते – सम्भृतिद्युव्याप्त्यपि इति । सम्भृतिद्युव्याप्तीति समाहारद्वन्द्वत्वात् एकवद्भाव: । सम्भृत्यादिकमनारभ्याधीतमपि अत एव स्थानभेदाद्व्यवस्थाप्यम्; न सर्वत्रोपसंहर्तव्यम्। कथमनारभ्याधीतानां स्थानविशेषनियतत्वम्? स्वसामर्थ्यादिति ब्रूम:। द्युव्याप्तिस्तावत् हृदयाद्यल्पस्थानगोचरासु विद्यासु नोपसंहर्तुं शक्या; सम्भृत्यादयोऽपि तत्सहचारिणस्तत्तुल्यदेशा इत्यल्पस्थानविषयासु विद्यास्वनुपसंहार्या: ।
(अल्पस्थानविषयोपासनेषु ज्यायस्त्वोक्तेराशयः)
शाण्डिल्यदहरादिविद्यास्वल्पस्थानविषयासु ज्यायान् पृथिव्या: (छा.३.१४.३) यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृादय आकाश: (छा.८.१.३) इत्यादयस्तत्रतत्राशक्योपसंहारा: मनोमयत्वापहतपाप्मत्वादि विशिष्टस्योपास्यस्य माहात्म्यप्रतिपादनपरा:॥
इति श्रीशारीरकमीमांसाभाष्ये सम्भृत्यधिकरणम् ॥८॥