श्रीशारीरकमीमांसाभाष्ये अन्तरत्वाधिकरणम्॥ १५ ॥
(अधिकरणार्थः – उषस्त-कहोलयोः प्रश्न-प्रतिवचनाभ्याम् अवगता विद्या एकैव, न भिन्ना)
३८९. अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथा
भेदानुपपत्तिरिति चेन्नोपदेशवत् ॥ ३–३–३५ ॥
(विचारणीयस्य विषयोपस्थापनम्)
बृहदारण्यके उषस्तप्रश्न एवमाम्नायते यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तर: तं मे व्याचक्ष्व (बृ.५.४.१) इति । तस्य प्रतिवचनं य: प्राणेन प्राणिति स त आत्मा सर्वान्तरो योऽपानेनापानिति स त आत्मा इत्यादि । अतुष्टेन तेन पुन: पृष्ट आह न दृष्टेर्द्रष्टारं पश्येर्न श्रुतेश्श्रोतारं शृणुया: न मतेर्मन्तारं मन्वीथा: न विज्ञातेर्विज्ञातारं विजानीया एष त आत्मा सर्वान्तरोऽतोऽन्यदार्तम् (बृ.५.४.२) इति । तथा तदनन्तरं कहोलप्रश्ने चैवमाम्नायते यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तर: तन्मे व्याचक्ष्व (बृ.५.५.१) इति । प्रतिवचनं च योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति एवं वै तमात्मानं विदित्वा ब्राह्मण: पुत्रेषणायाश्च वित्तैषणायाश्च (बृ.५.५.१) इत्यादि अतोऽन्यदार्तम् इत्यन्तम्।
(विचारोपयोगी संशयः)
तत्र संशय्यते किमनयोर्विद्याभेदोऽस्ति, नेति।
(सयुक्तिकः पूर्वःपक्षः)
किं युक्तम्? भेद इति; कुत:? रूपभेदात् । प्रतिवचनभेदाद्रूपं भिद्यते । प्रश्नस्यैकरूप्येऽपि प्रतिवचनप्रकारो हि भेदेनोपलभ्यते। पूर्वत्र प्राणनादीनां कर्ता सर्वान्तरात्मत्वेनोच्यते; परत्राशनायापिपासादिरहित:। अत: पूर्वत्र प्राणिता देहेन्द्रियबुद्धिमन:प्राणव्यतिरिक्त: प्रत्यगात्मोच्यते, परत्र तु तदतिरिक्तोऽशनायापिपासादिरहित: परमात्मा । अतो रूपं भिद्यते।
(प्रत्यगात्मनि सर्वान्तरत्वौचित्यम्)
भूतग्रामवतश्च प्रत्यगात्मनस्तस्य भूतग्रामस्य । सर्वस्यान्तरत्वेन सर्वान्तरत्वमप्युपपन्नम् । यद्यपि प्रत्यगात्मन: सर्वान्तरत्वं भूतग्राममात्रापेक्षत्वेनापेक्षिकं तथापि तदेव ग्राह्यम्, अन्यथा मुख्यान्तरात्मपरिग्रहलोभात्परमात्मस्वीकारे प्रतिवचनभेदो नोपपद्यते ।
प्रतिवचनं हि पूर्वत्र प्रत्यगात्मविषयम्, परमात्मन: प्राणितृत्वापानितृत्वाद्यसम्भवात् । परं च परमात्मविषयम्, अशनायापिपासाद्यतीतत्वात् । तदिदमाशङ्कते – अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथा भेदानुपपत्तिरितिचेत् – इति । अन्तरा – सर्वान्तरत्वेन प्रथमप्रतिवचनं भूतग्रामवत्स्वात्मन: – भूतग्रामवान् तदन्तर: स्वात्मा- प्रत्यगात्मा सर्वान्तर इत्युच्यत इत्यर्थ:। अन्यथा य: प्राणेन प्राणिति (बृ.५.४.१) योऽशनायापिपासाद्यतीत: – इति प्रतिवचनभेदानुपपत्तिरिति चेत् –
