श्रीशारीरकमीमांसाभाष्ये अग्नीन्धनाद्यधिकरणम्॥ ४॥
(अधिकरणार्थः – परिव्राजिकानां विद्यासिद्धिः, स्वाश्रमविहितकर्मापेक्षैव, न तु अग्न्याधानपूर्वककर्मापेक्षा)
४४३. अत एव चाग्नीन्धनाद्यनपेक्षा ॥ ३–४–२५ ॥
(पूर्वाधिकरणयोः प्रासङ्गिकता, प्रकृतसङ्गतिश्च)
स्तुतिप्रसङगादवान्तरसङ्गतिविशेषेणार्थद्वयं चिन्तितम् । विद्यावन्त ऊर्ध्वरेतस आश्रमिण: सन्तीत्युक्तम् ऊर्ध्वरेतस्सु च शब्दे हि (शारी.३.४.२७) इत्यादिभिस्सूत्रै:।
(पूर्वपक्षसिद्धान्तौ)
इदानीमूर्ध्वरेतसो यज्ञाद्यभावात्तदङ्गिका विद्या न सम्भवतीत्याशङ्क्याह – अत एव चाग्नीन्धनाद्यनपेक्षा – इति । यत ऊर्ध्वरेतस आश्रमिणो विद्यासम्बन्धित्वेन श्रुत्या परिगृह्यन्ते ब्रह्मसंस्थोऽमृतत्वमेति (छा.२.२३.१) ये चेमेऽरण्ये श्रद्धा तप इत्युपासते (छा.५.१०.१) एतमेव प्रव्राजिनो लोकमिच्छन्त: प्रव्रजन्ति (बृ.६.४.२२) यदिच्छन्तो ब्रह्मचर्यं चरन्ति (कठ.१.२.१५) इत्यादिकया; अत एवोर्ध्वरेतस्सु विद्या अग्नीन्धनाद्यनपेक्षा अग्नीन्धनम् – अग्न्याधानम्; आधानपूर्वकाग्निहोत्रदर्शपूर्णमासादिकर्मानपेक्षा तेषु विद्या । केवलस्वाश्रमविहितकर्मापेक्षेत्यर्थ:॥२५॥
इति श्रीशारीरकमीमांसाभाष्ये अग्नीन्धनाद्यधिकरणम्॥४॥