श्रीशारीरकमीमांसाभाष्ये हान्यधिकरणम्॥११॥
(अधिकरणार्थः – विविधश्रुतिप्रतिपन्नयोरपि विदुषः पुण्य-पापहानोपायनयोः समन्येन सर्वविद्यासु चिन्तनम्)
३८०. हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दस्स्तुत्युपगानवत्तदुक्तम् ॥ ३–३–२६ ॥
(विचारणीयविषयोपस्थापनम्)
छन्दोगा आमनन्ति – अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य। धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानि (छा.८.१३.१) इति; आथर्वणिकाश्च तदा विद्वान् पुण्यपापे विधूय निरञ्जन: परमं साम्यमुपैति (मु.३.१.३) इति; शाट्यायिनस्तु तस्य पुत्रा दायमुपयन्ति सुहृदस्साधुकृत्यां द्विषन्त: पापकृत्याम् इत्यादि; कौषीतकिनस्तु तत्सुकृतदुष्कृते धूनुते तस्य प्रिया ज्ञातयस्सुकृतमुपयन्ति अप्रिया दुष्कृतम् (कौषी.१.अ.४) इति। एवं क्वचित्पुण्यपापयोर्हानि:, क्वचित्प्रियाप्रियेषु तत्प्राप्ति:, क्वचिदुभयं च श्रुतम्। तदुभयमेकैकविद्यायां श्रुतमपि सर्वविद्याङ्गमास्थेयम्, सर्वब्रह्मविद्यानिष्ठस्यापि ब्रह्म प्राप्नुवत: पुण्यपापप्रहाणस्यावश्यंभावित्वात् प्रहीणविषयत्वाच्चोपायनस्य। तच्चिन्तनं च विधीयमानं सर्वविद्याङ्गं भवितुमर्हाति। तत्रेदं विचार्यते – हानिचिन्तनमुपायनचिन्तनमुभयचिन्तनं च विकल्प्येरन्, उपसंह्रियेरन्वा । किं युक्तम्? विकल्प्येरन्निति। कुत:? पृथगाम्नानसामर्थ्यात् । समुच्चये हि सर्वत्रोभयानुसन्धानं स्यात्, तच्च कौषीतकीवाक्यैनैव सिद्धमित्यन्यत्राम्नानमनर्थकमेव स्यात् । अतोऽनेकत्राम्नानस्य विकल्प एव प्रयोजनम्। न चाध्येतृभेदेन परिहर्तुं शक्यमनेकत्राम्नानम्, अविशेषपुनश्श्रवणं ह्यध्येतृभेदपरिहार्यम्, अत्र तु हानिरेव द्वयो: शाखयो:, उपायनमेव चैकस्याम् । न च विद्याभेदेन व्यवस्थापयितुं शक्यम्, सर्वशेषभूतमिदमनुसन्धानमित्युक्तत्वात्॥
(अत्र सूत्रविवरणतः सिद्धान्तः)
अत्रेदमुच्यते – हानौ तूपायनशब्दशेषत्वात् – इति। तु शब्द: पक्षं व्यावर्तयति, हानाविति प्रदर्शनार्थम्, केवलायां हानौ केवले चोपायने श्रूयमाणे तयोरितरेतरसमुच्चयोऽवश्यंभावी; कुत:? उपायनशब्दशेषत्वात् उपायनशब्दस्य हानिवाक्यशेषत्वात् । उपायनवाक्यस्य हि हानिवाक्यशेषत्वेमेवोचितम्, विदुषा त्यक्तयो: पुण्यपापयो: प्रवेशस्थानवाचित्वादुपायनवाक्यस्य ।
(सूत्रोत्तरखण्डोक्तदृष्टान्तविवरणम्)
प्रदेशान्तराम्नातस्य वाक्यस्य प्रदेशान्तराम्नातवाक्यशेषत्वे दृष्टान्ता उपन्यस्यन्ते – कुशाच्छन्दस्स्तुत्युपगानवदिति। कालापिन: कुशा वानस्पत्या: इत्यामनन्ति; शाट्यायनिनां तु औदुम्बर्य: कुशा: इति वाक्यं सामान्येन वानस्पत्यत्वेनावगता: कुशा: औदुम्बर्य इति विशिंषत्तद्वाक्यशेषतामापद्यते; तथा देवासुराणां छन्दोभि: इत्यादिना अविशेषेण देवासुराणां छन्दसां प्रसङ्गे देवच्छन्दांसि पूर्वम् इति वचनं क्रमविशेषं प्रतिपादयत्तद्वाक्यशेषतां गच्छति; तथा हिरण्येन षोडशिन: स्तोत्रमुपाकरोति इत्यविशेषेण प्राप्ते समयाविशिते सूर्ये षोडशिन: स्तोत्रमुपाकरोति (तै.सं.कां.६.११) इति विशेषविषयं वाक्यं तद्वाक्यशेषतां भजते; तथा ऋत्विज उपगायन्ति (पू.मी.१०.४.६) इत्यविशेषप्राप्तस्य नाध्वर्युरुपगायेत् (तै.सं.६.कां.३.१.६) इति वाक्यमनध्वर्युविषयतामवगमयत् तद्वाक्यशेषत्वमृच्छति; एवं सामान्येनावगतमर्थं विशेषे व्यवस्थापयितुं क्षमस्य वाक्यस्य तत्छेषत्वमनभ्युपगच्छद्भिस्तयोरर्थयोर्विकल्पस्समाश्रयितव्य:; स च सम्भवन्त्यां गतौ न युज्यते ।
(तदुक्तमिति सूत्रखण्डविवरणम्)
तदुक्तं पूर्वस्मिन् काण्डे अपि तु वाक्यशेषस्स्यादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेश: स्यात् (जैमि.सू.१०.८.४) इति। तदेवं केवलहानोपायनवाक्ययोरेकवाक्यत्वात्केवलस्य हानस्य, केवलस्यचोपायनस्याभावाद्विकल्पो नोपपद्यते। कौषीतकिनामुभयाम्नानमविशेषपुनश्श्रवणत्वेन प्रतिपत्तृभेदादविरुद्धम् ॥२६॥
इति श्रीशारीकमीमांसाभाष्ये हान्यधिकरणम्॥११॥