श्रीभगवद्रामानुजविरचितेश्रीशारीरकमीमांसाभाष्ये
तृतीये साधनाध्याये – चतुर्थ: अङ्गपाद:
(पादार्थः – मोक्षोपायतया वेदान्तविहितविद्याङ्गभूतकर्मादिविषयिणी चिन्ता)
पुरुषार्थाधिकरणम्॥१॥
(अधिकरणानि – 1 – 15 सूत्राणि – 1 – 51)
(अधिकरणार्थः – कर्माङ्गकादुपासनादेव परमपुरुषार्थावाप्तिः, न तु वेदनाङ्गकात् कर्मणः)
४१९. पुरुषार्थोऽतश्शब्दादिति बादरायण: ॥ ३–४–१ ॥
(ईशावास्यविद्याविचारः 3-4-33)
(अस्याधिकरणस्य पूर्वपादेन सह सङ्गतिः विचारणीयोंशश्च)
गुणोपसंहारानुपसंहारफला विद्यैकत्वनानात्वचिन्ता कृता; इदानीं विद्यात: पुरुषार्थ:, उत विद्याङ्गकात्कर्मण इति चिन्त्यते।
(सिद्धान्त्यभिमतोऽर्थः)
किं युक्तम्? अत: – विद्यात: पुरुषार्थ इति भगवान् बादरायणो मन्यते; कुत:? शब्दात् – दृश्यते ह्यौपिनषदश्शब्दो विद्यात: पुरुषार्थं ब्रुवन् ब्रह्म विदाप्नोति परम् (तै.आ.१.अनु) वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमस: परस्तात्। तमेवं विद्वानमृत इह भवति। नान्य: पन्था विद्यतेऽयनाय (पु.सू.) यथा नद्य: स्यन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय। तथा विद्वान्नामरूपाद्विमुक्त: परात्परं पुरुषमुपैति दिव्यम् (मु.३.२८) इत्यादि॥१॥
(पूर्वपक्षपरं सूत्रम् – विद्यातः फलश्रुतेरर्थवादतापरम्)
अत्र पूर्वपक्षी प्रत्यवतिष्ठते –
४२०. शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनि: ॥ ३–४–२ ॥
नैतदेवम् – यद्विद्यात: पुरुषार्थावाप्तिश्शब्दादवगम्यते – इति। न ह्येष: ब्रह्मविदाप्नोति परम् (तै.आ.१) इत्यादिशब्दो वेदनात्पुरुषार्थावाप्तिमवगमयति, कर्मसु कर्तृभूतस्याऽत्मनो याथात्म्यवेदनप्रतिपादनपरत्वात्। अत: कर्तुस्संस्कारद्वारेण विद्याया: क्रतुशेषत्वात्तत्र फलश्रुतिरर्थवादमात्रम्; यथाऽन्येषु द्रव्यादिषु – इति जैमिनिराचार्यो मन्यते। तदुक्तं द्रव्यगुणसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादस्स्यात् (जै.मी.सू.४.३.१) इति।
(पूर्वपक्षोक्तस्य वेदान्तशब्दानां जीवयाथात्म्यपरत्वस्य आक्षेपः सिद्धान्तिनः)
