श्रीशारीरकमीमांसाभाष्ये लिङ्गभूयस्त्वाधिकरणम्॥१९॥
(अधिकरणार्थः – तैत्तरीयकगतस्य सहस्रशीर्षकमित्यनुवाकस्य सर्ववेदान्तोदितपरविद्योपास्यविशेषनिर्धारणपरत्वम्, न तु दहरविद्यामात्रशेषत्वम्)
३९७. लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥ ३–३–४३ ॥
(विचारणीयविषयनिर्देशः)
तैत्तिरीया दहरविद्यानन्तरमधीयते सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् । विश्वं नारायणं देवमक्षरं परमं प्रभुम् इत्यारभ्य सोऽक्षर: परमस्स्वराट् (तै.ना.१) इत्यन्तम्।
(विचारौपयिकः संशयः)
तत्र संशय:- किं पूर्वप्रकृतविद्यैकविद्यात्वेन तदुपास्यविशेषनिर्धारणमनेन क्रियते, उत सर्ववेदान्तोदितपरविद्योपास्यविशेषनिर्धारणम् – इति।
(सहेतुकः पूर्वःपक्षः)
किं युक्तम्? दहरविद्योपास्यविशेषनिर्धारणमिति। कुत:? प्रकरणात्। पूर्वस्मिन्ननुवाके दहरविद्या हि प्रकृता दह्रं विपाप्मं परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसंस्थम्। तत्रापि दह्रं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम् (तै.ना.१०) इति। अस्मिंश्चानुवाके पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम् (तै.ना.११) इत्यादिना हृदयपुण्डरीकाभिधानमस्य नारायणानुवाकस्य दहरविद्योपास्यनिर्धारणार्थत्वमुपोद्बलयतीति॥
(सूत्रार्थविवृत्या सिद्धान्तार्थः)
एवं प्राप्ते प्रचक्ष्महे लिङ्गभूयस्त्वात् – इति। अस्य निखिलपरविद्योपास्यविशेष निर्धारणार्थत्वे भूयांसि लिङ्गानि दृश्यन्ते; तथा हि परविद्यास्वक्षरशिवशम्भुपरब्रह्मपरज्योति: परतत्त्वपरमात्मादिशब्दनिर्दिष्टमुपास्यं वस्त्विह तैरेव शब्दैरनूद्य तस्य नारायणत्वं विधीयते; भूयसीषु विद्यासु श्रुताननूद्य नारायणत्वविधानभूयस्त्वं नारायण एव सर्वविद्यासूपास्यमस्थूलत्वादिविशेषितानन्दादिगुणकं परं ब्रह्मेति विशेषनिर्णये भूय: बहुतरं लिङ्गं भवति। अत्र लिङ्गशब्द: चिह्नपर्याय:। चिह्नभूतं वाक्यं बहुतरमस्तीत्यर्थ:।
(लिङ्गस्य बलीयस्त्वोपपत्तिः)
तद्धि प्रकरणाद्बलीय:। तदप्युक्तं प्रथमकाण्डे – श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात् (जै.मी.सू.३.३.१४) इति।
(दहरमात्रशेषताया निरासः)
यत्तूक्तं पद्मकोशप्रतीकाशम् (तै.ना.११) इत्यादिवचनं दहरशेषत्वमस्योपोद्बलयति – इति; तन्न, बलीयसा प्रमाणेन सर्वविद्योपास्यनिर्धारणार्थत्वेऽवधृते सति दहरविद्यायामपि तस्यैव नारायणस्योपास्यत्वेन तद्वचनोपपत्ते:। न च सहस्रशीर्षम् (तै.ना.११) इत्यादि द्वितीयानिर्देशेन पूर्वानुवाकोदितोपासिना सम्बन्धश्शङ्कनीय:, तस्मिन्यदन्तस्तदुपासितव्यम् (तै.ना.१०) इत्युपासिगतेन कृत्प्रत्ययेनोपास्यस्य कर्मणोऽभिहितत्वात्तदुपास्ये द्वितीयानुपपत्ते:। विश्वमेवेदं पुरुष: (तै.ना.११.अनु) तत्त्वं नारायण:पर: (तै.ना.११) इत्यादि प्रथमानिर्देशाच्च प्रथमार्थे द्वितीया वेदितव्या । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायण: स्थित: (तै.ना.११) तस्याश्शिखाया मध्ये परमात्मा व्यवस्थित: स ब्रह्मा स शिवस्सेन्द्र: सोऽक्षर: परमस्स्वराट् (तै.ना.११) इति निर्देशैस्सर्वस्मात्परो नारायण एव सर्वत्रोपास्य इति निर्णीयमानत्वाच्च प्रथमार्थे द्वितीयेति निश्चीयते ॥४३॥
इति श्रीशारीरकमीमांसाभाष्ये लिङ्गभूयस्त्वाधिकरणम्॥१९॥