(सूत्रान्त्यखण्डतः सिद्धान्तार्थः)
अत्रोत्तरं – नेति । न विद्याभेद इत्यर्थ:। उभयत्र परविषयत्वात्प्रश्नप्रतिवचनयो: । तथाहि यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तर: (बृ.५.४.१) इति प्रश्नस्तावत्परमात्मविषय एव, ब्रह्मशब्दस्य परमात्मासाधारणत्वेऽपि प्रत्यगात्मन्यपि कदाचिदुपचरितप्रयोगदर्शनात्तव्द्यावृत्त्या परमात्मप्रतिपत्त्यर्थं यत्साक्षाद्ब्रह्म (बृ.५.४.१) इति विशेषणं क्रियते। अपरोक्षत्वमपि सर्वदेशसर्वकालसम्बन्धित्वं सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१.१) इत्यनन्तत्वेनावगतस्य परमात्मन एवोपपद्यते। सर्वान्तरत्वमपि य: पृथिव्यां तिष्ठन् पृथिव्या अन्तर: (बृ.५.७.३) इत्यारभ्य य आत्मनि तिष्ठन्नात्मनोऽन्तर: (बृ.५.७.२२) इति सर्वान्तर्यामिण: परमात्मन एव सम्भवति । प्रतिवचनमपि तथैव परमात्मविषयम्। य: प्राणेन प्राणिति (बृ.५.४.१) इति निरुपाधिकं प्राणनस्य कर्तृत्वं परमात्मन एव, प्रत्यगात्मनस्सुषुप्तौ प्राणनम्प्रति कर्तृत्वाभावात्। एवमजानतोषस्तेन प्राणने कर्तृत्वमात्रमुक्तं मन्वानेन प्रत्यगात्मनोऽपि साधारणत्वं प्रतिवचनस्य मत्वा अतुष्टेन पुन: पृष्टस्तं प्रति प्रत्यगात्मनो व्यावृत्तं निरुपाधिकत्वेन प्राणनस्य कर्तारं परमात्मानमाह – न दृष्टेर्द्रष्टारं पश्ये: (बृ.५.४.२) इत्यादिना ।
(न दृष्टेर्द्रष्टारं इति श्रुतेरर्थः)
इन्द्रियाधीनानां दर्शनश्रवणमननविज्ञानानां कर्तारं प्रत्यगात्मानं प्राणनस्य कर्तृत्वेनोक्त इति न मन्वीथा:; तस्य सुषुप्तिमूर्च्छादौ प्राणनादेरकर्तृत्वात् । को ह्येवान्यात्क: प्राण्यात् यदेष आकाश आनन्दो न स्यात् (तै.आन.७.१) इति सर्वप्राणिप्राणनहेतुत्वं हि परमात्मन एवान्यत्र श्रुतम् ।
अत: पूर्वप्रश्नप्रतिवचने परमात्मविषये। एवमुत्तरे अपि, अशनायाद्यतीतत्वस्य परमात्मासाधारणत्वात्। उभयत्र अतोऽन्यदार्तम् (बृ.५.४.२); इत्युपसंहारश्चैकरूप: । प्रश्नप्रतिवचनावृत्तिस्तु कृत्स्नप्राणिप्राणनहेतो: परस्य ब्रह्मणोऽशनायाद्यतीतत्वप्रतिपादनाय।
(सूत्रस्थदृष्टान्तांशविवरणम्)