ननु च कर्मसु कर्तुर्जीवादन्यो मुमुक्षुभि: प्राप्यतया वेदान्तेषु वेद्य उपिदश्यत इति प्रागेवोपपादितं नेतरोऽनुपपत्ते: (ब्र.सू..१.१.१७) भेदव्यपदेशाच्च (शारी.१-१-१८) अनुपपत्तेस्तु न शारीर: (ब्र.सू.१.२.३) इतरपरामर्शात्स इति चेन्नासम्भवात् (शारी.१-३-१७) इत्येवमादिभिस्सूत्रै:; तदेव ब्रह्म तत्त्वमस्यादिसामानाधिकरण्येन जीवादनतिरिक्तमित्येतदपि अधिकं तु भेदनिर्देशात् (ब्र.सू.२.१.२२) इत्येवमादिभिर्निरस्तम्; सामानाधिकरण्यनिर्देशश्च ऐतदात्म्यमिदं सर्वं (छा.६.८.७) सर्वं खल्विदं ब्रह्म (छा.३.१४.१) इति चेतनाचेतनसाधारण:; य: पृथिव्यां तिष्ठन् (बृ.५.७.३) य आत्मनि तिष्ठन् (बृ.६.३.२२) इत्यादिनाऽवगततत्तदात्मतयाऽवस्थितिनिबन्धन इति अवस्थितेरिति काशकृत्स्न: (ब्र.सू.६.४.२२) इत्यादिभिरुपपादितम्; तत्कथं कर्मसु कर्तुरात्मनो याथात्म्योपदेशपरा वेदान्तशब्दा इति विद्याया: कर्माङ्गत्वं प्रतिपाद्यते?।
(प्रसक्ताक्षेपस्य पूर्वपक्षिकृतः परिहारः)
उच्यते – वेदान्तवाक्येष्वेव विद्याया: कर्मप्राधान्यं सूचयद्भिर्लिगै: तदुपबृंहित-सामानाधिकरण्यनिर्देशेन च वेदान्तशब्दा देहातिरिक्तजीवस्वरूपयाथात्म्योपदेशपरा इति बलादभ्युपगमनीयमिति पूर्वपक्षिणोऽभिप्राय:।
(विद्यायाः कर्मसंस्कारद्वारा क्रत्वङ्गत्वायोगशङ्का-निरासौ)
ननु च कर्तृसंस्कारमुखेन विद्याया: क्रत्वनुप्रवेशो न शक्यते वक्तुम्, कर्तुर्लौकिकवैदिकसाधारणत्वेनाव्यभिचरितक्रतुसम्बन्धित्वाभावात्। नैवम्, लौकिकस्य कर्मण: कर्तुर्देहादव्यतिरिक्तत्वेऽप्युपपत्तेर्देहातिरक्तनित्यात्मस्वरूपस्य क्रतावेवोपयोगात् तत्स्वरूपप्रतिपादन-मुखेन क्रत्वनुप्रवेशो न विरुध्यते। अतो विद्याया: क्रतुशेषत्वान्नात: पुरुषार्थ:॥२॥
(वेदान्तानां जीवस्वरूपपरत्वे लिङ्गप्रदर्शनं सूत्रतः)
कानि पुनस्तानि लिङ्गानि; यदुपबृंहितसामानाधिकरण्यनिर्देशेन वेदान्तशब्दा जीवस्वरूपपरा इति निर्णीयन्ते। तत्राह –
४२१. आचारदर्शनात् ॥ ३–४–३ ॥
ब्रह्मविदां प्राधान्येन कर्मस्वेवाचारो दृश्यते अश्वपति: केकय: किल आत्मवित्तम: तद्विज्ञानाय उपगतांस्तानृषीन् प्रत्याह – यक्ष्यमाणो ह वै भगवन्तोऽहमस्मि (छा.५.११.५) इति । तथा जनकादयो ब्रह्मविदग्रेसरा: कर्मनिष्ठा: स्मृतिषु दृश्यन्ते, कर्मणैव हि संसिद्धिमास्थिता जनकादय: (भ.गी.३.२०) इयाज सोऽपि सुबहून् यज्ञान् ज्ञानव्यपाश्रय: (वि.पु.६.६.१२) इति । अतो ब्रह्मविदां कर्मप्रधानत्वदर्शनाद्विद्याया: कर्तृस्वरूपवेदनरूपत्वेन कर्माङ्गत्वमेवेति न विद्यात: पुरुषार्थ:॥३॥
(उक्तार्थे लिङ्गानुग्राह्यप्रमाणप्रदर्शनम्)
लिङ्गमिदम्; प्राप्तिरुच्यतामित्यत्राह –
४२२. तच्छ्रुते: ॥ ३–४–४ ॥
