श्रीशारीरकमीमांसाभाष्ये आदित्यादिमत्यधिकरणम्॥
(अधिकरणार्थः – क्रत्वङ्गाश्रितेषूपासनेषु उद्गीथादावेव आदित्यादिदृष्टिः कार्या, न आदित्यादावुद्गीथादिदृष्टिः)
४७५. आदित्यादिमतयश्चाङ्ग उपपत्ते: ॥ ४–१–६ ॥
(विषयसंशयौ)
य एवासौ तपति तमुद्गीथमुपासीत (छा.१.३.१) इत्यादिषु कर्माङ्गाश्रयेषूपासनेषु संशय: – किमुद्गीथादौ कर्माङ्गे आदित्यादिदृष्टि: कर्तव्या, उतादित्यादिषूद्गीथादिदृष्टि: इति । उत्कृष्टदृष्टिर्निकृष्टे कर्तव्येति न्यायात्, उद्गीथादीनां च फलसाधनभूतकर्माङ्गत्वेनाफलेभ्य आदित्यादिभ्य: उत्कृष्टत्वादादित्यादिषूद्गीथादिदृष्टि:-
(सूत्रार्थतः सिद्धान्तः)
इति प्राप्तेऽभिधीयते – आदित्यादिमतयश्चाङ्गे – इति। चशब्दोऽवधारणे; क्रत्वङ्गे उद्गीथादावादित्यादिदृष्टय एव कार्या:; कुत:? उपपत्ते: – आदित्यादीनामेवोत्कृष्टत्वोपपत्ते:; आदित्यादिदेवताराधनद्वारेण हि कर्मणामपि फलसाधनत्वम्; अतस्तद्दृष्टिरुद्गीथाद्यङ्गे ॥ ६॥
इति श्रीशारीरकमीमांसाभाष्ये आदित्यादिमत्यधिकरणम्॥४॥