तत्र दृष्टान्तमाह – उपदेशवदिति । यथा सद्विद्यायाम् उत तमादेशमप्राक्ष्य: (छा.६.१.३) इति प्रक्रान्ते सदुपदेशे भगवांस्त्वेव मे तद्ब्रवीत्विति (छा.६.१.७) भूय एव मा भगवान् विज्ञापयतु (छा.६.५.४) इति प्रश्नस्य एषोऽणिमा ऐतदात्म्यमिदं सर्वं तत्सत्यम् (छा.६.९.४) इति प्रतिवचनस्य च भूयोभूय आवृत्तिस्सतो ब्रह्मणस्तत्तन्माहात्म्यविशेषप्रतिपादनाय दृश्यते; तद्वत् । अत एकस्यैव सर्वान्तरभूतस्य ब्रह्मण: कृत्स्नप्राणिप्राणनहेतुत्वाशनायाद्यतीतत्वप्रतिपादनेन रूपैक्याद्विद्यैक्यम् ॥३५॥
(उपास्यगुणभेदकृतरूपभेदतो विद्याभेदशङ्कापरिहारौ)
अथ स्यात् – यद्यप्युभे प्रश्नप्रतिवचने परब्रह्मविषये; तथापि विद्याभेदोऽवर्जनीय:, एकत्र सर्वप्राणिप्राणनहेतुत्वेनोपास्यम्, इतरत्राशनायाद्यतीतत्वेनेत्युपास्यगुणभेदेन रूपभेदात्, प्रष्टृभेदाच्च, पूर्वत्र उषस्त: प्रष्टा; उत्तरत्र कहोल: – इति; तत्राह –
३९०. व्यतिहारो विशिंषन्ति हीतरवत् ॥ ३–३–३६ ॥
नात्र विद्याभेद:, प्रश्नप्रतिवचनाभ्यामेकरूपार्थविषयाभ्यामेकेन च विधिपदेनैकवाक्यत्वप्रतीते: । प्रश्नद्वयं तावत्सर्वान्तरात्मत्वविशिष्टब्रह्मविषयम् । द्वितीये प्रश्ने यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तर: (बृ.५.५.१) इत्येवकारश्च पूर्वत्रोषस्तेन पृष्टगुणविशिष्टब्रह्मविषयत्वं कहोलप्रश्नस्यावधारयति ।
(व्यतिहार्यांशविवरणम्)
प्रतिवचनं चोभयत्र स त आत्मा सर्वान्तर: (बृ.५.४.१) इति सर्वान्तरात्मत्वविशिष्टब्रह्मविषयमेकरूपमेव। विधिप्रत्ययश्चोत्तरत्रैव दृश्यते, तस्माद्ब्राह्मण: पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् (बृ.५.५.१) इति । एवं सर्वान्तरात्मत्वविशिष्टब्रह्मैकविषयत्वे द्वयोरवगते सत्येकस्मिन्नेव सर्वान्तरात्मत्वविशिष्टे ब्रह्मण्युपास्ये उषस्तकहोलयोरितरेतरबुद्धिव्यतिहार: कर्तव्य: । उषस्तस्य या सर्वान्तरात्मनो ब्रह्मणस्सर्वप्राणिप्राणनहेतुत्वविषया बुद्धि:; सा कहोलेनापि प्रष्ट्रा कार्या; या च कहोलस्य तस्यैव ब्रह्मणोऽशनायाद्यतीतत्वविषया बुद्धि:, सा उषस्तेनापि कार्या। एवं व्यतिहारे कृते उभाभ्यां सर्वान्तरस्य ब्रह्मणो जीवव्यावृत्तिरवगता भवति । एनं सर्वान्तरात्मानं प्रत्यगात्मनो व्यावृत्तमवगमयितुं सर्वप्राणिप्राणनहेतुत्वाशनायाद्यतीतत्वप्रतिपादनेन विशिंषन्ति हि याज्ञवल्क्यस्य प्रतिवचनानि । अतो ब्रह्मणस्सर्वान्तरात्मत्वमेवोपास्यगुण:। प्राणनहेतुत्वादयस्तु तस्योपपादका:; नोपास्या:।
(व्यतिहारेणानुसन्धाने प्रयोजनम्)
ननूपास्यगुण: सर्वान्तरात्मत्वमेव चेत् – प्राणनहेतुत्वस्य अशनायाद्यतीतत्त्वस्य च प्रष्ट्रो: व्यतिहृत्यानुसन्धानं किमर्थम्?