श्रुतिरेव हि विद्याया: कर्माङ्गत्वमाह – यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति (छा.१.१.१०) इति। नेयं श्रुति: प्रकरणादुद्गीथमात्रविषयेति व्यवस्थापयितुं शक्या; यत: प्रकरणाच्छुतिर्बलीयसी; यदेव विद्यया करोति (छा.१.१.१०) इति विद्यामात्रविषया हीयं श्रुति: ॥४॥
(श्रुतिदृष्टे साहित्ये विद्यायाः कर्माङ्गताज्ञापकम्)
४२३. समन्वारम्भणात् ॥ ३–४–५ ॥
तं विद्याकर्मणी समन्वारभेते (बृ.६.४.२) इति विद्याकर्मणोस्साहित्यं च दृश्यते । साहित्यं चोक्तेन न्यायेन विद्याया: कर्माङ्गत्वे सत्येव भवति ॥
(कर्मविधिषु विद्यावतः अधिकारत्वोक्तिरपि उक्तार्थज्ञापिका)
४२४. तद्वतो विधानात् ॥ ३–४–६ ॥
विद्यावत: कर्मविधानाद्विद्या कर्माङ्गमित्यवगम्यते – आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरो: कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे (छा.८.१५.१) इत्यादौ । वेदमधीत्य (छा.८.१५.१) इत्यध्ययनवत: कर्माणि विदधदर्थावबोधपर्यन्ताध्ययनवत एव विदधाति । अर्थावबोधपर्यन्तं ह्यध्ययनमिति स्थापितम् । अतो ब्रह्मविद्यापि कर्मसु विनियुक्तेति न पृथक्फलायावकल्पते ॥६॥
(समग्रस्यायुषः कर्मनैयत्यात् विद्याया अङ्गतैव)
४२५. नियमात् ॥ ३–४–७ ॥
इतश्च न विद्यात: पुरुषार्थ:। कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समा: (ईश.२) इत्यात्मविद:, पुरुषायुषस्य सर्वस्य कर्मसु नियमेन विनियोगात्कर्मण एव फलमित्यवगम्यते। विद्या तु कर्माङ्गमिति ॥७॥
(सिद्धान्तारम्भः)
एवं प्राप्ते प्रचक्ष्महे –
४२६. अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥ ३–४–८ ॥
तुशब्दात्पक्षो व्यावृत्त:; विद्यात एव पुरुषार्थ:; कुत:? अधिकोपदेशात् – कर्मसु कर्तुर्जीवात् हेयप्रत्यनीकानवधिकातिशयासंख्येयकल्याणगुणाकरत्वेनाधिकस्य अर्थान्तरभूतस्य परस्य ब्रह्मणो वेद्यतयोपदेशात् भगवतो बादरायणस्य विद्यात: फलं इत्येवमेव मतम् । लिङ्गानि तिष्ठन्तु; वेद्यतयोपदेशस्तु तावत्कर्तु: प्रत्यगात्मनोऽधिकस्यैव। कथम्? तद्दर्शनात् – प्रत्यगात्मन्यशुद्धे शुद्धेऽप्यसम्भावनीयानन्तगुणाकरस्य वेद्यस्य निरस्तनिखिलहेयगन्धस्य स्वसङ्कल्पकृत-जगदुदयविभवलयलीलस्य सर्वज्ञस्य सर्वशक्तेर्वाङ्मनसा अपरिच्छेद्यानन्दस्य जीवाधिपस्य कृत्स्नस्य प्रशासितु: परस्य ब्रह्मणो वेदनोपदेशवाक्येषु दर्शनात् – अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्प: (छा.