श्रीशारीरकमीमांसाभाष्ये विधुराधिकरणम्॥९॥
(अधिकरणार्थः – अनाश्रमिणामपि चेतनानां त्रैवर्णिकानां ब्रह्मविदयाधिकारलोपः)
४५४. अन्तरा चापि तु तद्दृष्टे: ॥ ३–४–३६ ॥
(अवान्तरसङ्गतिः)
चतुर्णामाश्रमिणां ब्रह्मविद्यायामधिकारोऽस्ति, विद्यासहकारिण आश्रमधर्मा इति चोक्तम्।
(विचारोपयोगी पूर्वः पक्षः)
ये पुनराश्रमानन्तरा वर्तन्ते विधुरादय:; तेषां ब्रह्मविद्यायामधिकारोऽस्ति, न वेति विशये-
(सयुक्तिकः पूर्वः पक्षः)
आश्रमधर्मेतिकर्तव्यताकत्वाद्विद्याया:, अनाश्रमिणां चाश्रमधर्माभावान्नास्त्यधिकार इति प्राप्ते :-
(सिद्धान्तार्थः)
उच्यते – अन्तरा चापि तु – इति। तुशब्द: पक्षव्यावृत्त्यर्थ:; चशब्दोऽवधारणे। अन्तरा वर्तमानानाम् अनाश्रिमणामपि विद्यायामधिकारोऽस्त्येव। कुत:? तद्दृष्टे: – दृश्यते हि रैक्वभीष्मसंवर्तादीनामनाश्रमिणामपि ब्रह्मविद्यानिष्ठत्वम् । न चाश्रमधर्मैरेव विद्यानुग्रह इति शक्यं वक्तुम्, यज्ञेन दानेन तपसानाशकेन (बृ.६.४.२२) इति दानादीनामाश्रमेषु अनैकान्तिकानामपि अनुग्राहकत्वदर्शनात् । यथोर्ध्वरेतस्सु विद्यानिष्ठत्वदर्शनादग्निहोत्रादिव्यतिरिक्तैरेव विद्यानुग्रह: क्रियते; तथाऽनाश्रमिष्वपि विद्यादर्शनादाश्रमानियतैर्जपोपवासदानदेवताराधनादिभि: विद्यानुग्रहश्शक्यते कर्तुम् ॥३६॥
(जपादितोऽपि विद्यास्वरूपनिष्पत्तिः स्मृत्यवगता)
४५५. अपि स्मर्यते ॥ ३–४–३७ ॥
अपि च अनाश्रिमणामपि जपादिभिरेव विद्यानुग्रह: स्मर्यते – जप्येनापि च संसिध्येद्ब्राह्मणो नात्र संशय:। कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते (मनु.२.८७) इति। संसिध्येत् – जपाद्यनुगृहीतया विद्यया सिद्धो भवतीत्यर्थ: ॥३७॥
(विद्यायाः धर्मविशेषतोऽप्यनुग्रहः श्रुत्यवगतः)
४५६. विशेषानुग्रहश्च ॥ ३–४–३८ ॥
न केवलं न्यायस्मृतिभ्यामयमर्थस्साधनीय:; श्रूयते चानाश्रमनियतैर्धर्मविशेषैर्विद्यानुग्रह: तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानमन्विष्येत् (प्रश्न.१.१०) इति ॥ ३८॥
(अनापदि आश्रमित्वमवर्जनीयम्)
४५७. अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥ ३–४–३९ ॥
तुशब्दोऽवधारणे; अत: – अनाश्रमित्वात् इतरत् – आश्रमित्वमेव ज्याय:, अनाश्रमित्वमापद्विषयम्; शक्तस्य त्वाश्रमित्वमेवोपादेयमित्यर्थ:; भूयोधर्मकाल्पधर्मकयोः अतुल्यकार्यत्वात्; लिङ्गाच्च – स्मृतेरित्यर्थ:। स्मर्यते च शक्तं प्रत्याश्रमस्योपादेयत्वम् । अनाश्रमी न तिष्ठेत्तु दिनमेकमपि द्विज: (दक्ष.स्मृ.१.१६) इत्यादिना। निवृत्तब्रह्मचर्यस्य मृतभार्यस्य च अवैराग्ये सति दारालाभ आपत् ॥ ३९॥
इति श्रीशारीरकमीमांसाभाष्ये विधुराधिकरणम्॥ ९॥