तदुच्यते सर्वप्राणिप्राणनहेतुत्वेन सर्वान्तरात्मनि जीवाद्व्यावृत्ते ब्रह्मण्युषस्तेनावगते सति कहोलेन जीवस्य सर्वात्मना असम्भावितेन स्वभावविशेषेण सर्वान्तरात्मा व्यावृत्तोऽनुसन्धेय इति कृत्वा पुन: प्रश्न: कृत: । याज्ञवल्क्योऽपि तदभिप्रायमभिज्ञाय प्रत्यगात्मनोऽसम्भावितं अशनायादिप्रत्यनीकत्वमुक्तवान्। अतश्चोपास्यस्य व्यावृत्तिप्रतीतिसिद्ध्यर्थमुभाभ्यां परस्परबुद्धिव्यतिहार: कर्तव्य:।
(सूत्रस्थदृष्टान्तांशविवरणम्)
इतरवत् – यथेतरत्र सद्विद्यायां भूयोभूय: प्रश्नै: प्रतिवचनैश्च तदेव सद्ब्रह्म व्यवच्छिद्यते; न पुन: पूर्वप्रतिपन्नाद्गुणाद्गुणान्तरविशिष्टतयोपास्यं प्रतिपाद्यते; तद्वत् ॥२६॥
(प्रश्नादेर्भेदेऽपि ऐक्यावगमोपपादनम्)
तत्रापि प्रश्नप्रतिवचनभेदे सति कथमैक्यमवगम्यत इति चेत् तत्राह –
३९१. सैव हि सत्यादय: ॥ ३–३–३७ ॥
सैव हि – सच्छब्दाभिहिता परमकारणभूता परा देवतैव सेयं देवतैक्षत (छा.६.३.२) तेज: परस्यां देवतायाम् (छा.६.८.३) इति प्रकृता यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति (छा.६.९.१) इत्यादिषु पर्यायेषु सर्वेषूपपाद्यते। यत: ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा (छा.६.८.७) इति प्रथमपर्यायोदितास्सत्यादयस्सर्वेषु पर्यायेषूपपाद्योपसंह्रियन्ते ।
(परकीयाधिकरणरचनाप्रकारः तद्दूषणं च)
केचित्तु – व्यतिहारो विशिंषन्ति हीतरवत्, सैव हि सत्यादय: इति सूत्रद्वयमधिकरणद्वयं वर्णयन्ति । तत्र पूर्वेण त्वं वाऽहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते तद्योऽहं सोऽसौ योऽसौ सोऽहम् इति वाक्ये जीवपरयोर्व्यतिहारानुसन्धानं प्रतिपाद्यत इत्युच्यत इत्याहु:; तत् सर्वं खल्विदं ब्रह्म (छा.३.१४.१) ऐतदात्म्यमिदं सर्वम् (छा.६.१६.३) तत्त्वमसि (छां.६.१६.३) इत्यवगतसर्वात्मभावविषयत्वादस्य वाक्यस्य नात्र प्रतिपादनीयमपूर्वमस्तीत्यनादरणीयम् । तत्तु वक्ष्यते – आत्मेति तूपगच्छन्ति ग्राहयन्ति च (ब्र.सू.४.१.३) इति । न च सर्वात्मत्वानुसन्धानातिरेकेण परस्मिन् ब्रह्मणि जीवत्वानुसन्धानम्, जीवे च परब्रह्मत्वानुसन्धानं, तथ्यं सम्भवति ।
(परेषां उत्तरसूत्रार्थवर्णनेष्वनौचित्यम्)
उत्तरेण च सूत्रेण स यो ह वै तन्महति यक्षं प्रथमजं वेद सत्यं ब्रह्म (बृ.७.४.१) इत्यादिवाक्यप्रतिपादितस्य सत्योपासनस्य तद्यत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षिन् (बृह.७.५.१) इत्यादिवाक्यप्रतिपादितोपासनस्य चैक्यं प्रतिपाद्यत इति; तदप्ययुक्तम्, उत्तरवाक्ये अक्ष्यादित्यस्थानभेदेन विद्याभेदस्य पूर्वमेव न वा विशेषात् (शारी.३.३.२१) इत्यनेन प्रतिपादितत्वात्।
(अनौचित्योपपादनम्)
न च द्वयोरनयोर्व्याहृत्यादिशरीरकत्वेन रूपवतो: हन्ति पाप्मानं जहाति च य एवं वेद (बृ.७.५.२) स यो हैतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति जयतीमान् लोकान् (बृ.७.४.१) इति पृथक्संयोगचोदनावतोर्द्वयोरुपासनयो: स यो ह वै तन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति जयतीमान् लोकान् (बृ.४.७.१) इति संयोगरूपादिमत्तया निरपेक्षेण पूर्वेणैकेनोपासनेनाभेदस्सम्भवति ।
(गुणफलाधिकारत्वासम्भवः)
न च हन्ति पाप्मानं जहाति (बृ.७.५.१) इति गुणफलाधिकारत्वम्, प्रमाणाभावात् । पूर्वेणैकविद्यात्वं प्रमाणमिति चेत् – न, इतरेतराश्रयत्वात् । एकविद्यात्वे निश्चिते पूर्वफलस्यैव प्रधानफलत्वेनोत्तरयो: फलयोर्गुणफलत्वम्, तयोर्गुणफलत्वे निश्चिते सति संयोगभेदाभावात्पूर्वेण विद्यैक्यमितीतरेतराश्रयत्वमिति। एवमादिभिर्यथोक्तप्रकारमेव सूत्रद्वयम् ॥३७॥
इति श्रीशारीरकमीमांसाभाष्ये अन्तरत्वाधिकरणम् ॥१५॥