श्रीशारीरकमीमांसाभाष्ये विकल्पाधिकरणम् ॥२५॥
(अधिकरणार्थः – ब्रह्मप्राप्त्यर्थं एकैकस्या एव विद्यायाः विकल्पेनानुष्ठेयता, न समुच्चयेन सर्वस्या अपि )
४११. विकल्पोऽविशिष्टफलत्वात् ॥ ३–३–५७ ॥
(सङ्गतिसंशययोः प्रदर्शनम्)
ब्रह्मप्राप्तिफलानां सद्विद्यादहरविद्यादीनां नानात्वमुक्तम्; इदानीमासां विद्यानामेकस्मिन् पुरुषे प्रयोजनवत्त्वेन समुच्चयोऽपि सम्भवति, उत प्रयोजनाभावाद्विकल्प एवेति विशये –
(सयुक्तिकः पूर्वः पक्षः)
किं युक्तम्? समुच्चयोऽपि सम्भवतीति; कुत: एकफलानां भिन्नशास्त्रार्थानामपि समुच्चयदर्शनात्। दृश्यते ह्येकस्यैव स्वर्गादेस्साधनानामग्निहोत्रदर्शपूर्णमासादीनां तस्यैव स्वर्गस्य भूयस्त्वापेक्षयैकत्र पुरुषे समुच्चय:; एवमिहापि ब्रह्मानुभवभूयस्त्वापेक्षया समुच्चयोऽपि सम्भवतीति॥
(सूत्रतस्सिद्धान्तोपपादनम्)
एवं प्राप्ते प्रचक्ष्महे – विकल्प एव; न समुच्चयस्सम्भवतीति। कुत:? अविशिष्टफलत्वात् – सर्वासां हि ब्रह्मविद्यानामनवधिकातिशयानन्दब्रह्मानुभव: फलमविशिष्टं श्रूयते – ब्रह्मविदाप्नोति परम् (तै.आन.१.१) स एको ब्रह्मण आनन्द: श्रोत्रियस्य चाकामहतस्य (तै.आन.८.४) यदा पश्य: पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जन: परमं साम्यमुपैति (मु.३.१.३) इत्यादिभ्य:।
(ब्रह्मानन्दस्य फलत्वदर्शनम्)
ब्रह्म हि स्वस्य परस्य च स्वयमनुभूयमानमनवधिकातिशयानन्दं भवति । स च तादृशो ब्रह्मानुभव एकया विद्ययाऽवाप्यते चेत् – किमन्ययेति न समुच्चयसम्भव:। स्वर्गादेर्हि देशत: कालत: स्वरूपतश्च परिमितत्वेन तत्र देशाद्यपेक्षया भूयस्त्वसम्भवात् तदर्थिनस्समुच्चयस्सम्भवति; इह तु तद्विपरीतस्वरूपे ब्रह्मणि तन्न सम्भवति। सर्वाश्च विद्या: ब्रह्मानुभवविरोध्यनादि-कर्माविद्यानिरसनमुखेन ब्रह्मप्राप्तिफला इत्यविशिष्टफलत्वात्सर्वासां विकल्प एव ॥५७॥
(काम्यफलासु क्रियासु समुच्चयसम्भवः)
ब्रह्मप्राप्तिव्यतिरिक्तफलास्तु विद्यास्स्वर्गादिफलकर्मवद्यथेष्टं विकल्पेरन्, समुच्चयेरन्वा, तासां परिमितफलत्वेन भूयस्त्वापेक्षासम्भवात् । तदाह –
४१२. काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥ ३–३–५८ ॥
अपरिमितफलत्वाभावादित्यर्थ: ॥५८॥
इति श्रीशारीरकमीमांसाभाष्ये विकल्पाधिकरणम्॥२५॥