श्रीशारीरकमीमांसाभाष्ये प्रतीकाधिकरणम्॥३॥
(अधिकरणार्थः – प्रतीकोपासनस्थले, न आत्मत्वानुसन्धानं प्रतीके कार्यम्)
४७३. न प्रतीके न हि स: ॥ ४–१–४ ॥
(विषयोपस्थापनं संशयश्च)
मनो ब्रह्मेत्युपासीत (छा.३.१८.१) स यो नाम ब्रह्मेत्युपास्ते (छा.७.१.५) इत्यादिप्रतीकोपासनेष्वप्यात्मत्वानुसन्धानं कार्यम्, उत न – इति चिन्तायां –
(सहेतुकः पूर्वः पक्षः)
मनो ब्रह्मेत्युपासीत (छा.३.१८.१) इति ब्रह्मोपासनत्वसाम्याद्ब्रह्मणश्चोपासितुरात्मत्वात् आत्मेत्येवोपासीतेति ॥
(सूत्रतः सिद्धान्तः)
एवं प्राप्तेऽभिधीयते – न प्रतीके – इति । प्रतीके नात्मत्वानुसन्धानं कार्यम्; न हि स: – नह्युपासितुरात्मा प्रतीक: । प्रतीकोपासनेषु प्रतीक एवोपास्य:; न ब्रह्म। ब्रह्म तु तत्र दृष्टिविशेषणमात्रम् । प्रतीकोपासनं हि नाम अब्रह्मणि ब्रह्मदृष्ट्याऽनुसन्धानम्; तत्रोपास्यस्य प्रतीकस्योपासितुरात्मत्वाभावान्न तथाऽनुसन्धेयम् ॥ ४॥
(शङ्कासमाधाने )
नन्वत्रापि ब्रह्मैवोपास्यम्; ब्रह्मण उपास्यत्वसम्भवे मन आदीनामचेतनानामल्पशक्तीनां च उपास्यत्वाश्रयणस्यान्याय्यत्वात्। अतो मन आदिदृष्ट्या ब्रह्मैवोपास्यमिति; अत आह –
४७४. ब्रह्मदृष्टिरुत्कर्षात् ॥ ४–१–५ ॥
(निकृष्टे एवोत्कृष्टदृष्टेः न्याय्यता)
मन आदिषु ब्रह्मदृष्टिरेव युक्ता; न ब्रह्मणि मन आदिदृष्टि:, ब्रह्मणो मन आदिभ्य उत्कर्षात्; तेषां च विपर्ययात्। उत्कृष्टे हि राजनि भृत्यदृष्टि: प्रत्यवायकरी; भृत्ये तु राजदृष्टिरभ्युदयाय ॥५॥
इति श्रीशारीरकमीमांसाभाष्ये प्रतीकाधिकरणम्॥३॥