श्रीशारीरकमीमांसाभाष्ये सर्वान्नानुमत्यधिकरणम् ॥७॥
४४६. सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ ३–४–२८ ॥
(विचारणीयविषयोपस्थापनम्)
वाजिनां छन्दोगानां च प्राणविद्यायां न ह वा अस्यानन्नं दग्धं भवति नानन्नं परिगृहीतं भवति (बृ.८.१.१४) न ह वा एवंविदि किञ्चनानन्नं भवति (छा.५.२.१) इति प्राणविद: सर्वान्नानुमति: सङ्कीर्त्यते ॥
(विचारणोपयोगी संशयः)
किमियं प्राणविद्यानिष्ठस्य सर्वान्नानुमति: सर्वदा, उत प्राणात्ययापत्ताविति विशये,
(पूर्वपक्षः)
विशेषानुपादानात्सर्वदा – इति प्राप्ते
(सिद्धान्तार्थः)
उच्यते – प्राणात्यये इति। च शब्दोऽवधारणे; प्राणात्ययापत्तावेवेत्यर्थ:। कुत:? तद्दर्शनात् – दृश्यते ह्यन्यत्र ब्रह्मविदामपि प्राणात्ययापत्तावेव सर्वान्नाभ्यनुज्ञा; किं पुन: प्राणविद:। उषस्ति: किल चाक्रायणो ब्रह्मविदग्रेसरो मटचीहतेषु कुरुषु दुर्भिक्षदूषितेष्विभ्यग्रामे वसन्ननशनेन प्राणसंशयमापन्नो ब्रह्मविद्यानिष्पत्तये प्राणानामनवसादमाकाङ्क्षमाण: इभ्यं कुल्माषान् खादन्तं भिक्षमाणस्तेन च उच्छिष्टेभ्योऽन्ये न विद्यन्त इति प्रत्युक्त: पुनरपि एतेषां मे देहि (छा.१.१०.३) इत्युक्त्वा तेन चेभ्येनोच्छिष्टेभ्य आदाय दत्तान् कुल्माषान् प्रतिगृह्यानुपानप्रतिग्रहमिभ्येनार्थित: उच्छिष्टं वै मे पीतं स्यात् (छा.१.१०.४१) इति वदंश्चाक्रायण: किमेते कुल्माषा अनुच्छिष्टा इति इभ्येन पर्यनुयुक्त: न वा अजीविष्यमिमानखादन् … कामो मे उदपानम् (छा.१.१०.४) इति कुल्माषाखादने स्वस्य प्राणसंशयापत्तेस्तावन्मात्रखादनेन धृतप्राणस्य स्वस्योच्छिष्टोदकपानं कामकारितं निषिद्धं स्यात् इत्युक्त्वा स्वखादितशेषं जायायै दत्वा तया च रक्षितानपरेद्युर्याजनेनार्जिजीषया जिगमिषु: पुनरपि प्राणसंशयमापन्नस्तानेवेभ्योच्छिष्टान् स्वोच्छिष्टभूतान् पर्युषितांश्चखाद ।
(अधिकरणार्थोपसंहारः)
अतो ब्रह्मविदामपि प्राणसंशय एव सर्वान्नानुमतिदर्शनात् अत्राविशेषेण कीर्तितमपि प्राणविदस्सर्वान्नीनत्वं प्राणात्ययापत्तावेवेति निश्चीयते ॥२८॥
(उक्तार्थस्य आहारशुद्धिविधिविषयकल्पकत्वम्)
४४७. अबाधाच्च ॥३–४–२९॥
आहारशुद्धौ सत्त्वशुद्धि: सत्त्वशुद्धौ ध्रुवा स्मृति: (छा.७.२६.२) इति ब्रह्मविद्योत्पत्तौ आहारशुद्धिविधानाबाधादपि ब्रह्मविदां सर्वान्नीनत्वमापद्विषयमवगम्यते। एवं ब्रह्मविदामतिशयितशक्तीनामपि सर्वान्नीनत्वस्यापद्विषयत्वात्प्राणविदोऽल्पशक्ते: सर्वान्नानुमति: आपद्विषयैव॥२९॥
(उक्तेऽर्थे स्मृत्यानुगुण्यम्)
४४८. अपि स्मर्यते ॥३–४–३०॥
अपि च आपद्विषयमेव सर्वान्नीनत्वं ब्रह्मविदामन्येषां च स्मर्यते प्राणसंशयमापन्नो योऽन्नमत्ति यतस्तत:। लिप्यते न स पापेन पद्मपत्रमिवाम्भसा इति ॥३०॥
(सर्वेषामपि स्वच्छन्दप्रवृत्तिप्रतिषेधकं शास्त्रम्)
४४९. शब्दश्चातोऽकामकारे ॥ ३–४–३१ ॥
यतो ब्रह्मविदामन्येषां च सर्वान्नीनत्वमापद्विषयमेव; अत एव सर्वेषामकामकारे शब्द: – कामकारस्य प्रतिषेधक: शब्दो वर्तते । अस्ति हि कठानां संहितायां कामकारस्य प्रतिषेधक: शब्द: तस्माद्ब्राह्मणस्सुरां न पिबति पाप्मना नोत्सृजा इति इति । पाप्मना संस्पृष्टो न भवानीति मत्वा ब्राह्मण: सुरां न पिबतीत्यर्थ: ॥३१॥
इति श्रीशारीरकमीमांसाभाष्ये सर्वान्नानुमत्यधिकरणम्॥ ७॥