[highlight_content]

श्रीभाष्यम् 03-03-24 शब्दादिभेदाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये शब्दादिभेदाधिकरणम्॥२४॥

(अधिकरणार्थः – ब्रह्मप्राप्त्येकफलानामपि वेदान्तोदितानां विद्यानां शब्दादिभेदतः स्वरूपभेदः)

४१०. नाना शब्दादिभेदात् ५६

(विारणीयार्थोपस्थापनम्)

इह ब्रह्मविद्यास्सर्वा: ब्रह्मप्राप्तिरूपमोक्षैकफला: सद्विद्याभूमविद्यादहरविद्योपकोसल-विद्याशाण्डिल्यविद्यावैश्वानरविद्यानन्दमयविद्याक्षरविद्यादिका एकशाखागताश्शाखान्तरगताश् उदाहरणम्; अन्या: प्राणाद्येकविषयफलाश्

(विारौपयिकः संशयः)

किमत्र विद्यैक्यम्, उत विद्याभेद इति संशय्यते।

(कर्मकाण्डोक्तन्यायतः पौनरुक्त्यशङ्काया निरासः)

अत्रैवासां परस्परभेदे समर्थिते सत्येकस्या दहरविद्यादिकायास्सर्ववेदान्तप्रत्ययन्याय:।

(पूर्वः पक्षः सयुक्तिकः)

किं युक्तम्? विद्यैक्यमिति। कुत:? वेद्यस्य ब्रह्मण एकत्वात्; वेद्यं हि विद्याया रूपम्; अतो रूपैक्याद्विद्यैक्यमिति॥

(सूत्रार्थविवरणतः सिद्धान्तः)

एवं प्राप्तेऽभिधीयते नाना – इति। नानाभूता विद्या:; कुत:? शब्दादिभेदात् – आदिशब्देनाभ्याससङ्ख्यागुणप्रक्रियानामधेयानि गृह्यन्ते; शब्दान्तरादिभिरत्र विधेयभेदहेतवः अनुबन्धभेदा: दृश्यन्ते ।

(सर्वेषामुपासनानां प्रत्ययैस्वरूपत्वेऽपि विद्यानां भेदोपपत्तिः)

यद्यपि वेदोपासीतेत्यादय: शब्दा: प्रत्ययावृत्त्यभिधायिन:; प्रत्ययाश् ब्रह्मैकविषया:; तथाऽपि तत्तत्प्रकरणोदितजगदेककारणत्वापहतपाप्मत्वादि-विशेषणविशिष्टब्रह्मविषयप्रत्ययावृत्त्य-वबोधिन: प्रत्ययावृत्तिरूपा: विद्या: भिन्दन्ति। ब्रह्मप्राप्तिरूपफलसम्बन्ध्युपासन-विशेषाभिधायीनि निराकांक्षाणि वाक्यानि प्रतिप्रकरणं विलक्षणविद्याभिधायीनीति निश्ीयते।

(पूर्वकाण्डतोऽवगतस्य पुनरभिधानौित्यम्)

अस्मिन्नर्थे  शब्दान्तरे कर्मभेद: (जै.सू.१-१-२) इत्यादिभि: पूर्वकाण्डोदितैस्सूत्रैस्सिद्धेऽपि पुनरिह प्रतिपादनं वेदान्तवाक्यानि  अवधेयज्ञानपराणीति कुदृष्टिनिरसनाय। अतो विद्याभेद इति स्थितम् ॥ ५६ ॥

इति श्रीशारीरकमीमांसाभाष्ये शब्दादिभेदाधिकरणम् ॥२४॥

Languages

Related Parts

error: Content is protected !!