श्री शारीरकमीमांसाभाष्ये तन्निर्धारणानियमाधिकरणम्॥१७॥
(अधिकरणार्थः – कर्माङ्गाश्रितोद्गीथोपासनादेः क्रतुषु उपादेयतानियमाभावः)
३९५. तन्निर्धारणानियमस्तद्दृष्टे: पृथग्घ्यप्रतिबन्ध: फलम् ॥ ३–३–४१ ॥
(एतदधिकरणीयः संशयगर्भः पूर्वः पक्षः)
ओमित्येतदक्षरमुद्गीथमुपासीत (छां.१.१.१) इत्यादीनि कर्माङ्गाश्रयाण्युपासनानि कर्माङ्गभूतोद्गीथादिमुखेन जुह्वादिमुखेन पर्णतादिवत् कर्माङ्गत्वेन निरूढानुष्ठानानि इत्युद्गीथाद्युपासन-सम्बन्धिनो यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति (छा.१.१.१०) इति वर्तमाननिर्देशस्य पर्णतादिसम्बन्धपापश्लोकश्रवणवत्पृथक्फलत्वकल्पनायोगात् क्रतुषु नियमेनोपसंहार्याणीति ॥
(सूत्रारार्थतः सिद्धान्तप्रदर्शनम्)
एवं प्राप्ते प्रचक्ष्महे – तन्निर्धारणानियम: – इति । निर्धारणं निश्चयेन मनसोऽवस्थापनम्, ध्यानमित्यर्थ:; तन्निर्धारणानियम: – कर्मसूद्गीथाद्युपासनानामनियम:; कुत:? तद्दृष्टे: उपलभ्यते ह्युपासनानुष्ठानानियम: – तेनोभौ कुरुतो यश्चैतदेवं वेद, यश्च न वेद (छा.१.१.१०) इत्यविदुषोऽप्यनुष्ठानवचनात्। न चाङ्गत्वे सत्युपासनस्यानुष्ठानानियम उपपद्यते ।
(उद्गीथोपासनस्य फलपार्थक्यम्)
एवमुपासनस्यानङ्गत्वे निश्चिते सत्युपासनविधे: फलाकांक्षायां रात्रिसत्रन्यायेन वीर्यवत्तरत्वं कर्मफलात्पृथग्भूतं फलमित्यवगम्यते।
किमिदं वीर्यवत्तरत्वम्? कर्मफलस्यैवाप्रतिबन्ध:। प्रतिबध्यते हि कर्मफलं प्रबलकर्मान्तरफलेन तावन्तं कालम्; तदभावोऽप्रतिबन्ध:। स ह्यप्रतिबन्ध: कर्मफलात्स्वर्गादिलक्षणात्पृथग्भूतमेव फलम् । तदिदमुच्यते पृथग्घ्यप्रतिबन्ध: फलमिति ।
अत: कर्माङ्गाश्रयाणामपि पृथक्फलत्वाद्गोदोहनादिवत् कर्मसु उद्गीथाद्युपासनानां अनियमेनोपसंहार:॥४१॥
इति श्रीशारीरकमीमांसाभाष्ये तन्निर्धारणानियमाधिकरणम् ॥१७॥