श्रीशारीरकमीमांसाभाष्ये वेधाद्यधिकरणम्॥१०॥
(अधिकरणार्थः – शुक्रं प्रविध्येत्येवमादीनां आथर्वणिकादिभिरधीयमानानां मन्त्राणां अध्ययनाङ्गत्वमेव, न विद्याङ्गता)
(विचारणीयविषयोपस्थानम्)
३७९. वेधाद्यर्थभेदात् ॥ ३–३–२५ ॥
(विचारणीयविषयोपस्थानम्)
आथर्वणिका उपनिषदारम्भे शुक्रं प्रविध्य हृदयं प्रविध्य (अथर्व.उ.१) इत्यादीन्मन्त्रानधीयते; सामगाश्च रहस्यब्राह्मणारम्भे देव सवित: प्रसुव यज्ञं प्रसुव (साम.ब्रा.१.१.१) इत्याद्यामनन्ति, काठकास्तैत्तिरीयकाश्च शं नो मित्रश्शंवरुण: (तै.शि.१) इत्यादिकम्; शाट्यायनिश्च श्वेतोऽश्वो हरिनीलोऽसि इत्यादिकम्; ऐतरेयिणस्तु महाव्रतब्राह्मणमधीयते इन्द्रो ह वै वृत्रं हत्वा महानभवत् इत्यादि; कौषीतकिनोऽपि महाव्रतब्राह्मणमेव प्रजापतिर्वै संवत्सरस्तस्यैष आत्मा यन्महाव्रतम् इति, वाजसनेयिनस्तु प्रवर्ग्यब्राह्मणं देवा हवै सत्रं निषेदु: इत्यादि।
(संशयीयकोटिस्वरूपम्)
तत्र संशय: – किमुपनिषदारम्भेष्वधीता: शुक्रं प्रविध्य (अथर्व.उ.१), शं नो मित्र: (तै.शिक्षा.१) इत्यादयो मन्त्रा: प्रवर्ग्यादीनि च कर्माणि विद्याङ्गम्, उत नेति।
(पूर्वपक्षः सहेतुकः)
किं युक्तम्? विद्याङ्गमिति। कुत:? सन्निधिसमाम्नानात् विद्याङ्गत्वप्रतीते:।
(वेधमन्त्रस्य अन्याङ्गत्वेऽपि शन्न आदेः विद्याङ्गत्वशङ्का)
यद्यपि शुक्रं प्रविध्य इत्यादीनां मन्त्राणां प्रवर्ग्यादेश्च कर्मण: श्रुतिलिङ्गवाक्यैर्बलवद्भिर्यथायथं कर्मसु विनियोगोऽवगम्यते, तथाऽपि शं नो मित्र: (तै.शी) सह नाववतु (तै.आन.१) इत्यादेर्मन्त्रस्यान्यत्र विनियोगाभावाद्विद्याधिकाराच्च विद्याङ्गत्वमवर्जनीयिमिति सर्वासु विद्यासु इमे मन्त्रा: उपसंहर्तव्या:-
(सूत्रार्थविवरणतः सिद्धान्तः)
एवं प्राप्ते प्रचक्ष्महे – वेधाद्यर्थभेदात् । शुक्रं प्रविध्य हृदयं प्रविध्य, ऋतं वदिष्यामि, सत्यं वदिष्यामि (तै.शिक्षा.१) ऋतमवादिषं, सत्यमवादिषं (तै.उ.शिक्षा.१२.१) तेजिस्वनाऽवधीतमस्तु मा विद्वषावहै (तै.भृगु.१.१) इत्यादिभिर्लिङ्गैरभिचाराध्ययनादिष्वेषां विनियोगावगमान्न विद्याङ्गत्वम् ।
(सूत्रे वेधकण्ठोक्तेः दृष्टान्ततयाऽन्वयः)
एतदुक्तं भवति- यथा हृदयं प्रविध्य इत्यादिमन्त्रसामर्थ्यात् शुक्रं प्रविध्य इत्यादीनामभिचारादिशेषत्वमवगम्यते, एवमेव ऋतं वदिष्यामि (तै.शिक्षा.१.अनु) तेजिस्वनावधीतमस्तुु इत्यादिमन्त्रसामर्थ्यादेव स्वाध्यायशेषत्वं शं नो मित्र: (तै.शिक्षा.१) इत्यादिमन्त्राणामवगम्यते; अतो न तेषां विद्याङ्गत्वम् इति शुक्रं प्रविध्य इत्यादीनां प्रवर्ग्यादिब्राह्मणानां चेह पाठो दिवाकीर्त्यत्वारण्येऽनुवाक्यत्वकृत:॥२५॥
इति श्रीशारीरकमीमांसाभाष्ये वेधाद्यधिकरणम् ॥१०॥