[highlight_content]

श्रीभाष्यम् 03-03-18 प्रदानाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये प्रदानाधिकरणम् ॥१८॥

(अधिकरणार्थः – हविस्त्यागपार्थक्ये इन्द्रादीनामिव, प्रतिगुणिन्तनं परमात्मिन्तनावृत्तिः)

३९६. प्रदानवदेव तदुक्तम् ४२ (सि)

(विारणीयविषयनिर्देशः)

दहरविद्यायां – तद्य इहात्मानमनुविद्य व्रजन्त्येतांश् सत्यान्कामान् (छा.८.१.६) इति दहराकाशस्य परमात्मन उपासनमुक्त्वा  एतांश् सत्यान्कामान् (छां.८.१.६) इति गुणानामपि पृथगुपासनं विहितम् ।

(विारौपयिकस्संशयः)

तत्र संशय: – गुणिन्तनेऽपि तत्तद्गुणविशिष्टतया दहरस्यात्मनश्िन्तनमावर्तनीयम्, उत नेति।

(पूर्वः पक्षः)

दहराकाशस्यैव अपहतपाप्मत्वादीनां गुणित्वात्तस्य सकृदेवानुसन्धातुं शक्यत्वाद्गुणार्थं तिन्तनं नावर्तनीयम् –

(सदृष्टान्तोपपत्तिकः सिद्धान्तः)

इति प्राप्ते उ्यते प्रदानवदेव – इति। प्रदानवदावर्तनीयमेवेत्यर्थ: । यद्यपि दहराकाश एक एवापहतपाप्मत्वादिगुणानां गुणी; स प्रथमं िन्तित:; तथाऽपि स्वरूपमात्राद्गुणविशिष्टाकारस्य भिन्नत्वात् अपहतपाप्मा विजर: (छा.८.१.५) इत्यादिना गुणविशिष्टतया ोपास्यत्वेन विहितत्वात्पूर्वं स्वरूपेणानुसंहितस्यापहतपाप्मत्वादिविशिष्टतयाऽनुसन्धानार्थमावृत्ति: कर्तव्या, यथा  इन्द्राय राज्ञे पुरोडाशमेकादशकपालं निर्वपेत् , इन्द्रायाधिराजाय, इन्द्राय स्वराज्ञे (यजु.२.३.६) इतीन्द्रस्यैव राजत्वादिगुणविशिष्टत्वेऽपि तत्तद्गुणसम्बन्ध्याकारस्य भिन्नत्वात्प्रदानावृत्ति: क्रियते; तदुक्तं साङ्कर्षणे  नाना वा देवता पृथक्त्वात् (संक.काण्डे) इति ॥४२॥

इति श्रीशारीरकमीमांसाभाष्ये प्रदानाधिकरणम्॥१८॥

Languages

Related Parts

error: Content is protected !!