श्रीशारीरकमीमांसाभाष्ये अङ्गावबद्धाधिकरणम् ॥२२॥
(अधिकरणार्थः – उद्गीथाद्यङ्गाश्रयाणां उपासनानां उद्गीथादिवत् सर्वशाखास्थक्रतुष्वप्यन्वयः)
४०७. अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥ ३–३–५३ ॥
(विचारणीयविषयोपस्थापनम्)
ओमित्येतदक्षरमुद्गीथमुपासीत (छा.१.१.१) लोकेषु पञ्चविधं सामोपासीत (छा.२.२.१) उक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थम् इयमेव पृथिवी (ऐतरेय आ.२.१.२) अयं वाव लोक एषोऽग्निचित: (अग्निरहस्यं) इत्येवमाद्या: क्रत्वङ्गाश्रया: उपासना: भवन्ति ।
(विचारौपयिकः संशयः)
ता: किं यासु शाखासु श्रूयन्ते, तास्वेव नियता:, उत सर्वासु शाखासूद्गीथादिषु सम्बध्यन्त इति विचार:।
(अधिकरणारम्भाक्षेपशङ्कानिरासः)
सर्ववेदान्तप्रत्ययत्वे स्थितेऽपि प्रतिवेदं स्वरभेदादुद्गीथादयो भिद्यन्त इति तत्र तत्र व्यवतिष्ठेरन्निति युक्ता शङ्का ।
(सयुक्तिकः पूर्वपक्षः)
किं युक्तम्? व्यवतिष्ठेरन्निति । कुत:? उद्गीथमुपासीत (छां.१.१.१) इति सामान्येनोद्गीथसम्बन्धितया श्रुतायास्तस्यामेव शाखायां स्वरविशेषयुक्तस्य उद्गीथविशेषस्य सन्निधानात्तस्मिन्नेव विशेषे पर्यवसानं युक्तमिति । एवमाद्यास्तास्वेव शाखासु व्यवतिष्ठेरन्निति॥
(सिद्धान्तार्थः सूत्रार्थविवृत्या)
एवं प्राप्ते प्रचक्ष्महे – अङ्गावबद्धास्तु – इति। तु शब्द: पक्षं व्यावर्तयति; नह्युद्गीथाद्यङ्गावबद्धा उपासनास्तास्वेव शाखासु व्यवतिष्ठेरन्, अपि तु प्रतिवेदं सम्बध्येरन्; सर्वासु शाखास्वित्यर्थ: । हि शब्दो हेतौ। यस्माच्छ्रुत्यैवोद्गीथाद्यङ्गमात्रावबद्धा:, तस्माद्यत्रोद्गीथादय:, तत्र सर्वत्र सम्बध्येरन्।
(स्वरभेदायत्तोद्गीथभेदतो व्यवस्थाया निरासः)
यद्यपि स्वरभेदेनोद्गीथव्यक्तयो भिद्यन्ते; तथापि सामान्येनोद्गीथश्रुत्या सर्वा व्यक्तयस्सन्निहिता इति न क्वचिद्व्यवस्थायां प्रमाणमस्ति । सर्वशाखाप्रत्ययन्यायेन च सर्वासु शाखासु क्रतुरेक:। अतस्सर्वासु शाखास्वेकस्य क्रतोस्सन्निधानात् क्रत्वङ्गभूतोद्गीथादयोऽपि सन्निहिता इति नैकस्य सन्निधिविशेषोऽस्तीति न व्यवस्था ॥ ५३॥
(मन्त्रादिदृष्टान्तेन शास्त्रान्तरीयक्रत्वङ्गोद्गीथादिष्वप्युपासनान्वयः)
४०८. मन्त्रादिवद्वाऽविरोध: ॥ ३–३–५४ ॥
वाशब्दश्चार्थे; आदिशब्देन जातिगुणसङ्ख्यासादृश्यक्रमद्रव्यकर्माणि गृह्यन्ते; यथा मन्त्रादीनामेकैकशाखास्वाम्नातानामपि शेषिण: क्रतोस्सर्वशाखास्वेकत्वेन यथायथं श्रुत्यादिभिस्सर्वासु शाखासु विनियोगो न विरुध्यते; तद्वदिहाप्यविरोध: ॥५४॥
इति श्रीशारीरकमीमांसाभाष्ये अङ्गावबद्धाधिकरणम्॥२२॥