श्रीशारीरकमीमांसाभाष्ये अक्षरध्यधिकरणम्॥१४॥
(अधिकरणार्थः – अक्षरपरब्रह्मविद्योक्तानां अस्थूलत्वादीनां ब्रह्मगुणानां सर्वासु परविद्यासूपसंहारः)
३८७. अक्षरधियां त्ववरोधस्सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥ ३–३–३३ ॥
(विचारणीयविषयोपस्थापनम्)
बृहदारण्यके श्रूयते एतद्वै तदक्षरं गार्गि ब्रह्मणा अभिवदन्ति अस्थूलमनणु अह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसमगन्धमचक्षुश्श्रोत्रं अवाङ्मनः अतेजस्कं अप्राणमसुखममात्रमनंतरमबाह्यं न तदश्नाति किञ्चन एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत: (बृह.५.८.८) इति। तथा आथर्वणे अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुश्श्रोत्रं तदपाणिपादम् (मु.१.१.५) इति ।
(संशयस्वरूपम्)
तत्र संशय: – किमिमे अक्षरशब्दनिर्दिष्टब्रह्मसम्बन्धितया श्रुता: अस्थूलत्वादय: प्रपञ्चप्रत्यनीकतास्वरूपास्सर्वासु ब्रह्मविद्यास्वनुसन्धेया:, उत यत्र श्रूयन्ते तत्रैव – इति ।
(पूर्वपक्षः)
किं युक्तम्? यत्र श्रुतास्तत्रैवेति। कुत:? विद्यान्तरस्य रूपभूतानां गुणानां विद्यान्तरस्य रूपत्वे प्रमाणाभावात्, प्रतिषेधरूपाणामेषामानन्दादिवत् स्वरूपावगमोपायत्वाभावाच्च । आनन्दादिभिरवगतस्वरूपे हि ब्रह्मणि स्थूलत्वादय: प्रपञ्चधर्मा: प्रतिषिध्यन्ते, निरालम्बनप्रतिषेधायोगात् ॥
(सूत्रार्थविवरणतः सिद्धान्तः)
एवं प्राप्ते प्रचक्ष्महे – अक्षरधियां त्ववरोध: इति। अक्षरब्रह्मसम्बन्धिनामस्थूलत्वादिधियां सर्वब्रह्मविद्यास्ववरोध: – संग्रहणमित्यर्थ:। कुत:? सामान्यतद्भावाभ्यां – सर्वेषूपासनेषूपास्यस्य अक्षरस्य ब्रह्मण: समानत्वादस्थूलत्वादीनां तत्स्वरूपप्रतीतौ भावाच्च ।
(अस्थूलत्वादीनां ब्रह्मस्वरूपप्रतीत्यनुबन्धिता)
एतदुक्तं भवति – असाधारणाकारेण ग्रहणं हि वस्तुनो ग्रहणम् । न च केवलमानन्दादि ब्रह्मणोऽसाधारणमाकारमुपस्थापयति, प्रत्यगात्मन्यपि आनन्दादेर्विद्यमानत्वात्। हेयप्रत्यनीको ह्यानन्दादिर्ब्रह्मणोऽसाधारणं रूपम् । प्रत्यगात्मनस्तु स्वतो हेयविरहिणोऽपि हेयसम्बन्धयोग्यता अस्ति; हेयप्रत्यनीकत्वं च चिदचिदात्मकप्रपञ्चधर्मभूतस्थूलत्वादि विपरीतरूपम् । अतोऽसाधारणाकारेण ब्रह्मानुसन्दधताऽस्थूलत्वादिविशेषितज्ञानानन्दाद्याकारं ब्रह्मानुसन्धेयमिति अस्थूलत्वादीनामानन्दादिवद्ब्रह्मस्वरूपप्रतीत्यन्तर्भावात्सर्वासु ब्रह्मविद्यासु तथैव ब्रह्मानुसन्धेयमिति ।
(सूत्रोक्तदृष्टान्तविवरणम्)
गुणानां प्रधानानुवर्तित्वे दृष्टान्तमाह – औपसदवत् इति । यथा जामदग्न्यचतूरात्र-पुरोडाश्युपसद्गुणभूत: सामवेदपठित: अग्निर्वै होत्रं वेतु (ताण्ड्य.ब्रा.२१.१०.११) इत्यादिको मन्त्र: प्रधानानुवर्तितया याजुर्वैदिकेनोपांशुत्वेन प्रयुज्यते। तदुक्तं प्रथमे काण्डे गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोग: (जै.सू.३.२.९) इति॥३३॥
(उक्तार्थानुरोधे प्राप्ताया अव्यवस्थायाः परिहारः)
नन्वेवं सर्वासु ब्रह्मविद्यासु ब्रह्मण एव गुणित्वाद्गुणानां च प्रधानानुवर्तित्वात्।
सर्वकर्मा सर्वगन्धस्सर्वरस: (छा.३.१४.४) इत्यादेर्गुणजातस्य प्रतिविद्यं व्यवस्थितस्याप्यव्यवस्था स्यात्; तत्राह-
३८८. इयदामननात् ॥ ३–३–३४ ॥
आमननम् – आभिमुख्येन मननम् – अनुचिन्तनम् । आमननाद्धेतोरियदेव गुणजातं सर्वत्रानुसन्धेयत्वेन प्राप्तम्; यदस्थूलत्वादिविशेषितमानन्दादिकम् । येन गुणजातेन विना ब्रह्मस्वरूपस्येतरव्यावृत्तस्यानुसन्धानं न सम्भवति, तदेव सर्वत्रानुवर्तयनीयम्; तच्चेयदेवेत्यर्थ: । इतरे तु सर्वकर्मत्वादय: प्रधानानुवर्तिनोऽपि चिन्तनीयत्वेन प्रतिविद्यं व्यवस्थिता: ॥३४॥
इति श्रीशारीरकमीमांसाभाष्ये अक्षरध्यधिकरणम् ॥१४॥