८.१.५) तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत (छा.६.२.३) यस्सर्वज्ञस्सर्ववित् (मुण्ड.१.१.९) पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च (श्वे.६.८) स एको ब्रह्मण आनन्द: (तै.आन.८.४) यतो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनेति (तै.आन.४.१) एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण: (बृ.६.४.२२) स कारणं करणाधिपाधिपो, नचास्य कश्चिज्जनिता नचाधिप: (श्वे.६-९) एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत: (बृ.५.७.९) भीषास्माद्वात: पवते । भीषोदेति सूर्य:। भीषास्मादग्निश्चेन्द्रश्च। मृत्युर्धावति पञ्चम: (तै.आ.८.१) इत्यादिषु। तस्माद्वेदनोपदेशशब्देषु कर्तु: प्रत्यगात्मन: खद्योतकल्पस्य अविद्यादिदेहसम्बन्धयोग्यस्य गन्धोऽपि नास्तीति परमपुरुषविषयाया विद्यायास्तत्प्राप्तिरूपममृतत्वं तत्र तत्र श्रूयमाणं फलमिति विद्यात: पुरुषार्थ इति सुष्ठूक्तम् ॥८॥
(आचारदर्शनादीनां लिङ्गानां निरासः)
लिङ्गान्यपि निरस्यन्ते –
४२७. तुल्यं तु दर्शनम् ॥ ३–४–९ ॥
यदुक्तं – ब्रह्मविदां कर्मानुष्ठानदर्शनाद्विद्या कर्माङ्गम् – इति; तन्न विद्याया अनङ्गत्वेऽपि तुल्यं दर्शनम्, ब्रह्मविदां कर्मानुष्ठानदर्शनमनैकान्तिकमित्यर्थ:, अननुष्ठानस्यापि दर्शनात् । दृश्यते हि ब्रह्मविदां कर्मत्याग: ऋषय: कावषेया: किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे इत्यादौ। अतो ब्रह्मविदां कर्मत्यागदर्शनान्न विद्या कर्माङ्गम् ।
(ब्रह्मविदां कर्मानुष्ठानाननुष्ठानयोः विरोधाभासपरिहारः)
कथमिदमुपपद्यते – ब्रह्मविदां कर्मानुष्ठानमननुष्ठानञ्च फलाभिसन्धिरहितस्य यज्ञादिकर्मणो ब्रह्मविद्याङ्गत्वात्तथाविधस्य कर्मणोऽनुष्ठानदर्शनमुपपद्यते । वक्ष्यति च सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् (शारी.३.४.२६) इति । फलार्थस्य तस्यैव यज्ञादे: कर्मणो मोक्षैकफलब्रह्म-विद्याविरोधित्वात् तस्याननुष्ठानदर्शनमुपपन्नतरम्। विद्याया: कर्माङ्गत्वे कर्मत्याग: कथमपि नोपपद्यते ॥ ९॥
(विद्यासामान्यस्य कर्माङ्गतायाः श्रौतत्वनिरासः)
यदुक्तं – श्रुत्यैव विद्याया: कर्माङ्गत्वमवगम्यते इति; तत्राह –
४२८. असार्वत्रिकी ॥ ३–४–१० ॥
