श्रीशारीरकमीमांसाभाष्ये अनारब्धकार्याधिकरणम्॥९॥
(अधिकरणार्थः – भगवदुपासकस्योक्तः सुकृतादिविनाशः फलदानप्रवृत्तपुण्यपापमात्रविषयः)
४८४. अनारब्धकार्ये एव तु पूर्वे तदवधे: ॥ ४–१–१५ ॥
(अवान्तरसङ्गतिः)
ब्रह्मविद्योत्पत्ते: पूर्वोत्तरभाविनोस्सुकृतदुष्कृतयोरश्लेषविनाशावुक्तौ ।
(विचारोपयोगी संशयः)
तत: पूर्वभाविनो: सुकृतदुष्कृतयो: किमविशेषेण विनाश:, उतानारब्धकार्ययोरेवेति विशये –
(युक्त्या पूर्वः पक्षः)
सर्वे पाप्मान: प्रदूयन्ते (छा.५.२४.३) इति विद्याफलस्याविशेषश्रवणाद्विद्योत्पत्युत्तर-कालभाविन्याश्च शरीरस्थिते: कुलालचक्रभ्रमणादिवत् संस्कारवशादप्युपपत्तेरविशेषेण –
(सूत्रार्थतः सिद्धान्तः)
इति प्राप्ते उच्यते: अनारब्धकार्ये एव तु पूर्वे – इति विद्योत्पत्ते: पूर्वे सुकृतदुष्कृते अनारब्धकार्ये – अप्रवृत्तफले एव विद्यया विनश्यत:; कुत:? तदवधे:– तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये (छा.६.१४.२) इति शरीरपातविलम्बावधिश्रुते: ॥
(संस्कारविशेषस्य अप्रामाणिकता)
न च पुण्यापुण्यकर्मजन्यभगवत्प्रीत्यप्रीतिव्यतिरेकेण शरीरस्थितिहेतुभूतसंस्कारसद्भावे प्रमाणमस्ति॥१५॥
इति श्रीशारीरकमीमांसाभाष्ये अनारब्धकार्याधिकरणम्॥ ९॥