श्रीशारीरकमीमांसाभाष्ये मुक्तिफलाधिकरणम्॥१५॥
(अधिकरणार्थः – विद्यानिष्पत्तिं प्रति ब्रह्मविदपचारस्य प्रतिबन्धकत्वम्)
४६९. एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृते: ॥ ३–४–५१ ॥
(सूत्रविवृतिः, अधिकाशङ्का-परिहारौ च)
मुक्तिफलस्याप्युपासनस्य स्वसाधनभूतैरतिशयितकर्मभिरुत्पत्तौ एवमेव कालानियम:, तस्यापि पूर्ववत्प्रतिबन्धाभावप्रतिबन्धसमाप्तिरूपावस्थावगते: – अत्रापि तस्य हेतोस्समानत्वादित्यर्थ: ॥
सर्वेभ्य: कर्मभ्यो मुक्तिफलविद्यासाधनस्य कर्मण: प्रबलत्वात्प्रतिबन्धासम्भव इत्यधिकाशङ्का॥
तत्रापि ब्रह्मविदपचाराणां पूर्वकृतानां प्रबलानां सम्भवात्प्रतिबन्धसम्भव: इति परिहार:। द्विरुक्तिरध्यायपरिसमाप्तिं द्योतयति ॥
इति श्रीशारीरकमीमांसाभाष्ये मुक्तिफलाधिकरणम्॥१५॥
———
इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये तृतीयस्याध्यायस्य चतुर्थ:पाद:॥४॥
समाप्तश्चाध्याय:॥३॥