न सर्वविद्याविषयेयं श्रुति:; अपि तूद्गीथविद्याविषयैव यदेव विद्यया करोति (छा.१.१.१०) इति यच्छब्दस्यानिर्धारितविशेषस्य उद्गीथमुपासीत (छा.१.१.१) इति प्रस्तुतोद्गीथविशेषनिष्ठत्वात्। न हि यत्करोति, तद्विद्ययेति सम्बध्यते; यदेव विद्यया करोति, तदेव वीर्यवत्तरमिति विद्यया क्रियमाणं यच्छब्देन निर्दिश्य तस्य हि वीर्यवत्तरत्वमुच्यते ॥१०॥
(विद्याकर्मणोः साहित्यदर्शनस्य विद्यायां कर्माङ्गत्वगमकतानिरासः)
यच्चेदमुक्तं तं विद्याकर्मणी समन्वारभेते (बृ.६.४.२) इति विद्याकर्मणोस्साहित्यदर्शनात् विद्या कर्माङ्गम् – इति; तत्राह-
४२९. विभागश्शतवत् ॥ ३–४–११ ॥
तं विद्याकर्मणी समन्वारभेते (बृ.६.४.२) इत्यत्रोक्तेन न्यायेन विद्याकर्मणोर्भिन्नफलत्वात् विद्या स्वस्मै फलाय समन्वारभते, कर्म च स्वस्मै फलायेति विभागो द्रष्टव्य:। शतवत् – यथा क्षेत्ररत्नविक्रयिणं शतद्वयमन्वेतीत्युक्ते क्षेत्रार्थं शतम्, रत्नार्थंशतमिति विभाग:प्रतीयते; तथेहापि ॥
(विद्यावतः कर्मविधानमिति शङ्कायाः परिहारः)
४३०. अध्ययनमात्रवत: ॥ ३–४–१२ ॥
यदुक्तं विद्यावत: कर्मविधानाद्विद्या कर्माङ्गम् – इति; नैतद्युक्तम्, वेदमधीत्य (छा.८.१५.१) इत्यध्ययनमात्रवतो विधानात् । न चाध्ययनविधिरेवार्थबोधे प्रवर्तयति, आधानवदध्ययनस्याक्षरराशिग्रहणमात्रे पर्यवसानात् । गृहीतस्य च स्वाध्यायस्य फलवत्कर्मावबोधित्वदर्शनात्तन्निर्णयफले तदर्थविचारे पुरुष: स्वयमेव प्रवर्तते; तत: कर्मार्थी कर्मज्ञाने प्रवर्तते, मोक्षार्थी च ब्रह्मज्ञान इति न विद्या कर्माङ्गम् । यद्यप्यध्ययनविधिरेवार्थावबोधे प्रवर्तयति; तथापि न विद्या कर्माङ्गम्, अर्थज्ञानादर्थान्तरत्वाद्विद्याया:। यथा ज्योतिष्टोमादि-कर्मस्वरूपविज्ञानात् फलसाधनभूतं कर्मानुष्ठानमर्थान्तरम्; तथाऽर्थज्ञानरूपात् ब्रह्मस्वरूपविज्ञानात् अर्थान्तरमेव ध्यानोपासनादिशब्दवाच्या पुरुषार्थसाधनभूता विद्येति न तस्या: कर्मसम्बन्धगन्धो विद्यते ॥१२॥
४३१. नाविशेषात् ॥ ३–४–१३ ॥
(कुर्वन्नेवेति श्रुतेः फलसाधनभूतकर्मविषयतानिषेधः)
यच्चोक्तं कुर्वन्नेवेहे कर्माणि (ईशा.२) इत्यात्मविदं ज्ञानाद्व्यावर्त्य यावज्जीवं कर्मानुष्ठाने नियमयतीति; तन्नोपपद्यते; अविशेषात् – नह्ययं नियम: फलसाधनभूतस्वतन्त्रकर्मविषय इति विशेषहेतुरस्ति, विद्याङ्गभूतकर्मविषयतयाऽप्युपपत्ते:। कर्मणैव हि संसिद्धिमास्थिता जनकादय: (भ.गी.३.२०) इति च विदुषस्त्वाप्रयाणादुपासनस्य अनुवर्तमानत्वात् ॥१३॥
(कुर्वन्नेवेति श्रुत्याशयः सूत्रेण)
