श्रीशारीरकमीमांसाभाष्ये भूमज्यायस्त्वाधिकरणम्॥२३॥
(अधिकरणार्थः – वैश्वानरविद्यायां त्रैलोक्यशरीरस्य वैश्वानरात्मनः उपासनं, समस्तस्यैव)
४०९. भूम्न: क्रतुवज्ज्यायस्त्वं तथाहि दर्शयति ॥ ३–३–५५ ॥
(वैश्वानरविद्यायां विचारणीयो विषयः)
प्राचीनशाला औपमन्यव: (छां.५.११.१) इत्यारभ्य वैश्वानरविद्या आम्नाता। तत्र वैश्वानर: परमात्मा त्रैलोक्यशरीर उपास्यश्श्रुत: स्वर्लोकादित्यवाय्वाकाशाप्पृथिव्यवयव:; तत्र द्यौर्मूर्धा, आदित्यश्चक्षु:, वायु: प्राण:, आकाशस्सन्देह: – मध्यकाय इत्यर्थ; आपो वस्ति:; पृथिवी पादावित्यवयवविशेषा:।
(विचारौपयिकः संशयः)
तत्र संशय: – किमस्य त्रैलोक्यशरीरस्य व्यस्तस्योपासनं कर्तव्यम्, उत व्यस्तस्य समस्तस्य च, अथ समस्तस्यैवेति।
(सयुक्तिकः पूर्वः पक्षः)
किं युक्तम्? व्यस्तस्येति; कुत:? उपक्रमे व्यस्तोपासनोपदेशात्। तथाह्युपदिश्यते औपमन्यवादय: किलोद्दालकषष्ठा: केकयमश्वपतिमुपसद्य आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहि (छां.५.११.६) इति प्रपच्छु:। स च तेभ्य: प्रत्येकं स्वोपास्यान् द्युप्रभृतीनुक्तवद्भ्यो मूर्धादिषु व्यस्तेषूपासनं तत्र तत्र फलं चोक्तवान् अत्त्यन्नं, पश्यति प्रियं, भवत्यस्य ब्रह्मवर्चसं कुले, य एतमेवमात्मानं वैश्वानरमुपास्ते मूर्धा त्वेष आत्मन इति एष वै सुतेजा आत्मा वैश्वानर: (छां.५.१२.२) इत्यादिना । तेषुतेषूपासनेषूपास्यस्य वैश्वानरत्वं चाह। अतो व्यस्तस्योपासनं कर्तव्यम्। परत्र यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते (छा.५.१८.१) इति। द्युप्रभृतिप्रदेशावच्छिन्नमात्रे वैश्वानरे उक्तस्य मूर्धाद्युपासनस्य समासेनोपसंहार इत्यवगन्तव्यम्।
(विकल्पितद्वितीयांशस्य उपपादनम्)
अपर आह – एवमेव समस्तस्याप्युपासनं कार्यमिति, पृथक्फलनिर्देशात् – यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति (छा.५.१८.१) इति । नचैतावता वाक्यभेद:; यथा भूमविद्योपक्रमे नामाद्युपासनं तत्तत्फलञ्चाभिधाय एष तु वा अतिवदति यस्सत्येनातिवदति (छा.७.१.१) इत्यादिना भूमविद्यामुपदिश्य स स्वराड् भवति तस्य सर्वेषु लोकेषु कामचारो भवति (छा.७.२५.२) इति तत्फलञ्च व्यपिदशति; तत्र भूमविद्यापरत्वेऽपि वाक्यस्य नामाद्यवान्तरोपासनं तत्तत्फलं चाङ्गीक्रियते, तथा इहापीति ॥
(सूत्रार्थविवृत्या सिद्धान्तवर्णनम्)
एवं प्राप्तेऽभिधीयते – भूम्नो ज्यायस्त्वमिति । भूम्न: – विपुलस्य समस्तस्यैव, ज्यायस्त्वं प्रामाणिकत्वमित्यर्थ:; एकवाक्यत्वावगते:। तथा हि प्राचीनशाला औपन्यव: (छा.५.११.१,२) इत्युपक्रम्य उद्दालको ह वै भगवन्तोऽयमारुणिस्सम्प्रति इममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छाम (छां.५.११.२) इति वैश्वानरात्मबृुभुत्सया औपमन्यवादय: पञ्च महर्षय: तमुद्दालकमुपेत्य तत्र वैश्वानरात्मवेदनमलभमानास्तेन च सहाश्वपतिं केकयं वैश्वानरात्मवेदिनमुपसङ्गम्य आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहि (छा.५.११.६) इति पृष्ट्वा तत्सकाशात् परमात्मानं वैश्वानरं स्वर्लोकादिपृथिव्यन्तशरीरमुपास्यमवगम्य तत्फलं च सर्वलोकसर्वभूतसर्वात्मान्नभूतब्रह्मानुभवमवगतवन्त इत्युपसंहारतो वाक्यस्यैकत्वमवगम्यते । एवमेकवाक्यत्वेऽवगते सत्यवयवविशेषेषूपास्तिवचनं फलनिर्देशश्च समस्तोपासनैकदेशानुवादमात्रं इति निश्चीयते।
(सूत्रोक्तदृष्टान्तवर्णनम्)
क्रतुवत् – यथा वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते (यजु.२.२.५ु) इति विहितस्यैव क्रतोरेकदेशा: यदष्टाकपालो भवति (यजु.२.२.५ अनु) इत्यादिभिरनूद्यन्ते; तथा समस्तोपासनमेव न्याय्यम्, न व्यस्तोपासनम् । तथाहि दर्शयतीयं श्रुति: व्यस्तोपासने अनर्थं ब्रुवती मूर्धा ते व्यपितष्यद्यन्मां नागमिष्य: (छा.५-१२-२) इति अन्धोऽभविष्यो यन्मां नागमिष्य: (छां.५.१३.२) इत्यादिका ।
(पूर्वपक्षोक्तभूमविद्यागतैकदेशोपासनसाम्यनिरासः)
अत इदमप्यपास्तं, यन्नामाद्युपासनसाम्यमुक्तम् । तत्र हि नामाद्युपासनेष्वनर्थो न श्रुत:, नामाद्युपासनेभ्यो भूमोपासनस्यातिशयितफलत्वं श्रुतम् एष तु वा अतिवदति यस्सत्येनातिवदति (छा.७.१६.१) इति। तत एव तत्र भूमविद्यापरत्वेऽपि वाक्यस्य नामाद्युपासनानां सफलानां विवक्षितत्वम्; अन्यथाऽतिशयितफलत्वनिमित्तातिवादेन भूमविद्यास्तुत्यनुपपत्ते:, अतस्समस्तोपासनमेव न्याय्यम् ॥५५॥
इति श्रीशारीरकमीमांसाभाष्ये भूमज्यायस्त्वाधिकरणम्॥२३॥