एवमर्थस्वाभाव्येन चोद्यं परिहृत्य कुर्वन्नेवेह कर्माणि (ई.२) इत्यस्य वाक्यस्यार्थमाह –
४३२. स्तुतयेऽनुमितर्वा ॥ ३–४–१४ ॥
वाशब्दोऽवधारणार्थ:; ईशावास्यिमदं सर्वम् (ईशा.१) इति विद्याप्रकरणाद्विद्यास्तुतये सर्वदा कर्मानुष्ठानानुमतिरियम्। विद्यामाहात्म्यात्सर्वदा कर्म कुर्वन्नपि न लिप्यते कर्मभिरिति हि विद्या स्तुता भवति । वाक्यशेषश्चैवमेव दर्शयति, एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे (ईशा.२) इति। अतो न कर्माङ्गं विद्या ॥ १४॥
४३३. कामकारेण चैके ॥ ३–४–१५ ॥
(विरक्तस्य विदुषः स्वेच्छया गार्हस्थ्यत्यागदर्शनं विद्यायाः कर्माङ्गत्वविरोधि)
अपि चैवमेके शाखिन: कामकारेण ब्रह्मविद्यानिष्ठस्य गार्हास्थ्यत्यागमधीयते किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक: (बृ.६.४.२२) इति। विदुषो विरक्तस्य कामकारेण गार्हास्थ्यकर्मत्यागं ब्रुवदिदं वचनं ब्रह्मविद्याया: कर्मानङ्गत्वं दर्शयति । यज्ञादिकर्माङ्गत्वे हि विद्याया: विद्यानिष्ठस्य कामकारेण गार्हास्थ्यत्यागो न सम्भवति । अतो न विद्या कर्माङ्गम् ॥ १५॥
(विद्यया सर्वकर्मोपमर्दश्रवणमपि विद्यायाः कर्मानङ्गत्वज्ञापकम्)
४३४. उपमर्दं च ॥ ३–४–१६ ॥
पुण्यापुण्यरूपस्य समस्तसांसारिकदु:खमूलस्य कर्मणो ब्रह्मविद्ययोपमर्दं च प्रतिवेदान्तमधीयते। भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशया:। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे (मुण्ड.२.२.८) इत्यादिकम्। तद्विद्याया: कर्माङ्गत्वे न सङ्गच्छते॥१६॥
(परिव्राजकेषु विद्यादर्शनं कर्मादर्शनं चेत्येतत् विद्यायाः अनङ्गताज्ञापकम्)
४३५. ऊर्ध्वरेतस्सु च शब्दे हि ॥ ३–४–१७ ॥
ऊर्ध्वरेतस्स्वाश्रमेषु ब्रह्मविद्यादर्शनात्तेष्वग्निहोत्रदर्शपूर्णमासादिकर्माभावाच्च न विद्या कर्माङ्गम्। ननूर्ध्वरेतस आश्रमा न सन्त्येव यावज्जीवमग्निहोत्रं जुहोति (आप.श्रौत.३-१४-५) इत्यादिनाऽग्निहोत्रदर्शपूर्णमासादीनां यावज्जीवाधिकारश्रुते:; श्रुतिविरुद्धानां स्मृतीनां चाप्रामाण्यात्। अत आह – शब्दे हि – इति । वैदिक एव हि शब्दे ते दृश्यन्ते त्रयो धर्मस्कन्धा: (छा.२.२३.१) ये चेमेऽरण्ये श्रद्धा तप इत्युपासते (छा.५.१०.१) एतमेव प्रव्राजिनो लोकिमिच्छन्त: प्रव्रजन्ति (बृह.६.४.२२) इत्यादौ। यावज्जीवश्रुतिस्त्वविरक्तविषया ॥१७॥
(जैमिनिमते सन्न्यासाश्रमः अवैधः)
४३६. परामर्शं जैमिनिरचोदनाच्चापवदति हि ॥ ३–४–१८ ॥
यदिदं त्रयो धर्मस्कन्धा: (छा.२.२.३) इत्यादौ वैदिके शब्दे ऊर्ध्वरेतस आश्रमा दृश्यन्ते; अतस्ते सन्त्येवेति; नैतदुपपद्यते; यत: त्रयो धर्मस्कन्धा: (छा.२.२३.१) इत्यादिषु वाक्येषु तेषामाश्रमाणां परामर्शमात्रं क्रियते – अनुवादमात्रमित्यर्थ:। कुत एतत्? अचोदनात् – अविधानादित्यर्थ:। न ह्यत्र विधिशब्द: श्रूयते; त्रयो धर्मस्कन्धा: (छां.२.२३.१) इत्यादिना हि प्रकृतं प्रणवेन ब्रह्मोपासनं स्तूयते, ब्रह्मसंस्थोऽमृतत्वमेति (छां.२.२३.१) इत्युपसंहारात् । अतोऽन्यार्थमनुवादमात्रमत्र क्रियते तेषामाश्रमाणाम् । ये चेमेऽरण्ये श्रद्धा तप इत्युपासते (छा.५.१०.१) इति च देवयानविधिपरत्वात्तत्रापि नाश्रमान्तरविधिसम्भव: । अपि चापवदति हि श्रुतिराश्रमान्तरं वीरहा वा एष देवानां योऽग्निमुद्वासयते (यजु.१.कां.५.२) इत्यादिका । अत ऊर्ध्वरेतस आश्रमा न सन्तीति जैमिनिराचार्यो मन्यते ॥१८॥
४३७. अनुष्ठेयं बादरायणस्साम्यश्रुते:॥ ३–४–१९ ॥
(गार्हस्थ्येतरस्याऽप्याश्रमस्य अनुष्ठेयत्वं बादरायणमते)
गृहस्थाश्रमवदाश्रमान्तरमप्यनुष्ठेयं भगवान् बादरायणो मन्यते । कुत:? साम्यश्रुते: – उपादेयतयाऽभिमतगृहस्थाश्रमसाम्यं हि तेषामप्याश्रमाणां श्रूयते। त्रयो धर्मस्कन्धा: (छां.२.२३.१) इत्यारभ्य ब्रह्मसंस्थस्तुत्यर्थतया सङ्कीर्तनं गृहस्थाश्रमस्येतरेषां च समानम्; अथ गृहस्थाश्रमस्यानुवाद: प्राप्तौ सत्यामेव संभवतीति तस्य प्राप्तिरवश्याभ्युपेत्येति मतम्; तदितरेषामपि समानमन्यत्राभिनिवेशात्।
(यज्ञादीनां गृहस्थमात्रत्वशङ्का-तत्परिहारौ)
न च गार्हास्थ्यधर्म एव यज्ञोऽध्ययनं दानं तपो ब्रह्मचर्यम् (छां.२.२३.१) इति सर्वैश्शब्दैरभिधीयते, ब्रह्मचर्यतपसोर्गृहस्थस्यैव सम्भवादिति युक्तम्, त्रयो धर्मस्कन्धा: (छा.२.२३.१) इति त्रित्वेन संगृह्य प्रथम:… द्वितीय:…. तृतीय:…. (छां.२.२३.११) इति विभागवचनानुपपत्ते:। अत: यज्ञोऽध्ययनं दानम् (छा.२.२३.१) इति गृहस्थाश्रम उच्यते। अध्ययनशब्दो वेदाभ्यासपर:। तपश्शब्देन वैखानसपारिव्राज्ययोर्ग्रहणम्, उभयो: तप: प्रधानत्वात्। तपश्शब्दो हि कायक्लेशे रूढ:, स च द्वयोरपि समान:। ब्रह्मचारिधर्म एव ब्रह्मचर्यशब्देनाभिधीयते। ब्रह्मसंस्थोऽमृतत्वमेति (छा.२.२३.१) इति परत्र श्रूयमाणो ब्रह्मसंस्थशब्दो यौगिक: सर्वाश्रमसाधारण:, सर्वेषामाश्रमिणां ब्रह्मसंस्थासम्भवात्। ब्रह्मणि संस्था – संस्थिति: ब्रह्मसंस्थत्वम्; तच्च सर्वेषां सम्भवत्येव। ब्रह्मनिष्ठाविकला: केवलाश्रमिण: पुण्यलोकभाज:; तेष्वेव ब्रह्मनिष्ठोऽमृतत्वभाग्भवति। तदेतद्विस्पष्टमुक्तं भगवता पराशरेण प्राजापत्यं ब्राह्मणानाम् (वि.पु.१.६.३४) इत्यारभ्य ब्राह्मं संन्यासिनां स्मृतम् (वि.पु.१.६.३७) इत्यन्तेन वर्णानामाश्रमाणां च केवलानां ब्रह्मलोकप्राप्त्यन्तं फलमभिधाय एकान्तिनस्सदा ब्रह्मध्यायिनो योगिनो हि ये। तेषां तत्परमं स्थानं यद्वै पश्यन्ति सूरय: (वि.पु.१.६.३९) इति तेष्वेव ब्रह्मनिष्ठानां ब्रह्मप्राप्तिमभिदधता। अतो गृहस्थाश्रमतुल्या: ऊर्ध्वरेतस आश्रमा अपि दृश्यन्त इति तेऽप्यनुष्ठेया:। ये चेमेऽरण्ये श्रद्धा तप इत्युपासते (छा.५.१०.१) इति च अरण्ये इति तप: प्रधानाश्रमप्राप्त्यपेक्षत्वाद्देवयानविधानस्य तत्रापि तत्प्राप्तिरङ्गीकरणीया ॥ १९॥
(उक्तश्रुतेः सर्वाश्रमविधिपरत्वम्)
परामर्शपक्षे विधानपक्षे च गृहस्थाश्रमतुल्यमेषामप्यनुष्ठेयत्वमित्युपपाद्य विधिरेवायामाश्रमाणां सर्वेषां, नानुवाद इत्युपपादयितुमाह –
४३८. विधिर्वा धारणवत् ॥ ३–४–२० ॥
वा शब्दोऽवधारणार्थ: । विधिरेवायमाश्रमाणाम्; धारणवत् – यथा दिष्टाग्निहोत्रे, अधस्तात्समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयति इत्यत्रानुवादसरूपादपि वाक्यादुपरि धारणस्याप्राप्तत्वाद्विधिराश्रीयते; तदुक्तं शेषलक्षणे विधिस्तु धारणोऽपूर्वत्वात् (पू.मी.सू.३.४.१५) इति; तथाऽत्राप्यप्राप्तत्वाद्विधिरेवाश्रयणीय: ॥
(अस्यार्थस्य कृत्वाचिन्तया विवरणरूपत्वम्)
ब्रह्मचर्यं समाप्य गृही भवेत् गृहाद्वनी भूत्वा प्रव्रजेत् यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वा वनाद्वा यदहरेव विरजेत् तदहरेव प्रव्रजेत् (जाबा.उ.४) इति जाबालानामाश्रमविधिमसन्तमिव कृत्वा, एतेष्वन्यपरेष्वपि वाक्येष्वाश्रमप्राप्तिरवश्याश्रयणीया इत्युपपादितम् ।
(विविधश्रुतीनां तात्पर्यसमीकरणम्)
एवमाश्रमान्तरविधानात् ऋणश्रुतिर्यावज्जीवश्रुतिरपवादश्रुतिश्चाविरक्तविषया एवेति वेदितव्या:। अन्याश्च ब्रह्मविद: कर्मणामाप्रयाणात् अवश्यकर्तव्यताविधायिन्य: श्रुतय: स्मृतयश्च स्वस्वाश्रमधर्मविषया: ।
अत ऊर्ध्वरेतस्सु च ब्रह्मविद्याविधानाद्विद्यात: पुरुषार्थ इति सिद्धम् ॥२०॥
इति श्रीशारीरकमीमांसाभाष्ये पुरुषार्थाधिकरणम् ॥ १॥